श्रीहरिहरपुत्रसहस्रनामाभिषेकमन्त्रम्
प्राणापान-व्यानोदान-समाना मे शुध्यन्ताम् ।
ज्योतिरहं विरजा विपाप्मा भूयासग्ं स्वाहा ॥ १॥
वाङ्मनश्चक्षुश्रोत्रजिह्वाघ्राणरेतोबुद्ध्याकूतिस्सङ्कल्पा मे शुध्यन्ताम् ।
ज्योतिरहं विरजा विपाप्मा भूयासग्ं स्वाहा ॥ २॥
त्वक्चर्म-माग्ंस-रुधिर-मेदो-मज्जा-स्नायवोऽस्थीनि मे शुध्यन्ताम् ।
ज्योतिरहं विरजा विपाप्मा भूयासग्ं स्वाहा ॥ ३॥
शिरःपाणि-पाद-पार्श्वपृष्ठोरूदर-जङ्घा-शिश्नोपस्थ-पायवो मे शुध्यन्ताम् ।
ज्योतिरहं विरजा विपाप्मा भूयासग्ं स्वाहा ॥ ४॥
पृथिव्यापस्तेजोवायुराकाशा मे शुध्यन्ताम् ।
ज्योतिरहं विरजा विपाप्मा भूयासग्ं स्वाहा ॥ ५॥
शब्द-स्पर्श-रूप-रस-गन्धा मे शुध्यन्ताम् ।
ज्योतिरहं विरजा विपाप्मा भूयासग्ं स्वाहा ॥ ६॥
(मनो-बुद्ध्यहङ्कारश्वित्तं मे शुध्यन्ताम् ।
ज्योतिरहं विरजा विपाप्मा भूयासग्ं स्वाहा ॥)
मनो-वाक्काय-कर्माणि मे शुध्यन्ताम् ।
ज्योतिरहं विरजा विपाप्मा भूयासग्ं स्वाहा ॥ ७॥
देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां
अश्विनो भेषज्येन तेजसे ब्रह्मवर्चसायाभिषिञ्चामि ॥ ८॥
देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां
सरस्वत्यै भेषज्येन वीर्यायान्नाद्यायाभिषिञ्चामि ॥ ९॥
देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां
इन्द्रस्येन्द्रियेण श्रियै यशसे बलायाभिषिञ्चामि ॥ १०॥
इति श्रीहरिहरपुत्रसहस्रनामाभिषेकमन्त्रं सम्पूर्णम् ।
Proofread by PSA Easwaran