गुरुतत्त्वविवेचनम्
अन्धेनाऽन्धीकृतं विश्वं सचक्षुस्तु सचक्षुषम् ।
दिदृक्षा चेद्भज त्वं तु देशिकेन्द्रं सचक्षुषम् ॥ १॥
अन्धस्य गुरुरेकाक्षस्तस्य द्व्यक्षो गुरुर्मतः ।
द्व्यक्षाणामपि सर्वेषां गुरुस्त्रयक्षो न तत्समः ॥ २॥
सहस्राक्षादयः सर्वे द्व्यक्षा एव हि केवलम् ।
कार्यध्येय-दृशो यस्मात् त्र्यक्षशिष्यपदे स्थिताः ॥ ३॥
त्र्यक्षस्तु भगवानादिपुरुषः शङ्करो भवः ।
सृष्ट्वा सर्वाणि भूतानि कायमध्येऽथ सन्दिशन् ॥ ४॥
उभयातीतममलं तृतीयाक्षस्य गोचरम् ।
ददाति प्रार्थितस्तुष्टः श्रीगुरुः परमेश्वरः ॥ ५॥
स आदिनाथो भगवाननादिर्ज्ञानाम्बुधिः स्वात्मरतिर्महात्मा ।
श्रीदेशिकेन्द्र करुणाम्बुराशिर्नानास्वरूपैश्चरतीह लोके ॥ ६॥
क्वचिच्च किञ्चित् कुरुते मनस्वी क्वचिन्न किञ्चित् कुरुते प्रमत्तः ।
वालो यथा क्रीडति सर्वलोके तथैव स क्रीडति पामरेषु ॥ ७॥
स लभ्यते केनचिदेव पुंसा विज्ञायते केनचिदेव पुंसा ।
प्रस्तूयते केनचिदेव पुंसा शृणोति वा तं स नरोऽपि धन्यः ॥ ८॥
इति श्रीकृष्णानन्दयतिविरचितं गुरुतत्त्वविवेचनं सम्पूर्णम् ।
Proofread by Aruna Narayanan narayanan.aruna at gmail.com