गुरुस्तुतिः ३
ॐ शिवाय गुरवे नमः ।
ॐ तत्त्वोत्तीर्णोऽतुल-निज-चमत्कारपूर्णो ह्यनन्या
पेक्षी स्वैरी कचनपरमो भैरवो बोधभानुः ।
मालिन्यान्ध्यं त्रिविधमखिलं नाशयित्वाहृदब्ज-
सङ्कोचं नः स्वकरनिकरेणोदितः सन्धुनोतु ॥ १॥
या व्यक्तेः प्राक् किल परमहामन्त्रभूमिः पराख्या
पश्यन्ती तामुपगतवती द्योतयन्त्यर्थजातम् ।
भेदामर्शारचन-कुशला मध्यमा वैखरी या
व्यक्ता संविल्लसतु हृदिनः क्षोभतूलाग्निहेतिः ॥ २॥
श्री श्रीकण्ठादनुपम-फला याहि सन्तान-शाखा
याता तस्यां समधिगतवान् शैशवे शक्तिपातात् ।
श्रीरामाख्यं गुरुमथ च तत् सेवयावाप्तधीर्यः
तं श्रीविद्याधर-गुरुवरं स्वात्मरामं नमामि ॥ ३॥
देहाय्चात्मे त्यखिल जगतामान्ध्यपूर्णो विवादः
तुच्छोच्छेद्यो यदपिच शिवः शास्ति चैतन्यमात्मा ।
आमृश्यैवं विपिनमगमद्रागजालस्य छित्यै
तं श्रीविद्याधरगुरुवरं स्वात्म-रामं नमामि ॥ ४॥
कार्कोटाहेर्गहन भवने हिंस्त्र-जीवैः परीते
शाक्रस्फारातिशय-विमलो जातसंविद्-वकासः ।
क्रुद्धा हिंस्रा गुरु-वर-धिया मस्तकैर्यं प्रणेमुः
तं श्रीविध्याधर-गुरु-वरं स्वात्म-रामं नमामि ॥ ५॥
यस्या-भूम्ना चकित-चकितोऽभूदयं मर्त्यवर्गः
पादौ स्पृष्टं द्रुतमुपययौ प्रावृणो-च् चाश्रमं तत् ।
नैतत् शर्मेत्यमर विवरं प्राप यः शैवधर्मा
तं श्रीविध्याधर-गुरु-वरं स्वात्मरामं नमामि ॥ ६॥
आश्यानोयं चितिरस-मयः सर्वतो भाववर्गः
नानारूपं श्रयति द्रवतामागतोऽव्यक्रतां च ।
इत्यानीतः स्वगृहममरे-शेनयः शिक्षणार्थं
तं श्रीविध्याधर-गुरु-वरं स्वात्मरामं नमामि ॥ ७॥
स्वानारण्या वट-झर-महीधेशुचीर्णव्रतो यो
योगक्षेमी वितरणमतिशिचन्तयदात्त्मज्ञानम् ।
दानं भूत्यै भवति जगतां शिक्षियंश्चाविनीतान्
तं श्रीविद्याधर-गुरु-वरं स्वात्मरामं नमामि ॥ ८॥
क्रीडाशीलो वलित-स्वतनुश्चेत्यसङ्कोचधर्मा
संसारी स्याच्छिव इत्युदितं शक्तिसूत्रेषु सम्यक् ।
तत्रोपायं स्वकरमविददुद्यमो भैरवो यः
तं श्रीविद्याधर-गुरुवरं स्वात्मरामं नमामि ॥ ९॥
शैवाम्नाय-प्रवचन-रति-शङ्करो यो हि देवः
पीयूषांशुः इव मुख-रुचा ह्लादयन् शिष्यसङ्घान् ।
दीप्त्या भास्वान् इव हृदयपं केरुहोद्-बोधहेतुः
तं श्रीविद्याधर-गुरुवरं स्वात्मरामं नमामि ॥ १०॥
जज्ञे लग्ने धनुषि सविधौ यस्तुमीनेऽथ केतौ
भौमे सौरे रतिगृहगते कर्कटे चोष्मरश्मौ ।
शुक्रे ज्ञेज्ये नवमगृहगे कन्यकायां चराहौ
तं श्रीविध्याधर-गुरुवरं स्वात्मरामं नमामि ॥ ११॥
भूयः स्यात्प्रतिमेलनं प्रतिभुवः सूत्रं शिवस्यान्तिमम्
सम्यक् योप्यवधार्य शाश्वतपदं शैवं सहस्यामले ।
बाण-द्वय-भ्र-शरे समेऽपिच तृतीयस्यां निशान्ते ययौ
श्रीविध्याधर स्वामि-दैशकमणिर्भूयादघध्वंसकृत् ॥ १२॥
यत्पाद-पद्म-संस्पर्शात् सत्त्वरं श्यामचेतसाम् ।
सुन्दरो जायते बोधः शरणं सोऽस्तु नः शिवः ॥ १३॥
इति श्रीविध्याधरगुरुस्तुतिः समाप्ता ।
Encoded and proofread by Girdhari Lal Koul glkoul.18 at gmail.com