गुरुराजस्तवः
सद्गुरुं भज सद्गुरुं भज सदगुरु भज बुद्धिमन्
येन संसृतिपारमेष्यसि मुक्त इत्यपि गास्यसे ।
आसुरीं त्यज सम्पदं विपदां पदं मुनिगर्हितां
तर्हि तां भज सम्पदं मुनिसंस्तुतां भगवत्प्रियाम् ॥ १॥
गर्व-पर्वत-मस्तके तव संस्थितिनं हि शोभते
पातमेष्यसि घातकर्मणि युज्यसे न तु पूज्यसे ।
सात्त्विकं फलमश्नुषे यदि सत्यवृत्तपरायणो
दनुजसूनुरिवामरद्रुममर्हणं भगवत्पदम् ॥ २॥
दम्भमार्गपरायणं यदि सत्फलाय भवत्यहो
इल्वलादिकृताऽपि विप्रवरार्चना विषमा कथम् ।
कष्टमेष्यसि दुष्टबुद्धिपरायणो यदि चाऽन्तरे
मृष्ट मृष्ट परं पदं तव दूरतः स्तवकर्मणाम् ॥ ३॥
मुक्तताऽपि मुमुक्षुता कपटौघमूलनिकृन्तनी
नीतिरर्भकता तथा यदि नास्ति जन्म निरर्थकम् ।
केषु ते गणना भवेद् वद विद्यवेद्यसमान्तरे
भासुरे जनजन्म कर्म निरर्थकं कुरुषे कुतः ॥ ४॥
साधुचित्तविखण्डनाद् भगवत्प्रियावपि दानवौ
तत्र साधुविघर्षणादपि राक्षसौ मुनिभक्षकौ ।
तेन हीनबलावथो नृपनामदूषकराक्षसौ
कृष्णहिंसन-तत्पराविति कर्मणो गहना गतिः ॥ ५॥
व्रह्मनिष्ठ -विमाननान्निज -सूनुगीतहरेः पदे
द्वेष आविरभूद्भवग्रहमान्त्रिके निजसेविते ।
दानवस्य च दानधर्मपरायणस्य च रक्षसः
शैवधर्मरतस्य मूलविनाशनोऽप्यघनाशने ॥ ६॥
जीवतामपहापयञ्छिवतां दिशत्यतिकौशलात्
पूर्ववत् स्थितविश्वमेष तिरष्करोत्यतिलीलया ।
तं गुरुं भज नम्रमोचनकारकं भवतारकं
तत्र शात्रवमत्र यच्छति वृक्षतां पितृकानने ॥ ७॥
श्रीगुरोः पदपङ्कजं भजतां सतां सततं हरिः
सन्निधाविति सर्वशासनसारमेतदुदीरितम् ।
तन्महत्त्वमहाम्बुधेरपरं तटं न हि केचन
प्राप्नुवन्ति परावरज्ञाः पण्डिताः सनकादयः ॥ ८॥
शब्दमूलमहो गुरुः शिवजीवविश्वभिदास्पदं
विश्वजीवशिवादिनामत एष एव हि बुध्यते ।
वाच्यकोटिनिविष्टमेव हि तत्त्रयं कृतपत्त्रयं
लक्ष्यभूतवपुर्गुंरुस्तमु जानते न हि केचन ॥ ९॥
वृत्त्यनाश्रितचित्स्वरूपक एष एव समः प्रभो
वृत्तिरूढचिदम्बरं खलु जीव ईश इदं जगत् ।
जन्म-मृत्यु-नियामकः परमेश्वरः स तु भोगभुग्
जन्ममृत्यु-निवारकः परमेश्वरादतिरिच्यते ॥ १०॥
ब्रह्मरन्ध्रपदं गुरोर्हृदयं शिवस्य निजास्पदं
स्थानमेव हि तत्स्वरूप-विनिर्णयाय भवत्फलम् ।
हृद्यतो विषयान् भजत्यथ नैव किञ्चन रन्ध्रगो
यच्छति क्रमतः फलं वद मुक्तिदोऽस्त्यनयोऽस्तु कः ॥ ११॥
तत्स्वरूपविमर्शनं गुरुपादुकामनुसंशितं
तत्मनुस्तु तदीयपूर्णकृपाभरेण हि लभ्यते ।
लाभतो गुरुणा सहैक्यविमर्शनं परमं पदं
तत्र मुक्तिवराङ्गना वृणुते स्वयं निजसम्पदा ॥ १२॥
तत्र यो विमुखो नरो निजघातकीर्ति निगद्यते
तस्य सम्मुखतां भजन् परमद्वयं भवति क्षणात् ।
ऋक्श्रुतिः शतधारमित्यपि नौति तां गुरुपादुकां
कृष्णभिक्षुरिमं स्तवं पदपङ्कजेऽर्पयते गुरोः ॥ १३॥
द्रोणपर्वतवासिने नतशासिने मतिकाशिने
हारिणे विपदां मुहुर्मम दायिनेऽखिलसम्पदाम् ।
सच्चिदादिसुखाभिधाय यतीश्वराय सहस्रशः
सन्त मे नतयो दयोदकसागराय दिने दिने ॥ १४॥
स्तोत्रमेतदभीष्टसिद्धिद -मासुरव्रत -हारकं
तारकं निजदेशि -केन्द्रपदाब्जयोर्दृढसन्मतेः ।
य पठेत् प्रयत्नः शुचिः सुविचायं भूरि दिने दिने
मुच्यते भवपाशपाशित एवमेव मतिर्मम ॥ १५॥
इति श्रीमत्कृष्णानन्द-सरस्वतीकृत-गुरुराजस्तवः सम्पूर्णः ।
Proofread by Aruna Narayanan narayanan.aruna at gmail.com