गुरुपरम्परापरिचयः
(वाराणसीस्थ श्रीध्रुवेश्वरमठीय गुरुपरम्परापरिचयः)
नारायणं पद्मभवं वसिष्ठं शक्ति च तत्पुत्रपराशरञ्च ।
व्यासं शुकं गौडपदं महान्तं गोविन्दयोगीन्द्रमथास्य शिष्यम् ॥ १॥
श्रीशङ्कराचार्यमथास्य पद्मपादं च हस्तामलकञ्च शिष्यम् ।
तं तोटकं वार्तिककारमन्यानस्मद्गुरून्सन्ततमानतोऽस्मि ॥ २॥
विप्राग्रणीं जोधपुरीयविप्रवंशोद्भवं मानगिरिं यतीन्द्रम् ।
ध्रुवेश्वरस्थापकसद्गुरोर्गुरुं श्रियोऽधिवासं प्रथमं प्रणौम्यथा ॥ ३॥
पाञ्चालभूदेवकुलोद्भवं तं प्रणौम्यथामेघगिरिं द्वितीयम् ।
ध्रुवेश्वराधीशगुरुं यतीन्द्रं श्रीभारतीयुग्मसमाश्रयञ्च ॥ ४॥
अथात्र काश्यां विबुधाश्रयार्थं ध्रुवेश्वराख्यं भवनं भवस्य ।
संस्थापितं यैश्च ससाधुवादं विद्याविनोदाय सुविस्तृतं तम् ॥ ५॥
पञ्चाम्बुदेशीयसुविप्रवंशसमुद्भवं रामगिरिं तृतीयम् ।
संस्थापकं नौमि तपोऽधिवासं रेवाडिनामाञ्चलजातरत्नम् ॥ ६॥
श्रीसच्चिदानन्दगिरिं तुरीयं तुरीयवर्णाश्रममण्डनञ्च ।
यद्राजपुत्रेऽस्ति पुरं प्रसिद्धं जयाभिधं तत्र धृतावतारम् ॥ ७॥
येनान्नसत्राणि विनिर्मितानि सप्तानि सत्सेवनतत्पराणि ।
सम्प्रेरयन्भक्तवरान्स्वकीयाननन्तजन्मोदितपुण्यपुञ्जान् ॥ ८॥
शिष्यं हि तेषाममरेश्वराख्यं ध्रुवाधिपं पञ्चममानतोऽस्मि ।
श्रीमन्मनीशाख्ययतिं च षष्ठं पञ्चाम्बुविप्रान्वयलब्धकायम् ॥ ९॥
अद्वैतवेदान्तविलासभाष्यकारैरथाद्यैः समधिष्ठितं यत् ।
निरञ्जनं पीठमनादिविद्याप्रकाशबिम्बं समधिष्ठितं यत् ॥ १०॥
योगीन्द्रं तमनन्तपादनिलये लीनं प्रणम्यादरात्
पीठाधीशमथाष्टमं यतिवरं श्रीमन्नृसिंहं भजे ॥ ११॥
अद्वैतं दुरितार्दने द्वयमपि प्रत्यक्षतो यत्पदं
सत्यश्चापि विमोहचौर्यचतुरा वाचो यदीयास्तथा ।
दत्ताशेषजनाभयोऽपि निरतः संसारनिःशेषणे
यः सोऽयं यतिभूपतिर्विजयते श्रीमन्नृसिंहाधिपः ॥ १२॥
बाल्यादेव तिरस्कृतं भवसुखं येनाश्रिता ब्रह्मदृक्
यस्मिन्नित्यसुखाम्बुधौ बुधजनाः नित्यं निमग्नाः सदा ।
कीर्तिर्यस्य सुविस्तृता धवलिता चानिर्जगन्तादिह
सोऽयन्नः परमो गुरुर्विजयते श्रीमन्नृसिंहाधिपः ॥ १३॥
कालिन्द्याः पुलिने विशालभवने प्रोत्तुङ्गशृङ्गाङ्किते
यस्मिन्नादनिबद्धयन्त्रघटिका वैतालिको राजते ।
विद्यादानपरायणैर्यतिवरैः श्रीमन्नृसिंहाभिधैः
विद्यापीठमधिष्ठितं सुललितं श्रीविश्वनाथाह्वयम् ॥ १४॥
यास्मिन्सौरभपूरिता सुफलदा रम्या शुभा वाटिका
विश्रामार्थविनिर्मिता कुसुमिता भृत्यैः सदा सेविता ।
विद्यापाठपरायणा वटुवरास्तस्मिन्वसन्तोऽव्ययां
विद्यामाकलयन्ति हे बहुविधां धर्मार्थमोक्षप्रदाम् ॥ १५॥
मध्ये वर्तुलवेष्टितो ह्युपवने विश्रामकार्यालय-
स्तस्याग्रे च विशालयज्ञभवनं यनिर्मितं नूतनम् ।
छात्राश्चात्र सदा चरित्रविषयेऽचिन्त्यञ्चयञ्चेतसि
लोकाचारविचारचारुचपलाश्चिन्वन्ति चिन्मङ्गलाः ॥ १६॥
तत्राराच्च विनिर्मितः सुललितः श्रीविश्वनाथालयः
संन्यासाश्रमनामकञ्च भवनं धर्माथिभिर्निर्मितम् ।
सायम्प्रातरखण्डशास्त्रविषये यस्मिन् रताः सज्जनाः
श्रुत्वा श्रौतवचश्चतुर्थफलदं साध्यं फलं यान्ति ते ॥ १७॥
देहल्यामितिसर्वसंस्कृतमहाविद्यालयो नाऽपरः
एवन्नापरमस्ति साधनयुतं स्थानं क्वचिच्छोभनम् ।
श्रीविद्यायुगलं हि यत्र रमते शश्वत्सुशङ्कारकं
यस्याऽयं सुनिरीक्षको विजयते श्रीमन्नृसिंहेश्वरः ॥ १८॥
काश्यामप्यतिविस्तृतं बुधवरैः संसेवितं सादरं
विद्यापीठमधिष्ठितञ्च सुखदं ग्रन्थालयो नूतनः ।
दिव्यं यत्र विराजते ह्युपवनं देवालयञ्चादिमं
यस्मिन्विश्वगुरुर्भवो विजयते श्रीदक्षिणामूर्तिभृत् ॥ १९॥
आसीत्पूर्वमिदं सुजीर्णमभितो ध्वंसावशेषायितं
यत्रेदं भवनं नवं विरचितं यत्नैश्च येनात्मनः ।
रक्षार्थ हि समर्पितं बहुधनं सद्भक्तवृन्दार्पितं
सोऽयन्नः परमो गुरुर्विजयते पीठाधिपश्चाष्टमः ॥ २०॥
यं भक्ताः समुपासते सुमनसा स्वाभीष्टसंसिद्धये
स्वात्मानन्दविवृद्धयेऽपि यमिनो वैराग्यरागान्विताः ।
सच्छास्त्राम्बुधिपारगा अपि सदा स्तुन्वन्ति यं सादरं
वन्देऽहं तमखण्डबोधविभवं श्रीमन्नृसिंह गुरुम् ॥ २१॥
रामानन्दगिरिं गिरन्तमनिशं ब्राह्मीं गिरं सादरं
विद्याधीश्वरमुत्तरापथधराविप्रात्मजं सप्तमम् ।
राजस्थानधरामरान्वयभवः श्रीमन्महेशाधिपः
पीठाधीश्वरचक्रवर्त्यनुपमः संरक्षको राजते ।
ज्ञानं यस्य नवानवं सुविमलं वैदेशिकं दैशिकं
मर्त्यानां प्रहिनस्ति दर्पभरितं ह्यज्ञानमेकान्ततः ॥ २२॥
येषाञ्चामृतपूरितां मृदुगिरां श्रुत्वैव मुक्तिप्रदां
मुञ्चन्तो भवबन्धनं मुनिपथं प्रायान्तिं भक्ताभृशम् ।
तेषां सज्जनचेतसां श्रुतिविदां सम्प्राप्य संरक्षणं
विश्वासः खलु नः समुन्नतिपदं प्राप्स्यन्ति पीठादयः ॥ २३॥
भाले यस्य सुशोभितं सुभसितं तापापहं चन्दनं
वस्वाधिक्यशतं गले विलुलितं रुद्राक्षमाल्यं सदा ।
कौशेयश्च य सुप्रभासितमतो बालार्ककान्तं वपु-
स्तं वन्दे नवमं निरञ्जनपतिं श्रीमन्महेशाधिपम् ॥ २४॥
त्यक्त्वा दुःखावलोढं भवविभवमुखं शैशवादेवपूर्णं
यैराचारैः स्वकीयैरथ सुजनमनस्तोषपोषौ जुषाणम् ।
दिव्यं विज्ञानमाध्यात्मिकमखिलसुखाभासमूलं ह्यधीतं
तं कृष्णानन्दपादं वयमभिनवमाचार्यवयं भजामः ॥ २५॥
नानाविद्यानिवासं नवयुगयुवकोत्साहवादस्वभावं
श्रौतस्मार्तादिकर्मस्वविरतनिरतं ब्रह्मविद्याविलासम् ।
नित्यं गीर्वाणवाणीविपिनहृतसुधासौरभापूरितास्यं
कृष्णानन्दं गिरिं तं वयमभिनवमाचार्यवयं नमामः ॥ २६॥
यदीयवानिर्झरिणी समुज्झयत्युपेतचेतः कलुषाण्यशेषतः ।
तमः समुद्ध्य ददातु सद्धियं नृसिंहसंज्ञो यतिवासवः स वः ॥ २७॥
इति गुरुपरम्परापरिचयः सपूर्णः ।
Proofread by Mohan Chettoor