श्रीगुरुपादुकास्तोत्रम्
अथ श्रीगुरुपादुकास्तोत्रम् ।
श्रीगुरुपादुकाभ्यां नमः ।
आध्यादिभीतिद्वयभञ्जिकाभ्यां
संसारतापत्रयशामिकाभ्याम् ।
धर्मादिमोक्षान्तपुमर्थदाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ॥ १॥
कामादिवैरिव्रजदाहिकाभ्यां
विवेकवैराग्यधृतिप्रदाभ्याम् ।
मोक्षप्रदाभ्यां मुहुरार्चिताभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ॥ २॥
काषायवस्त्राङ्कितकान्तियुग्म्यां
रुद्राक्षदण्डादिविभूषिताभ्याम् ।
वेदोक्तधर्मोद्धरणेरताभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ३॥
गङ्गादितीर्थैरवनेजिताभ्यां
अनन्यभक्त्यार्चितपुष्पवद्भ्याम् ।
नीराञ्जिताभ्यां घृतदीपजालैः
नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ४॥
अनन्यभक्तोद्धरणे दृढाभ्यां
जाम्बूनदाव्होत्सवपूजिताभ्याम् ।
सदास्मरद्भक्तमनोहराभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ५॥
इति गणेशशास्त्रीहळदीपूरविरचितंश्रीगुरुपादुकास्तोत्रं सम्पूर्णम् ।
Encoded and proofread by Musiri Janakiraman