श्रीगुरुपादुकापुष्पमाला
ॐ श्रीगुरवे नमः ।
मद्धृत्स्थं सुभगाकारं सर्वसौख्यकरं परम् ।
भवतापहरं शूरं वरेण्यं विदुषां मतम् ॥ १॥
महनीयाकृतिं देवं श्रीगुरुं परमं विभुम् ।
लक्ष्मणं लक्षणैर्युक्तं प्रणौमि सर्वदं सदा ॥ २॥ (युगलकं)
दासोऽहमस्मि मूढोऽहं त्वद्दयावञ्चितः खलु ।
कृपाकटाक्षपूरैस्त्वं पूरय विरसं मनः ॥ ३॥
दर्श दर्श भवद्रूपं तृण्मदीया न शाम्यति ।
श्रावं श्रावं भवत्कीर्ति शुश्रूषा नापक्षीयते ॥ ४॥
स्मारं स्मारं भवन्नाम जिगीषा नापचीयते ।
पायं पायं भवद्वाक्यं मत्पिपासा प्रवर्धते ॥ ५॥
कौलाख्ये शैवशास्त्रे यः विग्रहीव कलौ युगे ।
सन्तारयति ज्ञानस्य पोतेन शरणागतान् ॥ ६॥
अवाप्तुकामो भवदाश्रयं हि विषण्णचेता विभवाब्धिमग्नः ।
त्वत्पूतपादाब्जपरागकाङ्क्षी द्वारे तव प्राञ्जलिरागतोऽस्मि ॥ ७॥
धुनोति वायुर्हि यथा महीरुहान् इयं तथा दुष्प्रकृतिर्मनुष्यान् ।
परं भवद्दर्शनवातपालितान् नरान् समर्थोऽस्ति न कोऽपि धर्षितुम् ॥ ८॥
अल्पज्ञान् कुजनान् धीमान् कौलाचारविवर्जितान् ।
नवाभिनवकैर्भावैः प्रपूरयति मद्गुरुः ॥ ९॥
त्वद्वाक्यतन्त्र्योद्यत रम्यनादैः मनोज्ञभावैः रसपूरितं सत् ।
स्वान्तं मदीयं रसभावहीनं प्राप्नोत्यनाख्यां स्थितिमद्वितीयाम् ॥ १०॥
भवत्पदाब्जेन मनाक् स्पृष्टे मलन्त्रिधा द्रागपयाति कुत्र ।
जाने न भो कौलिकदेशिकेन्द्र ! एतद्धि सत्यं न मृषाब्रवीमि ॥ ११॥
पूतं विविक्तं दशरागवर्जितं सत्त्वे सुनिष्ठं नयनामृतं परम् ।
स्वतन्त्रविद्वज्जनवृन्दवन्दितं गुरुं दयाद्रं प्रणमामि नित्यम् ॥ १२॥
स्मृतौ निमग्नः विरहातुरस्त्वहं लेभे न शान्ति न सुखं न निद्राम् ।
निकामपानीययुतां न कोऽपि हित्वा नदीं सञ्जति तृष्णिकायाम् ॥ १३॥
तव भक्तिसुधाहीना दशा न मां सुखावहा ।
मधुकुम्भे महालब्धे द्राक्षेहा नोपजायते ॥ १४॥
न भोगविभवं काङ्क्षे न सुखं नार्थसञ्चयः ।
परमेका भवद्भक्तिरस्तु मे सर्वसौख्यदा ॥ १५॥
सुदर्शनः सदास्तु मामनन्तानन्दवर्धकः ।
संविन्मार्गो भवत्प्राप्तिसाधकः त्रिगुणात्मकः ॥ १६॥
नासीनस्य न सुप्तस्य भ्रमतो नोत्थितस्य न ।
त्वामन्तराशमोनास्ति दिवा रात्रौ च जाग्रतः ॥ १७॥
कठोरः कोमलाङ्गोऽसि दुर्धषः सुलभोऽसि त्वम् ।
उग्रः शान्तस्वभावोऽसि दाने रतोऽसि निर्मदः ॥ १८॥
बभर्ति भक्तान् स्वस्नेहधारया जहर्ति दुष्टान् भवभक्तिबाधकान् ।
विभूतिसुसिद्धिसमृद्धियुक्तान् चकर्ति लोकान् स्वकृपाकटाक्षैः ॥ १९॥
समानभावेन समानप्रीत्या समत्वयोगी समताप्रचारकः ।
सर्वान् शरण्य शरणागताञ्च कारुण्यभावेन समीक्षसे त्वम् ॥ २०॥
त्वग् मज्जास्थि हृदि व्याप्तं जन्मान्तरैरुपार्जितम् ।
तत्सर्वं नाशयत्वीश ! यदघौघं मया कृतम् ॥ २१॥
एकविंशतिपुष्पाणां कोकिलेन कृता मया ।
माला श्रीगुरुदेवस्य लक्ष्मणस्य प्रसादये ॥
इति श्रीमखनलालकोकिलविरचिता श्रीपादुकापुष्पमाला ।
इति शिवं
Encoded and proofread by Swathi R Venkata