श्रीगुरुगजाननाष्टकम्
(द्वितीयं )
ॐ श्री
॥ श्रीशङ्कर ॥
लोकान् भवोपहतसर्वविचारशक्तीन्
अन्धाश्च मोहतमसा मरणाभिभूतान् ।
उद्धर्तुमेव धृतमानवविग्रहं तं
श्रीमद्गजानन गुरुं शिरसा नमामि ॥ १॥
शास्त्रैरनाकलितमस्ति महो यदीयं
सम्बोधितं श्रुतिभिराकलने च नेति ।
आविर्बभूव सगुणं त्विह तत् परं तं
श्रीमद्गजाननगुरुं शिरसा नमामि ॥ २॥
यद्दर्शनाद्भवति फुल्लतरं हृदब्ज-
मन्तर्दधात्युडुगणं मदमोहरूपम् ।
अज्ञानघोरतिमिरस्य दिवाकरं तं
श्रीमद्गजाननगुरुं शिरसा नमामि ॥ ३॥
कुण्ठं मनो भवति यद्विषये विचारे
मूकायते च रसना स्तवने प्रवृत्ता ।
तं भक्तिगम्यममृतं त्रिगुणैरतीतं
श्रीमद्गजाननगुरुं शिरसा नमामि ॥ ४॥
सच्चित्सुखं परममङ्गलमात्मरूपं
जाग्रत्सुषुप्तिरहितं सततं तुरीयम् ।
ध्यानस्थितं पदनतार्तिविनाशिनं तं
श्रीमद्गजाननगुरुं शिरसा नमामि ॥ ५॥
पादोदकेन खलु येन सुधामयेन
श्रीजानरावमरणं कृपया निरस्तम् ।
मार्कण्डभक्तवरदं शिवरूपिणं तं
श्रीमद्गजाननगुरुं शिरसा नमामि ॥ ६॥
वापी जलेन रहिता च चकार पूर्णां
यो वारिणा सुमधुरेण निजप्रभावात् ।
भक्त्याच शुष्कहृदयं सजलं करोति
श्रीमद्गजाननगुरुं शिरसा नमामि ॥ ७॥
भक्तिर्दृढास्तु हृदये सततं मदीये
मा मे मनो भवतु मोहवशं कदापि ।
श्लोकैरतो वसुमितैर्गणुदासदासः
श्रीमद्गजाननगुरुं सदयं स्तुनोति ॥ ८॥
इति स्वामी वरदानन्दभारतीविरचितं श्रीगुरुगजाननाष्टकं सम्पूर्णम् ।
भावार्चना (प्राचार्य अ. दा. आठवले)
https://www.santkavidasganu.org, https://www.youtube.com/@varad-vani1496
Encoded and proofread by Arun Parlikar