गोरक्षनाथाष्टकम्
योगीन्द्राप्तहितोपदेशविशदा देशार्थतत्त्वं शिरो
ज्ञानं कर्म च दक्षिणोत्तरगता वक्षोभ्यपक्षावसौ ।
आत्मा योगवरः स्वरूपविषया पुच्छे प्रतिष्ठाचितो
माया यस्य जगत्त्रयं विजयते हंसः स नाथो विभुः ॥ १॥
द्वैतं दक्षिणपक्ष एष विहितोऽद्वैतं विविच्योत्तरः
पक्षो योगशिरो विशेषपरमा द्वैतं तदात्मा महान् ।
पुच्छं केवलभाव एक विदुषां हृत्पद्मनीड मह-
न्माया यस्य जगत्त्रयं विजयते हंसः स नाथो विभुः ॥ २॥
ऐन्द्री दिक्षभपूर्वरूपमतुलं पुच्छं प्रतीची दिशो-
दीतीयाम्यदिशावतीव विपुलौ दक्षौ हि पक्षौ हितो ।
आत्मेवापदिश दिशासु तरले सूर्येन्दुबिम्बे दृशौ
माया यस्य जगत्त्रयं विजयते हंसः स नाथो विभुः ॥ ३॥
शृत्यन्ते कथितं शिरो महदिदं पक्षोऽयमत्रोत्तरः
सोयं दक्षिणपक्ष एव विपुलः स्थूलोऽयमात्माचलः ।
स्वच्छं पुच्छमिवेदमेव भुवन नीडं सरूपाभिधं
माया यस्य जगत्त्रयं विजयते हंसः स नाथो विभुः ॥ ४॥
प्राणों दक्षिणपक्ष एष वितती दानो भवत्युत्तरः
पक्षो व्यानशिरो विशालहृदयं मध्यं समानोऽपरः ।
वायुः पुच्छमतुच्छमेव भजतां नीडं निकायो जडं
माया यस्य जगत्त्रयं विजयते हंसः स नाथो विभुः ॥ ५॥
भव्यं सत्मृतं च पक्षयुगलं वाणी शिरः प्राणिना
मात्माऽशेषविशेषदोषरहितः श्रद्धेव पुच्छं फलम् ।
सर्वं तुच्छमनुप्रविश्य सहसा तुच्छं पुरा व्याकृतं
माया यस्य जगत्त्रयं विजयते हंसः स नाथो विभुः ॥ ६॥
पश्चैतद्यजुरेव साङ्गमखिलं नित्य शिरो निर्मल-
मृक्सामात्मकवेदयुग्ममतुलं पक्षद्वयं पक्षिणः ।
आत्मादेशपरा ऋगेव सफलाऽथर्वैव पुच्छं परा
माया यस्य जगत्त्रयं विजयते हंसः स नाथो विभुः ॥ ७॥
श्रुत्या जन्यमिन्द प्रियं शितशिरो मोदप्रमोदावहं
पक्षायुत्तरदक्षिणावसुभृद्रा, नन्दोऽयमात्मातुलः ।
पुच्छं ब्रह्म तदादिवाक्यगतया वृत्त्योपलक्ष्यात्मत-
न्माया यस्य जगत्त्रयं विजयते हंसः स नाथो विभुः ॥ ८॥
मानेन मानेन समाश्रितानां मानं समानं मम नाथ ! भूयात् ।
मानेन मानेन समाश्रितानां मानं समानं मम नाथ ! भूयात् ॥ ९॥
स्वस्ति श्री श्रेयः श्रेणयः श्रीमतां समुल्लसन्तुराम् ॥
इति श्रीराजस्थानशेखरी भूतयोधपुराधिराज
सिंहदेवविरचितं तैत्तिरीयोपनिषदनुसारं सम्पूर्णम् ॥
(हंसचित्रम्)