गदाधराष्टकम्
स्वभक्तियोगलासिनं सदा व्रजे विहारिणं
हरिप्रियागणाग्रगं शचीसुतप्रियेश्वरम् ।
सराधाकृष्णसेवनप्रकाशकं महाशयं
भजाम्यहं गदाधरं सुपण्डितं गुरुं प्रभुम् ॥ १॥
नवोज्ज्वलादि भावनाविधानकर्मपारगं
विचित्रगौरभक्तिसिन्धुरङ्गभङ्गलासिनम् ।
सुरागमार्गदर्शकं व्रजादिवासदायकं
भजाम्यहं गदाधरं सुपण्डितं गुरुं प्रभुम् ॥ २॥
सचीसुताङ्घ्रिसारभक्तवृन्दवन्द्यगौरवं
गौरभावचित्तपद्ममध्यकृष्णवल्लभम् ।
मुकुन्दगौररूपिणं स्वभावधर्मदायकं
भजाम्यहं गदाधरं सुपण्डितं गुरुं प्रभुम् ॥ ३॥
निकुञ्जसेवनादिकप्रकाशनैककारणं
सदा सखीरतिप्रदं महारसस्वरूपकम् ।
सदाश्रिताङ्घ्रिपङ्कजं शरीरिसद्गुरुं वरं
भजाम्यहं गदाधरं सुपण्डितं गुरुं प्रभुम् ॥ ४॥
महाप्रभोर्महारसप्रकाशनाङ्कुरं प्रियं
सदा महारसाङ्कुरप्रकाशनादिवासनम् ।
महाप्रभोर्व्रजाङ्गनादिभावमोदकारकं
भजाम्यहं गदाधरं सुपण्डितं गुरुं प्रभुम् ॥ ५॥
द्विजेन्द्रवृन्दवन्द्यपादयुग्मभक्तिवर्धकं
निजेशु राधिकात्मतावपुःप्रकाशनाग्रहम् ।
अशेषभक्तिशास्त्रशिक्षायोज्ज्वलामृतप्रदं
भजाम्यहं गदाधरं सुपण्डितं गुरुं प्रभुम् ॥ ६॥
मुदा निजप्रियादिकस्वपादपद्मसिन्धुभि-
र्महारसार्णवमृतप्रदेष्टगौरभक्तिदम् ।
सदाष्टसात्त्विकान्वितं निजेष्टभक्तिदायकं
भजाम्यहं गदाधरं सुपण्डितं गुरुं प्रभुम् ॥ ७॥
यदीयरीतिरागरङ्गभङ्गदिग्धमानसो
नरोऽपि यति तूर्णमेव नार्यभावभाजनम् ।
तमुज्ज्वलक्तचित्तमेतु चित्तमत्तशत्पदो
भजाम्यहं गदाधरं सुपण्डितं गुरं प्रभुम् ॥ ८॥
महारसामृतप्रदं सदा गदाधराष्टकं
पथेत् तु यः सुभक्तितो व्रजाङ्गणगणोत्सवम् ।
सचीतनुजपादपद्मभक्तिरत्नयोग्यतां
लभेत राधिकागदाधराङ्घ्रिपद्मसेवया ॥ ९॥
इति श्रीस्वरूपदामोदरगोसाव्मीविरचितं गदाधराष्टकं सम्पूर्णम् ।