वसिष्ठगणपतिमुनिविरचिता गीतमाला
१. प्रथमम् । अग्निगीतम् ॥
वाचमधितिष्ठज्ज्योतिरपि भौमम् ।
किञ्चिदपि दैवं गेयमविरामम् ॥ १॥
स क्रतुषु होता विप्रमुखवासी ।
अत्ति च स हव्यं वेदितलभासी ॥ २॥
पावक वसुस्त्वं ज्वालशतमाली ।
कश्चिदसि रुद्रः शास्त्रशतशाली ॥ ३॥
पावक यदास्ये भासि मनुजानाम् ।
ते तदिह राज्यं बिभ्रति पशूनाम् ॥ ४॥
अस्मि तव दास्ये सञ्चर मदास्ये ।
सत्सदसि मोहं यामि न यथाहम् ॥ ५॥
नास्ति शरणं मे कोऽप्यवनिपृष्ठे ।
अग्निमवनार्थी देवमुपतिष्ठे ॥ ६॥
अस्ति करमाली कोऽपि दिवि राजा ।
एष ननु कीली भाति भुवि राजा ॥ ७॥
आह्वयति भानुं प्रातरशनाय ।
त्वामनल यज्वा सायमशनाय ॥ ८॥
एकममृतत्वां प्रातरपि सायम् ।
श्रोतुमयि वाणीराह्वयति सोऽयम् ॥ ९॥
दीप्ततरकील त्वं भजसि हव्यम् ।
नेतरयि वाचां स्तोत्रमपि भव्यम् ॥ १०॥
अस्मि न समर्थो यज्ञमयि कर्तुम् ।
स्तोत्रमवलम्बे शर्म तव भर्तुम् ॥ ११॥
पार्थिवविभूतिस्त्वं पचनकारी ।
वैद्युतविभूतिर्वाक्पटलधारी ॥ १२॥
त्वं पचनकारी भास्युदरभाण्डे ।
वाक्पटलधारी देव कुलकुण्डे । १३॥
भास्युदर भाण्डे भासि कुलकुण्डे ।
किं च हृदि जीवो भास्यनल पिण्डे । १४॥
स्वस्य हृदि रूपं त्वामनल लोके ।
भामि विमलोऽयं धाम्नि गतभीके ॥ १५॥
त्वां तमहमर्थं यः स्मरति नित्यम् ।
पावक विशोकः पश्यति स सत्यम् ॥ १६॥
यत्स्फुरणमन्तः स्वस्य धुतपापम् ।
ध्येयमिदमग्ने देव तव रूपम् ॥ १७॥
देव भवसि त्वं वह्निरिह लोके ।
सर्वद समन्ताद्विद्युदसि नाके । १८॥
अत्र जननी ते भूमिरतिपूता ।
द्यौरनल देवी तत्र तव माता ॥ १९॥
अत्र वसवस्ते वायुसख हस्ते ।
वाचमनुभद्रास्तत्र तव रुद्राः ॥ २०॥
अत्र हृदि राजन्राजसि नराणाम् ।
तत्र वरदान्तः खेलसि सुराणाम् ॥ २१॥
अत्र जगदीश त्वं ज्वलननामा ।
तत्र मघवा त्वं निःसदृशधामा ॥ २२॥
द्वावनलशक्रौ पामरजनानाम् ।
स द्वितनुरेकः पण्डितजनानाम् ॥ २३॥
भानुरपि देवो लोक सुहृदेषः ।
व्यापककृशानो कोऽपि तव वेषः ॥ २४॥
देहि भगवन्मे सम्पदमुदाराम् ।
बुद्धिमपि वह्ने त्रातरतिधीराम् ॥ २५॥
देव वरदाग्ने त्वं भव ममास्त्रम् ।
बोधय च मह्यं सर्वमपि शास्त्रम् ॥ २६॥
सुप्रभ घिया त्वां व्याप्तमखिलानि ।
नौमि सकलानि क्षेमद जयानि ॥ २७॥
गाणपतमग्ने सर्वजनहृद्यम् ।
भातु भयहारि च्छन्द इदमाद्यम् ॥ २८॥
२. द्वितीयम् । गणपतिगीतम् ॥
भद्रतरमूर्तिं भद्रतमकीर्तिम् ।
रुद्रतनयं तं गायत महान्तम् ॥ १॥
ज्योतिरिह सूक्ष्मज्वालमतिदीप्तम् ।
भाति कुलकुण्डे योगिमनुजाप्तम् ॥ २॥
तन्नमत वाचो दैवतमुदारम् ।
सङ्कटशतानां यातुमिह पारम् ॥ ३॥
तं गणपतिं यो विस्मरति लोके ।
सन्ततमभाग्यो मज्जति स शोके ॥ ४॥
दम्पतिविहारः शीतशशिखण्डे ।
नन्दननिवासो दीप्तकुलकुण्डे ॥ ५॥
मित्र कुरु भक्तिं विश्वयुवराजे ।
देहि हृदमुष्मै योगिनुतिभाजे ॥ ६॥
अत्र सशरीरे मूलशिखिरूपी ।
योगविमुखो ना विन्दति न पापी ॥ ७॥
ध्यायति सदान्तर्योऽग्रभुजमेतस् ।
तं भजति देवो सिद्धिरतिपूतम् ॥ ८॥
तस्य वरभासा सन्द्रवति शीर्षम् ।
यस्य परितप्तं विन्दति सहर्षम् ॥ ९॥
योगविद आहुः शीर्षरसधाराम् ।
सिद्धिशतहेतुं ताममृतसाराम् ॥ १०॥
पीठमधिरूढं मूलसरसीजम् ।
सर्वभुवनानां नौमि युवराजम् ॥ ११॥
काचन रुचिस्ते भर्गसुत पूता ।
मङ्गलसुषुम्नामार्गचरमाता ॥ १२॥
भाग्यमखिलानां देव तव हस्ते ।
भूरि महिमानं वर्णयतु कस्ते ॥ १३॥
हस्तिवदनो ना सत्वमधिदैवम् ।
सङ्कटहरार्यैः सङ्गदितमेवम् ॥ १४॥
त्वत्पदसरोजे यस्य हृदि भक्तिः ।
काऽपि शिवसूनो तद्वचसि शक्तिः ॥ १५॥
त्वं खलु मघोनो धूतसुजनार्तिः ।
अत्र भुवि काचित्कार्यकरमूर्तिः ॥ १६॥
त्वां भजति गाढप्रीतिरतिशस्ता ।
सिद्धिरिति लक्ष्मीस्तामरसहस्ता ॥ १७॥
सश्रियमुदारां श्रीहृदयहारी ।
संवितरतान्मे सर्वबलधारी ॥ १८॥
शीतनगजायाः सूनुरतिहृद्याम् ।
भूरिकरुणो मे पूरयतु विद्याम् ॥ १९॥
वारणमुखो मे वारयतु कष्टम् ।
सर्वमपि देयाच्छर्वसुत इष्टम् ॥ २०॥
मां चरणभाजं पापहरनामा ।
पालयतु शम्भोः सूनुरतिधामा ॥ २१॥
निर्जितजराधिं निर्दलितरोगम् ।
दन्तिवदनो मे वर्धयतु योगम् ॥ २२॥
सुक्षमतमं मे कष्टहिमभानो ।
प्राणबलमग्र्यं देहि हरसूनो ॥ २३॥
वाचि मम दिव्यां धेहि निजधाटीम् ।
सिद्धिमजितास्यै देहि वरचेटीम् ॥ २४॥
हस्तिमुख याचे गाढरसभक्त्या ।
आविश विभो मां दिव्यनिजशक्त्या ॥ २५॥
देहि निजतेजः किङ्करजनाय ।
ईश्वर गणानां भारतहिताय ॥ २६॥
सर्वद जनोऽयं वाञ्छति न मुक्तिम् ।
देशकुशलाय प्रार्थयति शक्तिम् ॥ २७॥
गाणपतमेतद्गीतमतिशुद्धम् ।
भातु भयहारि च्छन्दसि निबद्धम् ॥ २८॥
३. तृतीयम् । इन्द्रगीतम् ॥
धर्ता सुकृतानां हर्ता दुरितानाम् ।
भर्ता नभसो मे कर्तास्तु शुभानाम् ॥ १॥
ख्याताऽमितवीर्यो धूताखिलवैरी ।
नेता विबुधानां त्राता भवतान्मे ॥ २॥
विक्रम्य विधुन्वन्वक्रान्त्समरेषु ।
चक्रायुधमित्रः शक्रः शरणं नः ॥ ३॥
शक्रः शुभवित्तां लक्ष्मीमनियत्तास् ।
आनन्दितचित्तां मह्यं भुवि धत्ताम् ॥ ४॥
नाकं त्वमरक्षः पाकं युधि जित्वा ।
वृत्रं च विधूयामित्रं पविपाणे ॥ ५॥
एतानि विकुर्वन्भूतानि स पाकः ।
शुभ्रे विफलोऽभूदभ्रे तव जिष्णो ॥ ६॥
पाकः प्रभुरेव प्राणांश्च विकर्तुम् ।
यद्यम्बरनाथ त्वं न प्रतिकर्तुम् ॥ ७॥
न त्वं यदि रोद्धा वृत्रः परिभूय ।
प्रज्ञा-मयि विश्वं दद्यात्तिमिराय ॥ ८॥
प्रज्ञामुषसं तां ज्ञं चाजित सूर्यम् ।
यद्रक्षासि वृत्रात्तत्ते सुरकायम् ॥ ९॥
सम्मोहनशक्तिर्वृत्रस्य तु निद्रा ।
सम्बोधनशक्तिर्विद्युत्तव भद्रा ॥ १०॥
नादान्तविभास्यं वेदान्तरहस्यम् ।
मोदान्तरयोधं भेदान्तकमीडे ॥ ११॥
खे वायुमनन्तं रुद्रं निनदन्तम् ।
भान्तं मघवन्तं वन्दे भगवन्तम् ॥ १२॥
तारं मदनारिं प्राणं पवमानम् ।
देवं मघवानं ध्यायाम्यतिमानम् ॥ १३॥
वीर्ये सकलं त्वद्देवेश्वर नूनम् ।
देवासुरमर्त्यैर्युक्तं जगदूनम् ॥ १४॥
निर्जित्य समस्तान्भावानपि जिष्णो ।
संराड् भुवनानामासीः प्रभविष्णो ॥ १५॥
नाभेत्स्य इमं चेद्वृत्रं दिवि वीरम ।
नामोक्ष्यदघारे मेघो भुवि नीरम् ॥ १६॥
गोपायासि विश्वं शश्वद्बहुरीतीः ।
स्वर्नाथ विधुन्वन्वृत्रस्य विभूतीः ॥ १७॥
चत्वारि वपूंषि प्राहुर्मुनयस्ते ।
येषां जगदेतद्देवाधिप हस्ते ॥ १८॥
रूपाणि विभो ते भूयांसि ततानि ।
दिङ्भात्रतयाद्यैश्चत्वार्युदितानि ॥ १९॥
सर्वस्य च कर्ता सर्वस्य च धर्ता ।
प्राणः पुरुहूतः को नाम स गीतः ॥ २०॥
सूत्रं विदुरेके सुश्लोकमनन्तम् ।
केचिद्विधिमाहुः कं तं भगवन्तम् ॥ २१॥
विश्वस्य निदानं विश्वातिगमानम् ।
एतं विदुरन्ये वायुं पवमानम् ॥ २२॥
सर्वस्य च नेत्री सर्वैरपि मान्या ।
गीर्वाणपते ते कालस्तनुरन्या ॥ २३॥
रुद्रं विदुरेके नेतर्बहुलीलम् ।
प्राहुर्यममन्ये कायं तव कालम् ॥ २४॥
कालोऽयमनादिः सूर्यादपि पूर्वः ।
भाक्तो जनिवादस्तस्याजर सर्वः ॥ २५॥
सद्व्यापकशक्तिं प्राणं कथयन्ति ।
व्यक्तेतरशब्दं कालं गणयन्ति ॥ २६॥
व्यक्तेतरशब्दान्नैव प्रणवोऽन्यः ।
तस्येन्द्र तवाङ्के विश्राम्यति धन्यः ॥ २७॥
सच्छक्तिरभाणि प्राणः परमस्य ।
चिच्छक्तिरगादि प्राज्ञैः प्रणवोस्य ॥ २८॥
सर्वत्र विसारि ज्योतिस्तटिदाख्यम् ।
देवेन्द्र शरीरं गीतं तव मुख्यम् ॥ २९॥
प्राणं प्रणवं च ज्योतिश्च विसारि ।
दैवं नयदेकं वन्दे भवधारि ॥ ३०॥
एकः स तिसॄणामस्थूलतनूनाम् ।
राजत्यभिमानी राजा भुवनानाम् ॥ ३१॥
दृश्यस्य परस्ताद्ब्रह्मागुणमस्ति ।
इन्द्राभिधया तत् दृश्येत्र चकास्ति ॥ ३२॥
बन्धुर्भुवनानां सूर्यस्ततकीर्तिः ।
राजन्नमराणां तुर्या तव मूर्तिः ॥ ३३॥
देव प्रतिबिम्बीभूय प्रसि सूर्यम् ।
विश्वस्य महेन्द्र त्वं पश्यति कार्यम् ॥ ३४॥
नो केवलमर्के पिण्डेषु च तातः ।
अन्तः प्रतिबिम्बीभूतः पुरुहूतः ॥ ३५॥
पिण्डे प्रतिबिम्बीभूतं पुरुहूतम् ।
वैश्वानरमाहुर्लोकत्रयतातम् ॥ ३६॥
नान्यानि किल त्वद्रूपाण्यखिलानि ।
मायिन्विभवं ते किं वा कथयामि ॥ ३७॥
पाहि त्रिदशानामीशान कृशान्नः ।
भूयात्तव देव स्तोता बहुलान्नः ॥ ३८॥
सर्वं भवताऽहं पक्षेण जयानि ।
ईशो भुवि लोके नाकेश भवानि ॥ ३९॥
आविश्य विभो मां कर्तुं भुवि कार्यम् ।
सम्प्रेषय किञ्चिद्दिव्यं तव वीर्यम् ॥ ४०॥
धाता भुवनानां नेता त्रिदशानाम् ।
आविश्य विभुर्मामाभातु सुकर्मा ॥ ४१॥
इन्द्रं प्रभजन्तामेतास्तनुमध्याः ।
नाथं गुणवत्यो यद्वत्तनुमध्याः ॥ ४२॥
४. चतुर्थम् । वायुगीतम् ॥
दिष्टात्पतितोऽहं मन्दे नरवृन्दे ।
त्राणाय समीरं तं सम्प्रति वन्दे । १॥
तारासुमचित्रं खेलत्खगजालम् ।
उद्यानमिदं ते खं वात विशालम् ॥ २॥
देवोऽसि बलस्य प्राणोऽस्यखिलस्य ।
ब्रूयादतिमानं कस्ते महिमानम् ॥ ३॥
भक्त्या तव पुण्यं तुल्यं क्व नु गण्यम् ।
तद्वक्ति चरित्रं रैक्वस्य पवित्रम् ॥ ४॥
मेयः स च नाकः स्वल्पो नरलोकः ।
नित्यानिल शुभ्रं निःसीम तवाभ्रम् ॥ ५॥
घुष्यन्नसि रुद्रो दीप्यन्नसि शक्रः ।
प्राणन्नसि वातस्त्रेघासि नुतोऽतः ॥ ६॥
सर्वाश्च दिशस्ते व्योमेश्वर हस्ते ।
भाक्ता पुनरेषा कोणेडिति भाषा ॥ ७॥
नित्याध्वग कर्तुं श्रान्ते परिहारम् ।
वासिष्ठवचोऽम्भो हृद्यं पिब धीरम् ॥ ८॥
अन्नानि कृशानौ जुह्वत्वदरिद्राः ।
वायो जुहुमोऽमी वाचस्त्वयि भद्राः ॥ ९॥
यद्यप्ययि दिव्यो गुप्तस्तव वेषः ।
व्योमेश तथाऽपि व्यक्तस्तव घोषः ॥ १०॥
आकाशगृहाणामात्मासि सुराणाम् ।
वीर्यद्रविणानां कोशोऽसि नराणाम् ॥ ११॥
त्वामाह सरैक्वः संवर्गमनन्तम् ।
स्वस्मिन्त्सुदृढानां दुःखानि हरन्तम् ॥ १२॥
मूलं तपसां त्वं देवासि ऋषीणाम् ।
लोके सकलानां हेतुश्च कृषीणाम । १३॥
दानार्थमसूनां प्राप्तक्षितिरङ्गाः ।
एते तव वाताः खेशान तरङ्गाः ॥ १४॥
आत्मा मरुतां त्वं कैरप्यसि गीतः ।
कैरप्यधिराजः कैरप्ययि तातः ॥ १५॥
आत्मा मरुतां त्वं गीतः पृषदश्वः ।
राजा पुरुहूतस्तातो निगमाश्वः ॥ १६॥
वातस्तव वीचिर्विद्युत्तव कायम् ।
तारस्तव शब्दो देवाधिय सोऽयम् ॥ १७॥
वेदादिमनादिं तारं प्रणवाख्यम् ।
ध्यायन्ति विदो ये तैः स्यात्तव सख्यम् ॥ १८॥
वातोऽस्यधिभूतं शक्रोऽस्यधिवेदम् ।
रुद्रोऽस्यधिपिण्डं पक्षान्तरमेवम् ॥ १९॥
गीताः कविराजा सर्वस्तवभाजे ।
एतास्तनुमध्यास्ताताय खराजे ॥ २०॥
५. पञ्चमम् । सूर्यगीतम् ॥
भुवनत्रयपतिमूर्धजमध्ये
दीप्यन्मणिरयमहिममयूखः ।
भुवनत्रयतोऽप्यधिको मूल्ये
भवतां सम्पदमतुलां भणतु ॥ १॥
एतन्मण्डलमतुहिनभानो-
र्भासां स्थानं निगमनिधानम् ।
विप्रैर्वन्द्यं काले काले
विश्वप्राणायतनं जयति ॥ २॥
शम्भोः केशे वपुषा केन
श्रोत्रे मातुर्वपुषा केन ।
राजसि नलिनीप्रिय दम्पत्यो-
र्भूषणमसि वा पर्यायेण ॥ ३॥
कश्चन दक्षिणनयनं भर्तु-
र्मूर्तिं कामपि भणति विदन्यः ।
अपरो भवनं भुवनं त्वितरः
प्राणं दशशतकिरण परस्त्वाम् ॥ ४॥
प्राणिति भवता पश्यति भवता
खादति पाति च भुवनं भवता ।
भाति च भवता भास्कर भवतो
माहाभाग्यं न भणिति मार्गे ॥ ५॥
हृदयं यद्वज्जीवानां नो
मण्डलमेतन्नाथस्यैवम् ।
तस्मादेतत्परिदृष्टान्तै-
र्हृदयसमष्टिः कथिता शिष्टैः ॥ ६॥
मण्डलमध्ये यत्तज्ज्योति-
र्हृदयस्यान्तर्यत्तज्ज्योतिः ।
भवति तदस्मिन्नक्षिणि गम्यं
रम्यं पूर्णं मम खलु काम्यम् ॥ ७॥
क्षेत्रे क्षेत्रे बहुशोऽन्विष्टं
लोचनमण्डलामध्ये दृष्टम् ।
कष्टं गलितं फलितं चेष्टं
पुनरस्माकं किं परिशिष्टम् ॥ ८॥
साक्षिणमक्षिणि निश्चलदृष्ट्या
निर्मलनभसि स्थितया द्वारा ।
लक्ष्यं रात्रावपि दिननाथं
पश्यत नश्यं मुञ्चत निखिलम् ॥ ९॥
नरकामानामयमिह राजा
जागर्त्यक्षिणि सायं पाता ।
सुरकामानामीशानोऽसौ
सूर्ये भाति प्रातः पाता ॥ १०॥
ज्ञानाकारं तेजः पश्य-
त्प्रतिबिम्बं वा पुंसो हैमम् ।
धीरो ध्यायन्नयनस्थाने
पाशैर्मुक्तः कृतकृत्यः स्यात् ॥ ११॥
निःशेषाभिः सहितं श्रीभि-
र्निर्हतपापे दहरसरोजे ।
कृतिनः किरणैरङ्गुष्ठाभं
तं लोकेरन्पुरुषमणिष्ठम् ॥ १२॥
परमविदुस्त्वां पावकमवनौ
दिवि रविमम्बरभुवने शक्रम् ।
आत्मानं वा ज्योतिर्वैकं
जगतां भेदात्कवयस्त्रेधा ॥ १३॥
वैभवशाली दीधितिमाली
प्रशमितपापस्त्रिभुवनदीपः ।
दिवि भाति रविर्यत्राचरत-
श्चरतश्चेशितृपरमं ज्योतिः ॥ १४॥
जयति विवस्वान्दशशतधामा
जयति च तस्मिन्परमं धाम ।
पादाकुलकैर्नुतिरदसीया
गणपतिमुनिना रचिता जयति ॥ १५॥
६. षष्ठम् । दशावतारगीतम् ॥
वेदचोरमाशरं विमथ्य सोमकं पुरा-
युः स्मृतिं ध्रुवां पुनः सुताय भास्वतो ददौ ।
सिन्धुवारि बन्धुरास नौधरस्तपस्विनां
यश्च तं सखे भजस्व झाषवेषमच्युतम् ॥ १॥
मन्दराद्रिधारिणे महेन्द्रकार्यकारिणे
मौनिचित्तचारिणे महोग्रपापहारिणे ।
अञ्जलिं कुरुष्व भोर्हरिल्लतान्तमञ्जुल
स्वच्छकीर्तये विलासकच्छपाय विष्णवे ॥ २॥
काञ्चनाक्षमुष्णरश्मिजालया दृशैकया
च्यावयन्तमोजसः प्रदीप्तघोरतारया ।
सान्त्वयन्तमन्यया दयार्द्रया वसुन्धरां
शीतलत्विषा हरिं किरिच्छलं स्मरान्तरे ॥ ३॥
प्राणमुज्जहार दैत्यवक्षसो विदारिता
द्योनखैरखर्वशक्तिपौरुषोज्वलन्रुषा ।
आसुरात्कुलाच्छ्रियं सुपर्वचेतसो भियं
नारसिंहमूर्तिरार्तिमच्युतः स हन्तु ते ॥ ४॥
त्रीणि यः पदान्यजः समन्ततो विचक्रमे
नाङ्गुलं यथात्यरिच्यतात्र दिव्यमुत्र वा ।
नाकचारिणोऽधिकर्तुमाशु हर्तुमासुरीं
सम्पदं च तं परं पुमांसमाश्रयस्व रे ॥ ५॥
योऽर्जुनं भुजावलेन निर्जिगाय दुर्जयं
चेतसा वशंवदेन पर्यभूदनन्यजम् ।
लोभमासमुद्रभूमिदानकर्मणाजय-
द्रैणुकेयभूमिकः स ते स्यताद्भियं हरिः ॥ ६॥
वाक्यकृत्सुतः पितुः प्रभुश्च रक्षिता विशा-
मग्रजोऽतिवत्सलो नियामकोऽनुजन्मनाम् ।
श्रीकरः सतां सखा द्विषां च भीकरो रिपुः
सीतया कलत्रवान्नरो हरिर्धिनोतु वः ॥ ७॥
भूमिभारवारणाय यो यदुष्वभूद्विभु-
र्विस्मयं शिशोश्च यस्य चेष्टितानि तेनिरे ।
शर्म वः स पूरुषो रथाङ्गमायुधं दध-
त्कर्मयोगदेशिकः करोतु पार्थसारथिः ॥ ८॥
भारतं न केवलं चतुःसमुद्रमुद्रितं
भूमिखण्डमेव योव्यभूषयन्निजैर्गुणैः ।
तस्य पूरुषोत्तमस्य बुद्धनामधारिणः
पावनी कथा मुदे विदां नदीव नाभसी ॥ ९॥
गायत स्तुताद्रियध्वमाश्रयध्वमुत्तमं
पूरुषं पुराणमर्कमण्डलान्तरालयम् ।
कल्कभारवारणाय कल्किभूमिकाघरो
योऽयमस्य भूतलस्य रक्षणाय चेष्टते ॥ १०॥
७. सप्तमम् । अम्बिकागीतम् ॥
सेवकपातकशमनं दैवं
मानसवाञ्च्छितफलदं दैवम् ।
सज्जनरक्षणचतुरं दैवं
दुर्जनमर्दनपरुषं देवम् ॥ १॥
भास्करबिम्बे दीप्तं दैवं
लोचनमध्ये सुप्तं दैवम् ।
सितकरमण्डलगुप्तं दैवं
त्रिगुणितभुवनव्याप्तं दैवम् ॥ २॥
बहुशतचेटीसहितं दैवं
रेणुसमष्ट्या विहितं दैवम् ।
अम्बरसौधे निहितं दैवं
भैरववदनाभिहितं दैवम् ॥ ३॥
असुरुचिपद्याभूतं दैवं
वसुरुद्रार्कैर्गीतं दैवम् ।
क्षितिजलशुचिषु प्रोतं दैवं
शितमतिभिः समधीतं दैवम् ॥ ४॥
मृदुहृदयानां सौम्यं दैवं
प्रियरूपाणां रम्यं दैवम् ।
तत्त्वज्ञानां विश्वं दैवं
गुणविरुचीनां शून्यं दैवम् ॥ ५॥
चालकमवनेः शक्त्या दैवं
शम्पाद्वारा दृश्यं दैवम् ।
दोग्ध्रीमनुवरवाच्यं दैवं
विदधद्विनतमशोच्यं दैवम् ॥ ६॥
शैले शैले विहरद्दैवं
विपिने विपिने विचरद्दैवम् ।
ग्रामे ग्रामे ख्यातं दैवं
नगरे नगरे प्रथितं दैवम् ॥ ७॥
परितो योन्नि निराकृति दैवं
स्वर्गे पौलोम्याकृति दैवम् ।
हिमवति गौरीरूपं दैवं
तनुषु प्राणाकारं दैवम् ॥ ८॥
अर्धं सुरगिरिधनुषो दैवं
भुवनत्रितये पूर्णं दैवम् ।
हृदि भूतानां किञ्चिद्दैवं
तृणवन्मनसि प्रचुरं दैवम् ॥ ९॥
लज्जाभावो ललितं दैवं
रसनाभावो भीमं दैवम् ।
दृष्टौ दृष्टौ सूक्ष्मं दैवं
विषये विषये स्थूलं दैवम् ॥ १०॥
स्तोत्रे स्तोत्रे मधुरं दैवं
ध्याने घ्याने मदकृद्दैवम् ।
नमने नमने वरदं दैवं
चरिते चरिते पूतं दैवम् ॥ ११॥
आकाशामलगात्रं दैवं
तारारविशशिनेत्रं दैवम् ।
व्यापकपवनश्वसितं दैवं
पारावारस्वेदं दैवम् ॥ १२॥
लीलानारीवेषं दैवं
दिव्यहिरण्मयभूषं दैवम् ।
केषाञ्चित्कृतपोषं दैवं
केषाञ्चित्कृतशोषं दैवम् ॥ १३॥
पोषविधाने शीतं दैवं
शोषविधाने तपनं दैवम् ।
सर्गविधाने विकसद्दैवं
प्रलयविधाने मीलद्दैवम् ॥ १४॥
सोमं पीत्वा पुष्टं दैवं
द्विषतो हत्वा हृष्टं दैवम् ।
भुवनप्रलये शिष्टं दैवं
सर्वपदार्थोत्कृष्टं दैवम् ॥ १५॥
कौलाचारिषु माद्यद्दैवं
समयाचारिषु शान्तं दैवम् ।
योगाचारिषु पीनं दैवं
ज्ञानाचारिषु लीनं दैवम् ॥ १६॥
कामविरोधि कलत्रं दैवं
गणपषडाननपुत्रं दैवम् ।
पापविदारि पवित्रं दैवं
जयति मुनिस्तुतिपात्रं दैवम् ॥ १७॥
८. अष्टमम् । रेणुकागीतम् ॥
सुरशिरश्चरच्चरणरेणुका ।
जगदधीश्वरी जयति रेणुका ॥ १॥
देवताशिरोदेशलालितम् ।
रेणुकापदं दिशतु मे मुदम् ॥ २॥
कुण्डलीपुरीमण्डनं महः ।
किमपि भासतां मम सदा हृदि ॥ ३॥
मस्तकैतवं वस्तु शाश्वतम् ।
अस्ति मे सदा शस्तदं हृदि ॥ ४॥
आदिनारि ते पादपङ्कजम् ।
स्फुरतु मे मनः सरसिजे सदा ॥ ५॥
केवलं पदोः सेवकोऽस्मि ते ।
वेद्मि नेतरद्वेदसन्नुते ॥ ६॥
हृदय तेणुनः समुचितोऽणुना ।
परिचयोऽम्बिकापादरेणुना ॥ ७॥
पाहि मुञ्च वा पादपङ्कजम् ।
त्रिदशसन्नुते न त्यजामि ते ॥ ८॥
चरणमम्ब ते यो निषेवते ।
पुनरयं कुचौ धयति किं कृती ॥ ९॥
अहरहोऽम्ब ते रहसि चिन्तया ।
धन्यतां गतो नान्यदर्थये ॥ १०॥
स्मरजितो यथा शिरसि जाह्नवी ।
जननि रेणुके मनसि ते कृपा ॥ ११॥
अम्ब पाहि मां दम्भतापसि ।
पादकञ्जयोरादिकिङ्करम् ॥ १२॥
पुत्रमात्मनः पुण्यकीर्तने ।
बहुकृपे कुतो मामुपेक्षसे ॥ १३॥
अम्ब संस्तुते जम्भवैरिणा ।
पाहि मामिमं मग्नमापदि ॥ १४॥
तत्त्ववादिनः सत्वशालिनि ।
त्वामजे विदुः सत्स्वरूपिणीम् ॥ १५॥
त्वां प्रचक्षते सदयवीक्षिते ।
वेदवेदिनो मोदरूपिणीम् ॥ १६॥
संविदं विदुस्त्वामिदं प्रसु ।
परमयोगिनः परमदेवते ॥ १७॥
जननि कुण्डलीपुरनिवासिनि ।
परशुरामवत्पश्य मामिमम् ॥ १८॥
तनयरोदनं श्रवणशालिनि ।
शृणु सुरार्चिते यदि दया हृदि । १९॥
याचकः सुतो भजनमीप्सितम् ।
तदपि दुर्लभं किमिदमम्बिके ॥ २०॥
मास्तु वेतनं छिन्नमस्तके ।
भजनमेव ते याच्यते मया ॥ २१॥
तरलतारया जलजदीर्घया ।
सानुकम्पया शीतपातया ॥ २२॥
केवलं दृशा पश्य रेणुके ।
तेन मे शुभं न च तवाशुभम् ॥ २३॥
किङ्करीभवत्सुरविलासिनी ।
जयति कुण्डलीनगरवासिनी ॥ २४॥
मधुरमम्ब ते चरणपङ्कजम् ।
तत्र यद्रतै स्त्यज्यतेऽखिलम् ॥ २५॥
चरणमम्ब ते चरतु मे हृदि ।
इयमनामये प्रार्थना मम ॥ २६॥
भुजगकङ्कणप्रभृति संस्तुते ।
भुजभुवामरेर्जननि पाहि माम् ॥ २७॥
कुण्डलीपुरीमण्डनायिता ।
गणपतिस्तुता जयति रेणुका ॥ २८॥
९. नवमम् । गुरुगीतम् ॥
अव्यक्ताद्यत एतद्व्यक्तं जातमशेषम् ।
यद्धत्ते तदजस्रं यत्रान्ते लयमेति ॥ १॥
आधारे खलु यस्मिन्गोलानां सह लक्षैः ।
ब्रह्माण्डं प्रतितिष्ठत्येतन्निस्तुलसत्वे ॥ २॥
सूर्यादिग्रहभासां यन्मूलं घनतेजः ।
यद्ब्रह्मादिसुराणां शक्त्यै शक्तिरुताहो ॥ ३॥
ज्ञात्वा तत्त्वमसङ्गा भासा यस्य रमन्ते ।
यज्जालेन समस्ते द्वैतेक्षाल्पमतीनाम् ॥ ४॥
यद्ध्यानेन भवन्ति स्वात्मानन्दनिमग्नाः ।
यन्निष्ठा खलु मुक्तिर्यच्छन्दोऽपि तदर्थः ॥ ५॥
तद्ब्रह्म प्रणवाख्यं चित्ते ध्यानकृते मे ।
अश्रान्तं रमणाख्यां बिभ्रद्भातुमदिष्टाम् ॥ ६॥
आधारे धृतमूलं हार्दाब्जे कृतवासम् ।
शीर्षाब्जाय वहद्यत्पश्चादिन्द्रियशक्त्यै ॥ ७॥
दृष्टयां तत्र पराच्यां यद्देहभ्रमकारि ।
आवृत्तं तु पुनर्यत्स्वात्मैक्यानुभवाय ॥ ८॥
पश्यद्वा विषयौघं विश्रान्तं यदुताहो ।
मुक्त्यै संस्थितमन्तर्वृत्त्यैक्यानुभवेन ॥ ९॥
आत्मज्योतिरिदं मे बिभ्राणं रमणाख्याम् ।
अश्रान्तं स्फुरतात्तच्छुद्धं हार्दसरोजे ॥ १०॥
यद्दीपाद्रमणाख्याद्व्याप्तं गाणपतीषु ।
वाणीभित्तिषु धत्ते गीताचित्रविलासम् ॥ ११॥
यद्धन्ति च्छविजालैरज्ञानां तिमिराणि ।
तत्तत्त्वं स्फुरताद्वस्तारध्यानसमाधौ ॥ १२॥
यातायातविहारैराधारेषु च शीर्षे ।
सञ्चारं विदधानं किञ्चाशेषविसारि ॥ १३॥
आलम्बेन विहीनं व्योमाभं परिपूर्णम् ।
निःशब्दं गुरुरूपं तद्ब्रह्म स्फुरतान्मे ॥ १४॥
ज्ञानं भाति परोक्षं यत्तत्त्वश्रवणेन ।
यत्साङ्गत्यविशेषो हेतुः स्यादपरोक्षे । १५॥
यच्चिन्ता स्थिरमुक्त्यै ब्रह्मैतद्रमणाख्यम् ।
मामावृत्य समन्तादानन्दे निदधातु ॥ १६॥
तारानन्दनियुक्तः प्रीत्या तस्य मतेन ।
आधाद्दीप्तगभीरं वासिष्ठो गुरुगीतम् ॥ १७॥
१०. दशमम् । योगसारगीतम् ॥
निशितया धिया हृदि निभालनम् ।
भुवनभूपतेर्भवनशोधनम् ॥ १॥
दहरमज्जनं विदधतं जनम् ।
बहुलसम्मदं नयति धीः पदम् ॥ २॥
अहमिति स्मृतेर्व्रज जनिस्थलम् ।
भवकथानकं गलति तेऽखिलम् ॥ ३॥
निजविलोकितं यदि निभाल्यते ।
विषयसङ्गिता क्वनु विभाव्यते ॥ ४॥
नयनदृश्ययोर्गगनमन्तरम् ।
समवलोकयन्भज विभुं परम् ॥ ५॥
विषयवर्जनाद्विषयिणि स्थिरे ।
सकलसिद्धयो यतधियः करे ॥ ६॥
रसननीरगे मनसि सन्ततम् ।
करगतं सुखं भवति निश्चितम् ॥ ७॥
गमय मस्तकात्कुलगृहानलम् ।
अवतरन्निव स्मृतिमिदं त्वलम् ॥ ८॥
स्मरणसर्पिषा कुलगृहे शिखी ।
ज्वलति यस्य स क्षितितले मखी ॥ ९॥
यदि शशी द्रवेत्कुलशिखित्विषा ।
अमृततः शमं व्रजति न स्तृषा । १०॥
चलतमं मनः प्रशममेति नः ।
स्मरणयुक्तया श्वसितयात्रया ॥ ११॥
निजचितिस्मृतिर्यदि न विच्युता ।
भवति योगिता सुलभसाधिता ॥ १२॥
दशशतच्छदस्थितमनाः सदा ।
अनुभवेन्महोमहददो मुदा ॥ १३॥
भवति निष्ठितो यदि चतुष्पथे ।
महसि लीयते धृतजगत्कथे । १४॥
अयि विचिन्तय स्ववपुरुत्तरम् ।
वशमितं भवेत्तव महत्तरम् ॥ १५॥
परमशक्तये स्ववपुरर्प्यताम् ।
अयि किमद्भुतं भवति दृश्यताम् ॥ १६॥
करणशक्तिवित्कृतिषु राजते ।
गमनशक्तिविद्गतिषु शोभते ॥ १७॥
श्रवणशक्तिविच्छ्रुतिषु न स्खलेत् ।
मननशक्तिविन्मतिषु नो पतेत् ॥ १८॥
अतुलसिद्धिदानिह पृथग्विधान् ।
मुनिवरोऽभ्यधादिति तपः पथान् ॥ १९॥
बहुलयोगिवाङ्मथनतोऽमृतम् ।
अनुभवक्षमं तदिदमाहृतम् ॥ २०॥
इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य
नरसिंहसूनोर्गणपतेः कृतिर्गीतमाला समाप्ता ।
Songs on agni, gaNapati, indra, vAyu, sUrya,
dashAvatAra, ambikA, reNukA, guru, yogasAra
composed by Vasishtha Ganapati Muni
Proofread by Paresh Panditrao