सर्वविधदेवानां स्तोत्रसङ्ग्रहः
प्रभाते करदर्शनम् ।
कराग्रे वसते लक्ष्मी करमध्ये सरस्वती ।
करमूले तु गोविन्दः प्रभाते करदर्शनम् ॥
भगवद्भक्तस्मरणम् ।
प्रह्लादनारदपराशरपुण्डरीक-
व्यासाऽम्बरीषशुकशौनकभीष्मदाल्भ्यान् ।
रुक्माङ्गदाऽर्जुनवसिष्ठविभीषणादीन्
पुण्यानिमान् परमभागवतान् स्मरामि ॥
पिप्पलस्तुतिः ।
अश्वत्थ हुतभुग्वास गोविन्दस्य गदाप्रिय ।
अशेषं हर मे पापं वृक्षराज! नमोऽस्तु ते ॥ १॥
मूले ब्रह्मा त्वचि विष्णुः शाखायां शङ्कर एव च ।
पत्रे पत्रे सर्वदेवा वासुदेवाय ते नमः ॥ २॥
गरुडस्तुतिः ।
श्रीविष्णुवाहनं प्रणमामि भवत्या सर्पाशनं दुःखहरं खगेशम् ।
मनोहरे वासुसमानवेगं छन्दोमयं ज्ञानधनं प्रशान्तम् ॥ १॥
विष्णुपुत्राय शान्ताय बलबुद्धियुताय च ।
पक्षीन्द्रायाऽतिवेगाय गरुडाय नमो नमः ॥ २॥
दीपस्तुतिः ।
दीपो ज्योतिः परं ब्रह्म दीपो ज्योतिर्जनार्दनः ।
दीपो हरतु मे पापं सन्ध्यादीप ! नमोऽस्तुते ॥ १॥
शुभं करोतु कल्याणमारोग्यं सुखसम्पदाम् ।
मम बुद्धिप्रकाशं च दीपज्योति ! नमोऽस्तु ते ॥ २॥
शुभं भवतु कल्याणमारोग्यं पुष्टिवर्धनम् ।
आत्मतत्त्वप्रबोधाय दीपज्योतिर्नमोऽस्तु ते ॥ ३॥
तुलसीस्तुतिः ।
देवैस्त्वं निर्मिता पूर्वमर्चिताऽसि मुनीश्वरैः ।
नमो नमस्ते तुलसि! पापं हर हरिप्रिये ॥ १॥
यन्मूले सर्वतीर्थानि यन्मध्ये सर्वदेवताः ।
यदग्रे सर्ववेदाश्च तुलसि! त्वां नमाम्यहम् ॥ २॥
हनुमत्स्तुतिः ।
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥ १॥
उल्लङ्घ्य सिन्धोः सलिलं सलीलं य शोकवह्निं जनकात्मजायाः ।
आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ॥ २॥
कुबेरस्तुतिः ।
धनाध्यक्षाय देवाय नरयानोपवेशिने ।
नमस्ते राजराजाय कुबेराय महात्मने ॥
शङ्खस्तुतिः ।
त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे ।
निर्मितः सर्वदेवैश्च पाञ्चजन्य! नमोऽस्तुते ॥
दत्तात्रेयस्तुतिः ।
पीताम्बरालङ्कृतपृष्ठभागं भस्मावगुण्ठाऽखिलरुक्मदेहम् ।
विद्युत्सदापिङ्गजटाभिरामं श्रीदत्तयागीशमहंनतोऽस्मि ॥ १॥
ब्रह्मानन्दं परमसुखदं केक्त्यं ज्ञानमूर्तिं
द्वन्द्वातीतं गगनसदृशंतत्त्वमस्यादिलक्ष्यम् ।
एक नित्यं विमलमचलं सर्वधीसाक्षिभूतं
भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥ २॥
भगवत्स्तुतिः ।
त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ॥ १॥
पिता माता गुरुर्भ्राता सखा बन्धुस्त्वमेव मे ।
विद्या सत्कर्म वित्तं च पुरस्पृष्ठे च पार्श्वयोः ॥ २॥
नवनागस्तुतिः ।
अनन्तं वासुकिं शेषंपद्मनाभं च कम्बलम् ।
शङ्खपालं धृतराष्ट्रं तक्षकं कालियं तथा ॥ १॥
एतानि नवनामानि नागानां च महात्मनाम् ।
सायङ्काले पठेन्नित्यं प्रातःकाले विशेषतः ।
तस्य विषभयं नास्ति सर्वत्र विजयी भवेत् ॥ २॥
मुकुन्दस्तुतिः ।
करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् ।
वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि ॥
अन्नपूर्णास्तुतिः ।
अन्नपूर्णे सदापूर्णे शङ्करप्राणवल्लभे ।
ज्ञानवैराग्यसिद्ध्यर्थं भिक्षां देहि च पार्वति ॥
शीतलास्तुतिः ।
शीतले त्वं जगन्माता शीतले त्वं जगत्पिता ।
शीतले त्वं जगद्धात्री शीतलायै नमो नमः ॥ १॥
वन्देऽहं शीतलां देवीं रासभस्थां दिगम्बराम् ।
मार्जनींकलशोपेतां शूर्पालङ्कृतमस्तकाम् ॥ २॥
वन्देऽहं शीतलां देवीं सर्वरोगभयापहाम् ।
यामासाद्य निवर्तेत विस्फोटकभयं महत् ॥ ३॥
लेखनीस्तुतिः ।
कृष्णानने द्विजह्वे च चित्रगुप्तकरस्थिते ।
सदक्षराणां पत्रे च लेख्यं कुरु सदा मम ॥
कालीस्तुतिः ।
काली काली महाकाली कालिके परमेश्वरी ।
सर्वानन्दकरे देवि नारायणि! नमोऽस्तु ते ॥
महाकालीस्तुतिः ।
या कालिका रोगाहरा सुवन्द्या वैश्यैः समस्तैर्व्यवहारदक्षैः ।
जनैर्जनानां भयहारिणी च सा देवमाता मयि सौख्यदात्री ॥
महालक्ष्मीस्तुतिः ।
वन्दे लक्ष्मीं परशिवमयीं शुद्धजाम्बूनदाभां
तेजोरूपां कनकवसनां सर्वभूषोज्ज्ववलाङ्गीम् ।
बीजापूरं कनककलशं हेमपद्मं दधाना-
माद्यां शक्तिं सकलजननीं विष्णुवामाङ्कसंस्थाम् ॥ १॥
सुराःऽसुरेन्द्रादिकिरीटमौक्तिकैर्युक्तं सदा यत्तव पादपङ्कजम् ।
परावरं पातु वरं सुमङ्गलं नमामि भक्त्या तव कामसिद्धये ॥ २॥
भवानि त्वं महालक्ष्मीः सर्वकामप्रदायिनि ।
सुपूजिता प्रसन्ना स्यान्महालक्ष्म्यै नमोऽस्तु ते ॥ ३॥
महासरस्वतीस्तुतिः ।
शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीं
वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् ।
हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थितां
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥ १॥
या कुन्देन्दुतुषारहार धवला या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या ब्रह्माऽच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥ २॥
वीणाधरे विपुल मङ्गलदानशीले
कीर्तिप्रदेऽखिलमनोरथदे महार्हे
विद्याप्रदायिनि सरस्वति नौमि नित्यम् ॥ ३॥
शारदा शारदाम्भोजवदना वदनाम्बुजे ।
सर्वया सर्वदाऽस्माकं सन्निधिं सन्निधिं क्रियात् ॥ ४॥
जन्मभूमिदर्शनफलम् ।
कपिलागोसहस्रं च यो ददाति दिनेदिने ।
तत्फलं समवाप्नोति जन्मूभूमेः प्रदर्शनात् ॥ १॥
जन्मान्तरसहस्रेण यत्पापं समुपार्जितम् ।
तत्सर्वं नाशमाप्नोति जन्मभूमेः प्रदर्शनात् ॥ २॥
पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् ।
मोक्षार्थी मोक्षमाप्नोति जन्मभूमेः प्रदर्शनात् ॥ ३॥
भैरवस्तुतिः ।
करकलितकपालः कुण्डली दण्डपाणि-
स्तरुणतिमिरनीलव्यालयज्ञोपवीती ।
क्रतुसमयसपर्या विघ्नविच्छेदहेतु-
र्जयति वटुकनाथः सिद्धिदः साधकानाम् ॥
पाण्डुरङ्गस्तुतिः ।
समचरणसरोजं सान्द्रनीलाम्बुदाभं
जघननिहितपाणिं मण्डनं मण्डनानाम् ।
तरुणतुलसिमालाकन्धरं कञ्जनेत्रं
सदयधवलहासं विट्ठलं चिन्तयामि ॥
रामचन्द्रस्तुतिः ।
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं
पीतं वासो वसानं नवकमलदलस्पर्द्धिनेत्रं प्रसन्नम् ।
वामाङ्कारूढसीतामुखकमलमिलल्लोचनं नीरदाभं
नानालङ्कारदीप्तं दधतमुरुजटामण्डलं रामचन्द्रम् ॥ १॥
कल्याणानां निधानं कलिमलमथनं पावनं पावनानां
पाथेयं यन्मुमुक्षोः सपदि परमपदप्राप्तये प्रस्थितस्य ।
विश्रामस्थामेकं कविवरवचसां जीवनं सज्जनानां
बीजं धर्मद्रुमस्य प्रभवतु भवतां भूतये रामनाम ॥ २॥
राज्यं येन पटान्तलग्नतृणवत्त्यक्तं गुरोराज्ञया
पाथेयं परिगृह्य कार्मुकवरं घोर वनं प्रस्थितः ।
स्वाधीनः शशिमौलिचापविजये प्राप्तो न वै विक्रियां
पायाद् वः स विभीषणाग्रजनिहा रामाभिधानो हरिः ॥ ३॥
कृष्णस्तुतिः ।
श्रियाश्लिष्टो विष्णुः स्थिरचरगुरुर्वेदविषयो
धियां साक्षी शुद्धो हरिरसुरहन्ताब्जनयनः ।
गदी शङ्खी चक्री विमलवनमाली स्थिररुचिः
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षि विषयः ॥
विष्णुस्तुतिः ।
यं शैवाःसमुपासते शिव इति ब्रह्मेति वेदान्तिनो
बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः ।
अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमांसकाः
सोऽयं वो विदधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः ॥ १॥
यं ब्रह्मावरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवै-
र्वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः ।
ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो
यस्याऽन्तं न विदुः सुराऽसुरगणाः देवाय तस्मै नमः ॥ २॥
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ ३॥
नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटीयुगधारिणे नमः ॥ ४॥
आकाशात् पतितं तोयं यथा गच्छति सागरम् ।
सर्वदेवनमस्कारः केशवं प्रति गच्छति ॥ ५॥
इति विष्णुस्तुतिः समाप्ता ।
शिवस्तुतिः ।
कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम् ।
सदा वसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि ॥ १॥
असितगिरिसमं स्यात् कज्जलं सिन्धुपात्रे
सुरतरुवरशाखालेखनीपत्रमूर्वी ।
लिखति यदि गृहीत्वा शारदा सर्वकालं
तदपि तव गुणानामीशपारं नयाति ॥ २॥
वन्दे देवमुमापतिं सुरुगुरुं वन्दे जगत्कारणं
वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम् ।
वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ३॥
स्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचरा-
श्चिताभस्मालेपः स्रगपि नृकरोटीपरिकरः ।
अमङ्गल्यं शीलं तव भवतु नामैवमखिलं
तथाऽपि स्मर्तृणां वरद परमं मङ्गलमसि ॥ ४॥
निरावलम्बस्य ममाऽवलम्बं विपाटिताशेषविपत्कदम्बम् ।
मदीयपापाचलपातशम्बं प्रवर्ततां वाचि सदैव बं बम् ॥ ५॥
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भवः ।
त्राहि मां पार्वतीनाथ! सर्वपापहरो भव ॥ ६॥
इति शिवस्तुतिः समाप्ता ।
बुद्धस्तुतिः ।
ध्यानव्याजमुपेत्य चिन्तयसि कामुन्मील्य चक्षुः क्षणं
पश्याऽनङ्गशरातुरं जनमिमं त्राताऽपि नो रक्षसि ।
मिथ्याकारुणिकोऽसि निर्घृणतरस्त्वत्तः कुतोऽन्यः पुमान् ।
शश्वन्मारवधूभिरित्यभिहितो बुद्धो जिनः पातु वः ॥
जिनस्तुतिः ।
आबाहूद्गतमण्डलाग्ररुचयः सन्नद्धवक्षःस्थलाः
सोष्माणो व्रणिनो विपक्षहृदयप्रोन्माथिनः कर्कशाः ।
उत्सृष्टाम्बरदृष्टिविभ्रमभरा यस्य स्मराग्रेसरा
योधा वारवधूस्तनाश्च न दधुः क्षोभं स वोऽव्याज्जिनः ॥
जिनेन्द्रस्तुतिः ।
सम्पूजकानां प्रतिपालकानां यतीन्द्रसामान्यतपोधनानाम् ।
देशस्य राष्ट्रस्य पुरस्य राज्ञः करोतु शान्तिं भगवान् जिनेन्द्रः ॥
महावीरस्तुतिः ।
यदीये चैतन्ये मुकुर इव भावाश्चिदचितः
समं भ्रान्तिं ध्रौव्यव्ययजनिलसन्तोऽन्तरहिताः ।
जगत्साक्षी मार्गप्रकटनपरो भानुरिव यो
महावीरः स्वामी नयनपथगामी भवतु मे ॥
सत्यरूपस्तुतिः ।
सत्यरूपं सत्यसन्धं सत्यनारायर्ण हरिणे
यत्सत्यत्वेन जगतस्तं सत्यं त्वां नमाम्यहम् ॥ १॥
त्रैलोक्यचैतन्यमयादिदेव! श्रीनाथ! विष्णो! भवदाज्ञया वै
प्रातः समुत्थाय तव प्रियार्थं संसारयात्रामनुवर्तयिष्ये ॥ २॥
दुःस्वप्ननाशनसूर्यस्तुतिः ।
आदित्यः प्रथमं नाम द्वितीयं तु दिवाकरः ।
तृतीयं भास्करः प्रोक्तं चतुर्थं च प्रभाकरः ॥ १॥
पञ्चमं च सहस्रांशुः षष्ठं चैव त्रिलोचनः ।
सप्तमं हरिदश्वश्च अष्टमं च विभावसुः ॥ २॥
नवमं दिनकृत् प्रोक्तं दशमं द्वादशात्मकः ।
एकादशं त्रयीमूर्तिर्द्वादशं सूर्य एव च ॥ ३॥
द्वादशैतानि नामानि प्रातःकाले पठेन्नरः ।
दुःस्वप्ननाशनं सद्यः सर्वसिद्धिः प्रजायते ॥ ४॥
दुःस्वप्ननाशनदेवस्मरणम् ।
अविमुक्तचरणयुगलं दक्षिणमूर्तेश्च कुक्कुटचतुष्कम् ।
स्मरणं वाराणस्यां निहन्ति स्वप्नमशकुनं च ॥
सप्तचिरञ्जीविस्तुतिः ।
अश्वत्थामा बलिर्व्यासो हनूमांश्च विभीषणः ।
कृपः परशुरामश्च सप्तैते चिरजीविनः ॥ १॥
सप्तैतान् संस्मरेन्नित्यं मार्कण्डेयमथाष्टमम् ।
जीवेद् वर्षशतं सोऽपि सर्वव्याधिविवर्जितः ॥ २॥
पुण्यजनस्तुतिः ।
पुण्यश्लोको नलो राजा पुण्यश्लोको युधिष्ठिरः ।
पुण्यश्लोका च वैदेही पुण्यश्लोको जनार्दनः ॥
हकारादिपञ्चदेवस्तुतिः ।
हरं हरिं हरिश्चन्द्रं हनुमन्तं हलायुधम् ।
पञ्चकं हं स्मरेन्नित्यं घोरसङ्कटनाशनम् ॥
पञ्चदेवीस्तुतिः ।
उमा उषा च वैदेही रमा गङ्गेति पञ्चकम् ।
प्रातरेव स्मरेन्नित्यं सौभाग्यं वर्द्धते सदा ॥
पञ्चकन्यास्तुतिः ।
अहल्या द्रौपदी तारा कुन्ती मन्दोदरी तथा ।
पञ्चकन्याः स्मरेन्नित्यं महापातकनाशनम् ॥
सप्तर्षिस्मरणम् ।
कश्यपोऽत्रिर्भरद्वाजो विश्वामित्रोऽथ गोतमः ।
जमदग्निर्वसिष्ठश्च सप्तैते ऋषयः स्मृताः ॥ १॥
तेषां वंशानुवंशानां वेदमन्त्रस्य द्रष्टृणाम् ।
संस्मरामि सदा चैव भक्त्या धर्ममार्गप्रदर्शकान् ।
सप्तपुरीस्तुतिः ।
अयोध्या मथुरा माया काशी काञ्ची ह्यवन्तिका ।
पुरी द्वारावती चैव सप्तैता मोक्षदायिकाः ॥
राजर्षिस्तुतिः ।
कर्कोटकस्य नागस्य दमयन्त्या नलस्य च ।
ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम् ॥
अनिरुद्धादिदेवस्तुतिः ।
अनिरुद्धं राजं ग्राहं वासुदेवं महाद्युतिम् ।
सङ्कर्षणं महात्मानं प्रद्युम्नं च तथैव च ॥ १॥
मत्स्यं कूर्मं च वाराहं वामनं तार्क्ष्यमेव च ।
नारसिंहं च नागेन्द्रं सृष्टिसंहारकारकम् ॥ २॥
विश्वरूपं हृषीकेशं गोविन्दं मधुसूदनम् ।
त्रिदशैर्वन्दितं देवं दृढभक्तिमनूपमम् ॥ ३॥
एतानि प्रातरुत्थाय संस्मरिष्यन्ति ये नराः ।
सर्वपापैः प्रमुच्यन्ते स्वर्गलोकमवाप्नुयुः ॥ ४॥
प्रातर्वन्दनीयस्तुतिः ।
प्रातःकाले पिता माता ज्येष्ठभ्राता तथैव च ।
आचार्याः स्थविराश्चैव वन्दनीया दिने दिने ॥
प्रातर्दर्शनम् ।
कपिलां दर्पणं धेनुं भाग्यवन्तं च भूपतिम् ।
आचार्यं अन्नदातारं प्रातः पश्येद् बुधो जनः ॥ १॥
श्रोत्रियं सुभगां गां च अग्निमग्निचितिं तथा ।
प्रातरुत्थाय यः पश्येदापद्भ्यः स विमुच्यते ॥ २॥
पृथ्वीस्तुतिः ।
स्वर्गैकोभिरदोनिवासिपुरुषारब्धातिशुद्धाध्वर-
स्वाहाकारवषट्क्रियोत्थममृतं स्वादीय आदीयते ।
आम्नायप्रवणैरलङ्कृतजुषेऽमुष्मै मनुष्यैः शुभै-
र्दिव्यक्षेत्रसरित्पवित्रवपुषे देव्यै पृथिव्यै नमः ॥ १॥
समुदवसने देवि! पर्वतस्तनमण्डले ।
विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥ २॥
दन्तधावनस्तुतिः ।
आयुर्बल यशो वर्चः प्रजाः पशुवसूनि च ।
ब्रह्म प्रज्ञां च मेधां च त्वन्नो देहि वनस्पते! ॥
कुम्भस्तुतिः ।
देवदानवसंवादे मथ्यमाने महोदधौ ।
उत्पन्नोऽसि यदा कुम्भ! विधृतो विष्णुना स्वयम् ॥ १॥
त्वत्तोये सर्वतीर्थानि देवाः सर्वे त्वयि स्थिताः ।
त्वयि तिष्ठन्ति भूतानि त्वयि प्राणाः प्रतिष्ठिताः ॥ २॥
शिवः स्वयं त्वमेवाऽसि विष्णुस्त्वं च प्रजापतिः ।
आदित्या वसवो रुद्रा विश्वेदेवाः सपैतृकाः ॥
त्वयि तिष्ठन्ति सर्वेऽपि यतः कामफलप्रदाः ॥ ३॥
षोडशमातृकास्तुतिः ।
गौरी पद्मा शची मेधा सावित्री विजया जया ।
देवसेना स्वधा स्वाहा मातरो लोकमातरः ॥ १॥
जयन्ती मङ्गला काली भद्रकाली कपालिनी ।
दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते ॥ २॥
नवदुर्गानामस्तोत्रम् ।
प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी ।
तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥ १॥
पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च ।
सप्तमं कालरात्रिश्चमहागौरीति चाष्टमम् ॥ २॥
नवमं सिद्धिदात्री च नव दुर्गाः प्रकीर्तिताः ।
The shloka for each Durga form is given below.
Also see navadurgAstotra in Devi section with different verses.
शैलपुत्रीस्तुतिः ।
जगत्पूज्ये जगद्वन्द्ये सर्वशक्तिस्वरूपिणि ।
सर्वात्मिकेशि! कौमारि! जगन्मातर्नमोऽस्तु ते ॥
ब्रह्मचारिणीस्तुतिः ।
त्रिपुरां त्रिगुणाधारां मार्गज्ञानस्वरूपिणीम् ।
त्रैलोक्यवन्दितां देवीं त्रिमूर्तिं प्रणमाम्यहम् ॥
चन्द्रघण्टास्तुतिः ।
कालिकां तु कलातीतां कल्याणहृदयां शिवाम् ।
कल्याणजननीं नित्यं कल्याणीं प्रणमाम्यहम् ॥
कूष्माण्डास्तुतिः ।
अणिमादिगुणौदारां मकराकारचक्षुषम् ।
अनन्तशक्तिभेदां तां कामाक्षीं प्रणमाम्यहम् ॥
स्कन्दमातास्तुतिः ।
चण्डवीरां चण्डमायां चण्डमुण्डप्रभञ्जनीम् ।
तां नमामि च देवेशीं चण्डिकां चण्डविक्रमाम् ॥
कात्यायनीस्तुतिः ।
सुखानन्दकरीं शान्तां सर्वदेवैर्नमस्कृताम् ।
सर्वभूतात्मिकां देवीं शाम्भवीं प्रणमाम्यहम् ॥
कालरात्रिस्तुतिः ।
चण्डवीरां चण्डमायां रक्तबीजप्रभञ्जनीम् ।
तां नमामि च देवेशीं गायत्रीं गुणशालिनीम् ॥
महागौरीस्तुतिः ।
सुन्दरीं स्वर्णसर्वाङ्गीं सुखसौभाग्यदायिनीम् ।
सन्तोषजननीं देवीं सुभद्रां प्रणमाम्यहम् ॥
सिद्धिदास्तुतिः ।
दुर्गमे दुस्तरे कार्ये भयदुर्गविनाशिनि ।
प्रणमामि सदा भक्त्या दुर्गां दुर्गतिनाशिनीम् ॥
सिद्धिलक्ष्मीस्तुतिः ।
आकारब्रह्मरूपेण ओङ्कारं विष्णुमव्ययम् ।
सिद्धिलक्ष्मि! परालक्ष्मि! लक्ष्यलक्ष्मि! नमोऽस्तु ते ॥ १॥
या श्रीःपद्मवने कदम्बशिखरे राजगृहे कुञ्जरे
श्वेते चाऽश्वयुते वृषे च युगले यज्ञे च यूपस्थिते ।
शङ्खे देवकुले नरेन्द्रभवने गङ्गातटे गोकुले
या श्रीस्तिष्ठति सर्वदा मम गृहे भूयात् सदा निश्चला ॥ २॥
या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी
गम्भीरावर्तनाभिः स्तनभरनमिता शुद्धवक्त्रोत्तरीया ।
लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैः स्नापिता हेमकुम्भै-
र्नित्यं सा पद्महस्ता मम वसतु गहे सर्वमाङ्गल्ययुक्ता ॥ ३॥
शनिस्तुतिः ।
कोणस्थः पिङ्गलो बभ्रुः कृष्णो रौन्द्रान्तको यमः ।
सौरिः शनैश्चरो मन्दः पिप्पलाश्रयसंस्थितः ॥ १॥
एतानि शनिनामानि जपेदश्वत्थसन्निधौ ।
शनैश्चरकृता पीडा न कदाऽपि भविष्यति ॥ २॥
शनिपत्नीनामस्तुतिः ।
ध्वजिनी धामनी चैव कङ्काली कलहप्रिया ।
कण्टकी कलही चाऽथ तुरङ्गी महिषी अजा ॥ १॥
शनेर्नामानि पत्नीनामेतानि सञ्जपन् पुमान् ।
दुःखानि नाशयेन्नित्यं सौभाग्यमेधते सुखम् ॥ २॥
ग्रहस्तुतिः ।
ब्रह्मा मुरारिस्त्रिपुरान्तकारी भानुः शशी भूमिसुतो बुधश्च ।
गुरुश्च शुक्रः शनिराहुकेतवः कुर्वन्तु सर्वे मम सुप्रभातम् ॥
The one verse praise for navagrahas is given below under
navagrahAH portion for each.
गङ्गास्तुतिः ।
शैलेन्द्रादवतारिणी निजजले मज्जज्जनात्तारिणी
पारावारविहारिणी भवभयश्रेणीसमुत्सारिणी ।
शेषाहेरनुकारिणी हरशिरोवल्लोदलाकारिणी
काशीप्रान्तविहारिणी विजयते गङ्गामनोहारिणी ॥
यमुनास्तुतिः ।
अयि मधुरे मधुमोदविलासिनि शैलविहारिणि वेगभरे
परिजत्पालिनि दुष्टनिषूदिनि वाञ्छितकामविलासधरे ।
व्रजपुरवासिजनार्दितपातकहारिणि विश्वजनोद्धरिके
जय यमुने जय भीतिनिवारिणिसङ्कटनाशिनि पावय माम् ॥
मालास्तुतिः ।
महामाये महामाले सर्वशक्तिस्वरूपिणि! ।
चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ॥ १॥
अविघ्नं कुरु माले ! त्वं गृह्णामि दक्षिणे करे ।
जपकाले च सिद्ध्यर्थं प्रसीद मम सिद्धये ॥ २॥
इन्द्रस्तुतिः ।
ऐरावतसमारूढो वज्रहस्तो महाबलः ।
शतयज्ञाभिधो देवस्तस्मादिन्द्राय ते नमः ॥
शशाङ्कस्तुतिः ।
ज्योत्स्नानां पतये तुभ्यं ज्योतिषां पतये नमः ।
नमस्ते रोहिणीकान्त! सुधावास! नमोऽस्तु ते ॥ १॥
नमो मण्डलदीपाय शिरोरत्नाय धूर्जटेः ।
कलाभिर्वर्द्धमानाय नभश्चन्द्राय चारवे ॥ २॥
नवग्रहाः
रविस्तुतिः ।
ग्रहाणामादिरादित्यो लोकरक्षणकारकः ।
विषमस्थानसम्भूतां पीडां दहतु मे रविः ॥
चन्द्रस्तुतिः ।
रोहिणीशः सुधामूर्तिः सुधागात्रो सुधाशनः ।
विषमस्थानसम्भूतां पीडां दहतु मे विधुः ॥
कुजस्तुतिः ।
भूमिपुत्रो महातेजा जगतोभयकृत्सदा ।
वृष्टिकृद्वृष्टिहर्ता च पीडां दहतु मे कुजः ॥
बुधस्तुतिः ।
उत्पातरूपी जगतां चन्द्रपुत्रो महाद्युतिः
सूर्यप्रियकरो विद्वान् पीडां दहतु मे बुधः ॥
गुरुस्तुतिः ।
देवमन्त्री विशालाक्षो सदा लोकहिते रतः ।
अनेकशिष्यसम्पूर्णः पीडां दहतु मे गुरुः ॥
भृगुस्तुतिः ।
दैत्यमन्त्री गुरुस्तेषां प्रणवश्च महाद्युतिः ।
प्रभुस्ताराग्रहाणां च पीडां दहतु मे भृगुः ॥
शनिस्तुतिः ।
सूर्यपुत्रो दीर्घदेहो विशालाक्षः शिवप्रियः ।
मन्दचारः प्रसन्नात्मा पीडां दहतु मे शनिः ॥
राहुस्तुतिः ।
महाशीर्षी महावक्त्रो महादंष्ट्रो महायशाः ।
अतनुश्चोर्ध्वकेशश्च पीडां दहतु मे तमः ॥
केतुस्तुतिः ।
अनेकरूपवर्णैश्च शतशोऽथ सहस्रशः ।
उत्पातरूपी घोरश्च पीडां दहतु मे शिखी ॥
सार्धश्लोकी दुर्गा ।
मधुकैटभनाशं च महिषासुरघातनम् ।
शक्रादिस्तुतिकं चैव दूतसंवाद एव च ॥ १॥
शुम्भराजवधश्चैव नारायणकृतस्तुतिः ।
सार्धपाठमिदं प्रोक्तं नवपाठफलप्रदम् ॥ २॥
अर्धश्लोकीभागवतम् ।
श्लोकार्धे तथा प्रोक्तं भगवत्याऽखिलार्थदम् ।
सर्वं खल्विदमेवाऽहं नाऽन्यदस्ति सनातनम् ॥
अनन्तस्तुतिः ।
अनन्तसंसारमहासमुद्रे मग्नं समभ्युद्धर वासुदेव! ।
अनन्तरूपे विनियोजयस्व अनन्तसूत्राय नमो नमस्ते ॥
दशमहाविद्यानामानि ।
काली तारा महाविद्या षोडशी भुवनेश्वरी ।
भैरवी छिन्नमस्तां च विद्या धूमावती तथा ॥ १॥
बगला सिद्धिविद्या च मातङ्गी कमलात्मिका ।
एता दशमहाविद्याः सिद्धिविद्याः प्रकीर्तिताः ॥ २॥
The shlokas for each dashamahAvidyA form are given below.
Also see dashamahavidya section under devii dropdown menu
for different extended hymns.
कालीस्तुतिः ।
रक्ताऽब्धिपोतारुणपद्मसंस्थां पाशाङ्कुशेष्वासशराऽसिबाणान् ।
शूलं करालं दधतीं कराऽब्जै रक्तां त्रिनेत्रां प्रणमामि देवीम् ॥
तारास्तुतिः ।
मातर्नीलसरस्वति प्रणमतां सौभाग्यसम्पत्प्रदे
प्रत्यालीढपदस्थिते शवहृदि स्मेराननाम्भोरुहे ।
फुल्लेन्दीवरलोचने त्रिनयने कर्त्री कपालोत्पले
खड्गञ्चादधती त्वमेव शरणं त्वामीश्वरीमाश्रये ॥ १॥
वाचामीश्वरि भक्तकल्पलतिके सर्वार्थसिद्धीश्वरि !
गद्यप्राकृतपद्यजातरचनासर्वार्थसिद्धिप्रदे! ।
नीलेन्दीवरलोचनत्रययुते कारुण्यवारान्निध!
सौभाग्यामृतवर्द्धनेन कृपया सिञ्चत्वमस्मादृशम् ॥ २॥
षोडशीस्तुतिः ।
बालव्यक्तविभाकरामितनिभां भव्यप्रदां भारतीं
ईषत्फुल्लमुखाम्बुजस्मितकरैराशाभवान्धापहाम् ।
पाशं साभयमङ्कुशं च वरदं संविभ्रतीं भूतिदा
भ्राजन्तीं चतुरम्बुजाकृतिकरैर्भक्त्या भजे षोडशीम् ॥ १॥
बालार्कमण्डलाभासां चतुर्वाहुं त्रिलोचनाम् ।
पाशाऽङ्कुशशरांश्चापं धारयन्तीं शिवां भजे ॥ २॥
भुवनेश्वरीस्तुतिः ।
उद्यद्दिनद्युतिमिन्दुकिरीटां तुङ्गकुचां नयनत्रययुक्ताम् ।
स्मेरमुखीं वरदाङ्कुशपाशाभीतिकरां प्रभजे भुवनेशीम् ॥ १॥
जगज्जनानन्दकरीं जयाख्यां यशस्विनीं यन्त्रसुयज्ञयोनिम् ।
जितामितामित्रकृतप्रपञ्चां भजामहे श्रीभुवनेश्वरी ताम् ॥ २॥
हरौ प्रसुप्ते भुवनत्रयान्ते अवातरन्नाभिजपद्मजन्मा ।
विधिस्ततोऽन्धे विदधारयत्पदं भजामहे श्रीभुवनेश्वरीं ताम् ॥ ३॥
छिन्नमस्तास्तुतिः ।
नाभौ शुद्धसरोजवक्त्रविलसद्बन्धूकपुष्पारुणं
भास्वद्भास्करमण्डलं तदुदरे तद्योनिचक्रं महत् ।
तन्मध्ये विपरीतमैथुनरतप्रद्युम्नसत्कामिनी-
पृष्ठस्थां तरुणार्ककोटिविलसत्तेजःस्वरूपां भजे ॥
त्रिपुरभैरवीस्तुतिः ।
उद्यद्भानुसहस्रकान्तिमरुणक्षौमां शिरोमालिकां
रक्तालिप्तपयोधरां जपवटीं विद्यामभीतिं वरम् ।
हस्ताब्जैर्दधतीं त्रिनेत्रविलसद्वक्त्रारविन्दश्रियं
देवीं बद्धहिमांशुरत्नमुकुटां वन्दे समन्दस्मिताम् ॥ ( var वन्देऽरविन्दस्थिताम्)
धूमावतीस्तुतिः ।
प्रातर्या स्यात् कुमारो कुसुमकलिकया जापमाला जपन्ती
मध्याह्ने प्रौढरूपाविकसितवदना चारुनेत्रा निशायाम् ।
सन्ध्यायां वृद्धरूपा गलितकुचयुगा मुण्डमालां वहन्ती
सा देवी देवदेवी त्रिभुवनजननी कालिका पातु युष्मान् ॥
बगलास्तुतिः ।
मध्ये सुधाब्धिमणिमण्डपरत्नवेद्यां
सिंहासनोपरिगतां परिपीतवर्णाम् ।
पीताम्बराभरणमाल्यविभूषिताङ्गीं
देवीं स्मरामि धृतमुद्गरवैरिजिह्वाम् ॥ १॥
चलत्कनककुण्डलोल्लसितचारुगण्डस्थलां
लसत्कनकचम्पकद्युतिमदिन्दुबिम्बाननाम् ।
गदाहतविपक्षकां कलितलोलजिह्वा चलां
स्मरामि बगलामुखीं विमुखवाङ्मनःस्तम्भिनीम् ॥ २॥
जिह्वाग्रमादाय करेण देवीं वामेन शत्रून् परिपीडयन्तीम् ।
गदाभिघातेन च दक्षिणेन पीताम्वराढ्यां द्विभुजां नमामि ॥ ३॥
प्रभातकाले प्रयतो मनुष्यः पठेत् सुभक्त्या परिचिन्त्य पीताम् ।
द्रुतं भवेत् तस्य समस्तवृद्धिर्विनाशमायाति च तस्य शत्रुः ॥ ४॥
मातङ्गीस्तुतिः ।
श्यामां शुभ्रांशुभालां त्रिकमलनयनां रत्नसिंहासनस्थां
भक्ताभीष्टप्रदात्रीं सुरनिकरकरासेव्यकञ्जाङ्रिघ्रयुग्माम् ।
नीलाम्भोजांशुकान्तिं निशिचरनिकरारण्यदावाग्निरूपां
पाशं खड्गं चतुर्भिर्वरकमलकरैः खेटकं चाङ्कुशं च ॥ १॥
नमस्ते मातङ्ग्यै मृदुमुदिततन्वै तनुमतां
परश्रेयोदायै कमलचरणध्यानमनसाम् ।
सदा संसेव्यायै सदसि विबुधैर्दिव्यधिषणै-
र्द्रयाद्रायै देव्यै दुरितदलनोद्दण्डमनसे ॥ २॥
कमलात्मिकास्तुतिः ।
ध्यानम् -
कान्त्या काञ्चनसन्निभां हिमगिरिप्रख्यश्चतुर्भिर्गजै-
र्हस्तोत्क्षिप्तहिरण्मयाऽमृतघटैरासिच्यमानां श्रियम् ।
बिभ्राणां वरमब्जयुग्ममभयं हस्तैः किरीटोज्ज्वलां
क्षौमाबद्धनितम्बबिम्बललितां वन्देऽरविन्दस्थिताम् ॥
स्तुतिः -
त्रैलोक्यपूजिते देवि! कमले विष्णुवल्लभे! ।
यथा त्वमचला कृष्णे तथा भव मयि स्थिरा ॥ १॥
ईश्वरी कमला लक्ष्मीश्चला भूतिर्हरिप्रिया ।
पद्मा पद्मालया सम्यगुच्चैः श्रीपद्मधारिणी ॥ २॥
द्वादशैतानि नामानि लक्ष्मीं सम्पूज्य यः पठेत् ।
स्थिरा लक्ष्मीर्भवेत् तस्यपुत्रदारादिभिः सह ॥ ३॥
इति श्रीकमलात्मिकास्तुतिः समाप्ता ।
Proofread by Aruna Narayanan narayanan.aruna at gmail.com