देहस्थदेवताचक्रस्तोत्रम्
देहो देवालयः प्रोक्तः स्वात्मा देवः सनातनः ।
त्यजेदज्ञाननिर्माल्यं सोऽहं भावेन पूजयेत् ॥ १॥
असुरसुरवृन्दवन्दितमभिमतवरवितरणे निरतम् ।
दर्शनशताग्र्यपूज्यं प्राणतनुं गणपतिं वन्दे ॥ २॥
वरवीरयोगिनीगणसिद्धावलिपूजिताङ्घ्रियुगलम् ।
अपहृतविनयिजनार्तिं वटुकमपानाभिधं वन्दे ॥ ३॥
यद्धीबलेन विश्वं भक्तानां शिवपथं भाति ।
तमहमवधानरूपं सद्गुरुममलं सदा वन्दे ॥ ४॥
आत्मीयविषयभोगैरिन्द्रियदेव्यः सदा हृदम्भोजे ।
अभिपूजयन्ति यं तं चिन्मयमानन्दभैरवं वन्दे ॥ ५॥
उदयावभासचर्वणलीलां विश्वस्य या करोत्यनिशम् ।
आनन्दभैरवीं तां विमर्शरूपामहं वन्दे ॥ ६॥
अर्चयति भैरवं या निश्चयकुसुमैः सुरेशपत्रस्था ।
प्रणमामि बुद्धिरूपां ब्रह्माणीं तामहं सततम् ॥ ७॥
कुरुते भैरवपूजामनलदलस्थाऽभिमानकुसुमैर्या ।
नित्यमहङ्कृतिरूपां वन्दे तां शाम्भवीमम्बाम् ॥ ८॥
विदधाति भैरवार्चां दक्षिणदलगा विषेशकुसुमैर्या । (विकल्पकुसुमैर्या)
नित्यं मनःस्वरूपां कौमारीं तामहं वन्दे ॥ ९॥
नैरृतदलगा भैरवमर्चयते शब्दकुसुमैर्या ।
प्रणमामि श्रुतिरूपां नित्यं तां वैष्णवीं शक्तिम् ॥ १०॥ (शब्दरूपाम्)
पश्चिमदिग्दलसंस्था हृदयहरैः स्पर्शकुसुमैर्या ।
तोषयति भैरवं तां त्वग्रूपधरां नमामि वाराहीम् ॥ ११॥
वरतररूपविशेषैर्मारुतदिग्दलनिषण्णदेहा या ।
पूजयति भैरवं तामिन्द्राणीं दृक्तनुं वन्दे ॥ १२॥
धनपतिकिसलयनिलया या नित्यं विविधषड्रसाहारैः ।
पूजयति भैरवं तां जिह्वाभिख्यां नमामि चामुण्डाम् ॥ १३॥
ईशदलस्था भैरवमर्चयते परिमलैर्विचित्रैर्या
प्रणमामि सर्वदा तां घ्राणाभिख्यां महालक्ष्मीम् ॥ १४॥
षड्दर्शनेषु पूज्यं षड्त्रिंशत्तत्त्वसंवलितम् ।
आत्माभिख्यं सततं क्षेत्रपतिं सिद्धिदं वन्दे ॥ १५॥
संस्फुरदनुभवसारं सर्वान्तः सततसन्निहितम् ।
नौमि सदोदितमित्थं निजदेहगदेवताचक्रम् ॥ १६॥
इति श्रीअभिनवगुप्तपादाचार्यकृतं देहस्थदेवताचक्रस्तोत्रं सम्पूर्णम् ॥
There is a little variation between prints in relation to
verse 1 and reversed order of shlokas 4-5.
Encoded and proofread by Ruma Dewan