श्रीदयानन्ददशकम्
A floral offering at the ADHISHTANAM of Pujya Swamiji in Rishikesh
ॐ
श्रीरामजयम् ।
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
अथ श्रीदयानन्ददशकम् ।
परमाद्वैततत्त्वज्ञं ज्ञानानन्दप्रकाशनम् ।
गीतोपनिषदासारं दयानन्दं नमाम्यहम् ॥ १॥
लघुप्रवाहतत्त्वार्थं श्रोत्रानन्दश्रुतिस्रवम् ।
घनस्वनप्रसत्तिं च वन्देहं तं दयार्णवम् ॥ २॥
स्पष्टवागर्थसद्बोधं वागर्थयुक्तजीवनम् ।
सत्त्वगुण्यप्रकाशं तं भजेहं भक्तिपूरणम् ॥ ३॥
श्लोकसङ्गीतसामोदं श्लोकितापारसद्गुणम् ।
शोकापोहनसुज्ञानं वन्देहं गीतकारकम् ॥ ४॥
योगसारोपदेशं च ज्ञानयोगोपदेशकम् ।
रागद्वेषविवर्जं तं वन्देहं तत्त्वबोधकम् ॥ ५॥
अद्वैततत्त्ववाक्यार्थं अद्वितीयसुबोधनम् ।
अद्वितीयैकसानन्दं तं वन्दे सत्यदर्शनम् ॥ ६॥
ब्रह्मज्ञानप्रकाशं च ब्रह्मैक्यतत्त्वबोधनम् ।
ब्रह्मानन्दप्रसादं तं वन्देहं सत्त्वभाषिणम् ॥ ७॥
तर्कशास्त्रप्रवीणं च तत्वव्याख्यातृतल्लजम् ।
दयानन्दगुरुं वन्दे दयानन्दसुरूपकम् ॥ ८॥
दशमस्कन्दनाथोपदेशप्रमाणजीवनम् ।
दशश्लोकनुतिप्रीतं तं वन्दे श्लोकसन्निधिम् ॥ ९॥
गङ्गाक्षेत्रसमाधिं तं गङ्गादर्शनविग्रहम् ।
गङ्गालयमहापुण्यं दयानन्दं नमाम्यहम् ॥ १०॥
त्यागब्रह्मगुरुस्वामिशिष्यापुष्पाकृतार्पणम् ।
दयानन्दगुरुस्तोत्रं परमार्थं शुभप्रदम् ॥
इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं
श्रीदयानन्ददशकं गुरौ समर्पितम् ।
ॐ शुभमस्तु ।
Encoded and proofread by N V Vathsan nvvathsan at gmail.com
Copyright Pushpa Srivatsan