दत्तभक्तिपद्यम्
%१२४
(चाल - सुन्दरमुख तुन्दिल०)
अत्रिपुत्र मेऽद्य पुत्र ईश कुत्र भो ।
चित्रमन्त्र चित्रमत्र दर्शितं प्रभो ॥ ध्रु ॥
पूर्वजनुषि कस्य रत्नमपहृतं मया ।
दद्विषक्तिरिह विनष्टिरुह्यते यया ॥
शर्मकराऽधर्महराऽलं परीक्षया ।
(चाल) श्रीमन् धीमन् भूमन् जय ।
भगवन् नुतधामन् त्राहि विभो ॥ १॥
परिहृत्याद्यानपत्यदोषमर्पितः ।
खलु परया ते दयया सद्गुणः सुतः ॥
केन चाद्य सोऽनवद्य कुत्र परिहृतः ।
(चाल) त्वरया परया घृणया दर्शय
तं दत्त सुतं भगवन्तं त्वार्चये विभो ॥ २॥
अत्रिपुत्र मेऽद्य पुत्र ईश कुत्र भो ।
चित्रमन्त्र चित्रमत्र दर्शितं प्रभो ॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं दत्तभक्तिपद्यं सम्पूर्णम् ।