श्रीदत्तात्रेयस्तोत्रम् ९
%११९
नमस्तेऽनसूयासुतायार्तिहन्त्रे नमस्तेऽत्रिपुत्राय सर्वाधिहन्त्रे ।
नमस्तेऽवधूताय लोकैकभर्त्रे नमस्ते समस्तेडितायादिकर्त्रे ॥ १॥
नमस्ते मखादिक्रियाऽपापकर्त्रे नमस्ते जगत्साक्षिणे ते विकर्त्रे ।
नमस्तेऽसुरारातये भक्तपात्रे नमस्तेऽखिलस्यास्य पित्रे च मात्रे ॥ २॥
नमस्ते जगन्मानसप्रेरकाय नमस्ते जगद्यन्त्रसञ्चालकाय ।
नमो योगिवर्य प्रभो मे प्रसीद नमो भिक्षुवन्द्य प्रभो मे प्रसीद ॥ ३॥
भुजङ्गप्रयातेडितास्मासु माला भुजङ्गप्रयातोपमं ते विशाला ।
भवं नाशयित्वा वसत्वीशमूर्तिः शिवङ्कर्यपीड्याधिहन्त्री च कीर्तिः ॥ ४॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीदत्तात्रेयस्तोत्रं सम्पूर्णम् ।