श्रीदत्तार्तिक्यम्
जय भगवन् जय भगवन् योगीश्वर दत्त
त्वत्तः सर्वः कुशलं प्राप्तो, नो मत्तः । ध्रुव०॥
गुरुणापि सता भवता जनसङ्ग्रहमतिना
गुरवो बहवोऽत्र कृता दर्शितसद्गतिना ।
सञ्चित्सुखरूपं त्वां देव तथा सति ना
न भजति विषयी स समः स्पष्टं मलरतिना । जय देव०॥ १॥
अपि च कृतं खलु दशशतभुजमर्जुनभूपं
श्रुत्वालर्कं च सकृन्नमनात्सुखरूपं ।
भजति जनस्त्वां सिन्धुं मुक्त्वान्यं कूपं
शूलं वोग्रं त्यक्त्वा सौवर्णं यूपम् । जय देव०॥ २॥
गृण्हाति यया मूढोऽयं मारं मस्ते
प्रविशति निरवधिसुखदे न तव यशसि शस्ते ।
भक्तमयूरं करुणाघन नर्तयतस्ते
सा मायास्तेमायाधिप वत्सल हस्ते । जय देव०॥ ३॥
इति श्रीरामनन्दनमयूरेश्वरकृतं श्रीदत्तार्तिक्यं सम्पूर्णम् ।
Proofread by Rajesh Thyagarajan