श्रीदण्डपाण्यष्टकम् अथवा श्रीयक्षराजाष्टकम्
रत्नगर्भाङ्गजोद्भूत पूर्णभद्रसुशोत्तम ।
निर्विघ्नं कुरु मे यक्ष काशीवासं शिवाप्तये ॥ १॥
धन्यो यक्षः पूर्णभद्रो धन्या काञ्चनकुण्डला ।
ययोर्जठरपीठेऽभूर्दण्डपाणे महामते ॥ २॥
जय यक्षपते धीर! जय पिङ्गललोचन ।
जय पिङ्गजटाभार जय दण्डमहायुध ॥ ३॥
अविमुक्तमहाक्षेत्रसूत्रधारोग्रतापस ।
दण्डनायक भीमास्य जय विश्वेश्वरप्रिय ॥ ४॥
सौम्यानां सौम्यवदन भीषणानां भयानक ।
क्षेत्रपापधियां काल महाकाल महाप्रिय ॥ ५॥
जय प्राणद यक्षेन्द्र काशीवासान्न मोक्षद ।
महारत्नस्फुरद्रश्मिचयचर्चितविग्रह ॥ ६॥
महासम्भ्रान्तिजनक महोद्भान्तिप्रदायक ।
अभक्तानां च भक्तानां सम्भ्रान्त्युद्भ्रान्तिनाशक ॥ ७॥
प्रान्तनेपथ्यचतुर जयज्ञाननिधिप्रद ।
जयगौरीपदाब्जाले मोक्षेक्षणविचक्षण ॥ ८॥
यक्षराजाष्टकं पुण्यमिदं नित्यं त्रिकालतः ।
जपामि मैत्रावरुणे वाराणस्याप्तिकारणम् ॥ ९॥
दण्डपाण्यष्टकं धीमान् जपन्विघ्नैर्नजातुचित् ।
श्रद्धया परिभूयेत काशीवासफलं लभेत् ॥ १०॥
प्रादुर्भावं दण्डपाणेः शृण्वन् स्तोत्रमिदं गृणन् ।
विपत्तिमन्यतः प्राप्य काशीं जन्मान्तरे लभेत् ॥ ११॥
इति श्रीस्कन्दप्रणीतम् श्रीदण्डपाण्यष्टकं अथवा
श्रीयक्षराजाष्टकं सम्पूर्णम् ।