श्रीमद् दासबोधतत्त्वस्तवः
दासस्त्वं भव रामस्य भवपारं स नेष्यति ।
भवसेतुरिवाभाति दासबोधः प्रबोधयन् ॥ १॥
सर्वं हि पूरयत्येष श्रीरामो दासवाञ्छितम् ।
चिन्तामणिरिवाभाति दासबोधः प्रबोधयन् ॥ २॥
सर्वम्प्रकारं दास्यं रामदास्येन नश्यति ।
स्वातन्त्रभाः प्रभातीत्थं दासबोधः प्रबोधयन् ॥ ३॥
पापं तापं च दैन्यं च रामदास्येन नश्यति ।
इत्येवं बोधयन् भाति दासबोधः प्रबोधयन् ॥ ४॥
प्रपञ्चः परमार्थश्च रामदास्येन सिध्यति ।
देहलीदीपवद्भाति दासबोधः प्रबोधयन् ॥ ५॥
वासनाजालनिर्मोकः रामदास्येन सम्भवेत् ।
भवाब्धिनौरिवाभाति दासबोधः प्रबोधयन् ॥ ६॥
स्वाराज्यं च स्वराज्यं च रामदास्येन लभ्यते ।
भातीत्थं बोधयन् नित्यं दासबोधः सुरद्रुमः ॥ ७॥
श्रीसमर्थसमस्त्वंस्या रामदास्येन पावनः ।
स्पर्शोपल इवाभाति दासबोधः प्रबोधयन् ॥ ८॥
तवात्मा ब्रह्मरामोऽयं सा त्वमेव त्वमेव सः ।
महावाक्यमिवाभाति दासबोधः प्रबोधयन् ॥ ९॥
दासोऽपि रामदास्येन रामस्त्वं त्वमृतो भवेः ।
इति प्रबोधयन् भाति दासबोधः प्रबोधयन् ॥ १०॥
दासबोधश्चिदादित्यो यत्र कुत्रापि वा स्थितः ।
अज्ञानतिमिरं शीघ्रं नाशयन् काशतेऽनिशम् ॥ ११॥
इति श्रीमत्परमहंस परिव्राजकाचार्य सद्गुरु भगवता
श्रीधरस्वामिना विरचितः श्रीमद्दासबोधतत्त्वस्तवः सम्पूर्णः ॥
बुधवार फाल्गुन शुक्ल पौर्णिमा, शके १८७९,
लोणावळें, दि. ५ मार्च १९५८