चिरञ्जीवीप्रार्थना
अश्वत्थामा बलिर्व्यासो हनूमांश्च बिभीषणः ।
कृपः परशुरामश्च सप्तैते चिरजीविनः ॥
सप्तैतान् संस्मरेन्नित्यं मार्कण्डेयमथाष्टमम् ।
जीवेत् वर्षशतं साग्रमपमृत्युविवर्जितः ॥
मार्कण्डेयाद्यावाहितदेवताः प्रार्थयेत् ।
ॐ मार्कण्डेयाय नमः ।
पुत्रपौत्रप्रदं नित्यं प्रार्थयामि महामतिम् ।
रत्नगर्भसुमङ्गल्यचूतपल्लवशोभितम् ।
चन्दनाक्षतपुष्पाढ्यं पूर्णकुम्भं नमोऽस्तु ते ॥ १
आयुष्प्रद महाभाग सोमवंशविवर्धन ।
महाव्रत महाश्रेष्ठ मार्कण्डेय नमोऽस्तु ते ॥ २
मार्कण्डेय महाभाग सप्तकल्पान्तजीवन ।
आयुरारोग्यमैश्वर्यमस्माकं वरदो भव ॥ ३
नववर्षायुषं प्राप्य तपसा महता परम् ।
सप्तकल्पकृतं येन ह्यायुषं मे प्रयच्छतु ॥ ४
क्षित्यव्वायुवियत्तेजोब्रह्मविष्णुमहेश्वराः ।
मामेव हि सदा पान्तु मार्कण्डेयो भवाम्यहम् ॥ ५
मनो बुद्धिरहङ्कारचन्द्रादित्याश्च देवताः ।
मामेव हि सदा पान्तु चिरञ्जीवी भवाम्यहम् ॥ ६
कालात्मरथमध्यस्थ उग्रवीर क्षयान्तक ।
ग्रहर्क्षवत्सराद्यात्मन् नमस्ते मृत्युनायक ॥ ७
ममागतादुग्ररथभयादुद्धर रक्षक ।
पाहि पाहि महादेव त्वमेव शरणं मम ॥ ८
षष्टिसंवत्सरे पूर्णे प्राप्ते ह्युग्ररथाह्वये ।
दीर्घायुषं तु मां कुर्वन् सुप्रीतो भव सर्वदा ॥ ९
मार्कण्डेय महाभाग कल्पायुर्ज्ञानविग्रह ।
आयुर्बलं यशो धैर्यं यच्छ मे ब्रह्मनन्दन ॥ १०
अश्वत्थामा --
द्रौणे मे त्वं महाभाग रुद्रतेजःसमुद्भव ।
आयुर्बलं यशो देहि अश्वत्थामन् नमोऽस्तु ते ॥
बलिः --
दैत्येन्द्रकुलसम्भूत यज्ञदानक्रियारत ।
बले त्वां शरणं यामि दीर्घमायुः प्रयच्छ मे ॥
व्यासः --
वसिष्ठकुलसम्भूत वेदशास्त्रविशारद ।
नारायणांशसम्भूत वेदव्यास नमोऽस्तु ते ॥
हनुमान् --
अञ्जनीगर्भसम्भूत कपीन्द्र सचिवोत्तम ।
रामप्रिय नमस्तुभ्यं हनूमन् रक्ष मां सदा ॥
बिभीषणः --
बिभीषण नमस्तुभ्यं रामपादाब्जपूजक ।
आयुरारोग्यमैश्वर्यं देहि पौलस्त्यनन्दन ॥
कृपः --
द्विजेन्द्र भरताचार्य सर्वविद्याविशारद ।
शरणं त्वां प्रपन्नोऽस्मि कृप मां रक्ष सर्वदा ॥
परशुरामः --
रेणुकेय महावीर्य कार्तवीर्यकृतान्तक ।
आयुः प्रयच्छ मे राम जामदग्न्य नमोऽस्तु ते ॥
षष्ठीदेवी --
षष्ठि देवि नमस्तुभ्यं सूतिकागृहशायिनि ।
पूजिताऽसि परत्तया दीर्घमायुः प्रयच्छ मे ॥
आयुर्देह्यभयं देहि अद्य जन्मदिने मम ।
रक्ष रक्षस्व मां नित्यं देवानामपि रक्षिणि ॥
सर्वदेवप्रियकरि सर्वमङ्गलकं कुरु ! ॥
इति चिरञ्जीवीप्रार्थना समाप्ता ।
NA
This is to be chanted for ugrarathashAnti (celebrating 60+ years)
or called ShaShTyabdapUrti ShaShTi pUrti