चतुर्थाष्टकस्थार्जुनकृतस्तोत्रम्
%१३१
मोहतमो मम नष्टं त्वद्वचनान्नहि कष्टम् ।
शिष्टमिदं मयि हृष्टं हृत्परमात्मनि तुष्टम् ॥ १॥
ज्ञानरविर्हृदि भातः स्वावरणाख्यतमोऽतः ।
क्वापि गतं भवदीक्षासौ खलु काममदीक्षा ॥ २॥
क्लेशरुजां हरणेन त्वच्चरणस्मरणेन ।
अस्मि कृतार्थ इहेश श्रीश परेश महेश ॥ ३॥
प्रेमदुघं तव पादं को न भजेदविवादम् ।
दैववशाद्धृदि पेयं दर्शितवानसि मे यम् ॥ ४॥
चित्रमिदं सदमेयः सोऽप्यभवद्धृदि मेयः ।
देवसुरर्षिसुगेयः सोऽद्य कथं मम हेयः ॥ ५॥
आश्रिततापहरं तं पातकदैन्यहरं तम् ।
नौमि शिवं भगवन्तं पादमहं तव सन्तम् ॥ ६॥
यत्र जगद्भ्रम एषः कल्पित एव सशेषः ।
भ्रान्तिलयेऽद्वय एवावेदि मयाद्य स एव ॥ ७॥
शान्तिपदं तव पादं नौमि सुसेव्यमखेदम् ।
स्वार्थदमाद्यमनन्तं हापितकामधनं तम् ॥ ८॥
देवोऽभावो राद्धः सिद्धः सत्यो नित्यो बुद्धः शुद्धः ।
सर्वोऽपूर्वो हर्ताऽकर्ताऽभिन्नस्त्वं नः पाता माता ॥ ९॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं
चतुर्थाष्टकस्थार्जुनकृतस्तोत्रं सम्पूर्णम् ।