श्रीकाञ्चिमहास्वामिसुप्रभातदशकम्
श्रीमहालक्ष्मीसन्तान स्वामिनाथ दयानिधे ।
श्रीचन्द्रशेखरगुरो भवतु ते सुप्रभातम् ॥ १॥
सुब्रह्मण्यार्यवंशज श्रुतिसारस्वरूपिणे ।
भगवच्छङ्कराचार्य भवतु ते सुप्रभातम् ॥ २॥
उत्तिष्ठ स्वाम्यधिष्ठानात् जगद्गुरुमहाप्रभो ।
कामकोटिमठेशाय भवतु ते सुप्रभातम् ॥ ३॥
निर्गुणाय निर्मलाय मायातीतस्वरूपिणे ।
आत्मविदां वरेण्याय भवतु ते सुप्रभातम् ॥ ४॥
साधुसङ्गसमूहाय सर्वज्ञः सर्वसाक्षिणे ।
सत्यधर्म शरीराय भवतु ते सुप्रभातम् ॥ ५॥
वेदशास्त्रसुरक्षार्थं संन्यासातिलकान्वित ।
शीघ्रमागच्छ भगवन् देहि मे दिव्यदर्शनम् ॥ ६॥
निराहारविनिद्राय निर्मोहायनिरञ्जन ।
अप्राकृतशरीराय त्रैलोक्यं मङ्गलं कुरु ॥ ७॥
सम्पूर्णकल्याणगुण सच्चिदानन्द मद्गुरो ।
अत्यद्भुत चरित्राय त्रैलोक्यं मङ्गलं कुरु ॥ ८॥
आदिमध्यान्तरहित चराचरमयाय ते ।
अद्भुतायाशोकाय त्रैलोक्यं मङ्गलं कुरु ॥ ९॥
यस्य निःश्वसितं वेदाः शरीरं धर्ममेव च ।
तस्य सद्गुरुवर्यस्य कीर्तिः वर्धतु वर्धतु ॥ १०॥
इति श्रीकाञ्चिमहास्वामिसुप्रभातदशकं सम्पूर्णम् ।