श्रीचन्द्रशेखेन्द्रसरस्वतीसुप्रभाताष्टकम्
माया-त्रियामासु निमीलिताक्षं
लोक-त्रियामासु विनिद्रमेनम् ।
लोकस्य रीत्या हि निबोधयामि
साक्षाद्गुरुं श्रीशशि-शेखरेन्द्रम् ॥
प्रातस्सरोज-कुसुमानि विहाय निद्रां
बालारुणातप-सुवर्णमयानि नित्यम् ।
कूजन्मराल-कल-हंसरवैः स्तुवन्ति
श्रीचन्द्रशेखर-गुरो तव सुप्रभातम् ॥ १॥
भृङ्गाश्च पीत-मधु-मत्त-विलासिनीभिः
युक्तास्सरोज-वनजात-सुरेणु-पीताः ।
त्वां संस्तुवन्ति मधुरैः कल-गुञ्जनैः स्वैः
श्रीचन्द्रशेखर-गुरो तव सुप्रभातम् ॥ २॥
एला-लवङ्ग-नवमालति-मल्लिकाद्याः
गन्धीनि नित्यममलानि लतास्सुमानि ।
अर्चन्ति पल्लव-करैर्विनता गृहीत्वा
श्रीचन्द्रशेखर-गुरो तव सुप्रभातम् ॥ ३॥
तुभ्यं रसाल-कदली-पनसादि-वृक्षाः
कूजद्विहङ्ग-निवहैर्मधुरं स्तुवन्तः ।
माध्वीक-सङ्ग-मधुरं फलमुद्वहन्ति
श्रीचन्द्रशेखर-गुरो तव सुप्रभातम् ॥ ४॥
कावेरि-वारि-कृत-मज्जन-पूतदेहाः
वेदादि-मन्त्र-निवहैर्मुखरी-कृताशाः ।
विप्रास्स्तुवन्ति सततं नत-मस्तकास्त्वां
श्रीचन्द्रशेखर-गुरो तव सुप्रभातम् ॥ ५॥
भक्ताश्च ते विहित-कर्म-चया विशुद्धाः
भक्त्यार्जिताखिल-विशिष्ट-फलैक-हस्ताः ।
त्वद्दर्शनामघहरां परिलब्धुकामाः
श्रीचन्द्रशेखरगुरो तव सुप्रभातम् ॥ ६॥
भूत्या सितेन वपुषा भुवि शैव-तत्त्वं
शक्त्यऽर्पितेन मनसा वर-शाक्त-तत्त्वम् ।
नारायणेति वदता वदनेन विष्णोः
तत्त्वं त्वया प्रकटितं तव सुप्रभातम् ॥ ७॥
स्वामिन् पदाब्ज-मधुपा इव भक्त-लोकाः
सेवां विधातुमधुना तव जागरूकाः ।
उत्तिष्ठ पङ्कज-पदानि निधाय भूमौ
पूर्वं वदामि विनतस्तव सुप्रभातम् ॥ ८॥
इत्यष्टकं शुभकरं कलि-कल्मषघ्नं
भक्तेन केनचिदहो परिजल्पितं च ।
उत्थाय जल्पति नरो विनतः प्रभाते
सन्मङ्गलानि लभते बहुधाऽतिशीघ्रम् ॥
इति श्रीचन्द्रशेखरेन्द्र-सरस्वती-सुप्रभाताष्टकं सम्पूर्णम् ।
Proofread by Rajani Arjun Shankar