श्रीचन्द्रशेखरेन्द्रसरस्वती सहस्रनामावलिः
श्रीगुरुभ्यो नमः ।
श्रीकाञ्चीकामकोटिपीठाधीश्वरजगद्गुरु श्रीशङ्कराचार्य
परमपूज्य श्रीचन्द्रशेखरेन्द्रसरस्वतीश्रीचरणसहस्रनामावलिः ।
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं वन्दे सर्वविघ्नोपशान्तये ॥ १॥
पुस्तकजपवटहस्ते वरदाभयचिह्नचारुबाहुलते ।
कर्पूरामलदेहे वागीश्वरि शोधयाशु मम चेतः ॥ २॥
नारायणः पद्मभवो वसिष्ठः शक्तिश्च तत्पुत्रपराशरश्च ।
व्यासः शुको गौडपदो यमीन्द्रो गोविन्दयोगीति गुरुक्रमोऽयम् ॥ ३॥
आद्यः श्रीशङ्कराचार्योभगवत्पादसंज्ञकः ।
अवतीर्णः शम्भुरिति प्रथितः कालटीपदे ॥ ४॥
सुरेश्वरः पद्मपादो हस्तामलकतोटकौ ।
सर्वज्ञश्चेति तच्छिष्याः प्रथिता गुरुसन्निभाः ॥ ५॥
शङ्करः कामकोट्याख्यं पीठं काञ्च्यां व्यराजयत् ।
प्रत्यस्थापयदद्वैतं पीठेसर्वज्ञके स्थितः ॥ ६॥
आत्मानमनु सर्वज्ञं सुरेश्वरमते स्थितम् ।
गोप्तारं कामकोट्याख्यपीठस्य व्यदधाद्गुरुः ॥ ७॥
तदाद्येन्द्रसरस्वत्याख्याऽविच्छिन्ना परम्परा ।
पाति नो गुरुवर्याणां शारदामठसुस्थिता ॥ ८॥
अष्टषष्टितमाचार्यः शङ्करश्चन्द्रशेखरः ।
विराजते ब्रह्मभूतः स्वं वृन्दावनमास्थितः ॥ ९॥
तस्य नामान्यनन्तानि तदनुग्रहभाजनैः ।
गीयन्तेऽनुदिनं भक्त्या तदनुग्रहकाम्यया ॥ १०॥
नाम्नां सहस्रं गौणेभ्यस्तन्नामभ्यः प्रकीर्तये ।
चित्तशुद्धयै तत्प्रसादलब्ध्यै लोकशिवाय च ॥ ११॥
तदार्हन्त्यै प्रपद्ये तान् कामकोटिगुरूत्तमान् ।
प्रपन्नवत्सलान् लोकहिताचरणतत्परान् ॥ १२॥
ध्यानम् -
अपारकरुणासिन्धुं ज्ञानदं शान्तरूपिणम् ।
श्रीचन्द्रशेखरगुरुं ध्यायामि तमहर्निशम् ॥ १३॥
श्रीशङ्करार्यमपरं श्रीशिवाशिवरूपिणम् ।
पूज्यश्रीकामकोट्याख्यपीठगं तं दयानिधिम् ॥ १४॥
अथ सहस्रनामावलिः।
ॐ अपारकरुणासिन्धवे नमः । ज्ञानदाय नमः । शान्तमानसाय नमः ।
श्री चन्द्रशेखरगुरवे नमः । शुचये नमः । दान्ताय नमः ।
तपोरताय नमः । ऋजवे नमः । क्षमापराय नमः ।
अतर्क्याय नमः । स्थिरधिये नमः । अचलाय नमः । अमलाय नमः ।
अष्टषष्टितमाचार्यशङ्कराय नमः । देशिकाग्रण्यै नमः ।
काञ्चीराजत्कामकोटीपीठालङ्कृति विश्रुताय नमः ।
कामकोटीपीठकृत्यनिर्वाहोद्युक्तपूर्वजाय नमः । जयाब्दवैशाखजाताय नमः ।
प्रतिपत्तिथिसम्भवाय नमः । आर्याभिख्यातगोविन्द
यज्वदौहित्रवंशजाय नमः । २०
ॐ कुलदेवतयाऽऽख्यातस्वामिशैलेशनामवते नमः ।
नागेश्वरार्यदौहित्राय नमः । मीनाक्षीतनुजाभवाय नमः ।
सुब्रह्मण्यात्मजाय नमः । सूरये नमः । अनुराधाभवाय नमः ।
सुहृदे नमः । महालक्ष्मीगर्भधृताय नमः । ऋग्वेदिने नमः ।
हरितान्वयाय नमः । होसलस्मार्तकुलजाय नमः । कर्णाटीमातृभाषणाय नमः ।
गणपत्यनुजाय नमः । साम्बललितादिपुरोभवाय नमः ।
पराभवाब्दमाघात्ततुर्याश्रमाय नमः । उदारधिये नमः ।
सर्वज्ञभगवत्पादाचार्यरूपाय नमः । महायशसे नमः ।
महादेवेन्द्रयतिराडनुगाय नमः । बालसंयमिने नमः । ४०
ॐ रक्तशुक्लप्रभामिश्र श्री गुरुध्याननिर्वृताय नमः ।
कलवैग्रामे आरूढपीठाय नमः । गुरुपदस्थिताय नमः ।
प्लवङ्गचैत्रे पट्टाभिषिक्ताय नमः । देशिकसत्तमाय नमः ।
प्रमुखसूरिभ्यो गृहीतविद्याय नमः । तत्त्ववित्तमाय नमः ।
महेन्द्रमङ्गलगुरुकुलवासिने नमः । द्विजावृताय नमः । दक्षाय नमः ।
तीर्थात्तशास्त्रार्थाय नमः । तीर्थीकृतनिजाश्रिताय नमः ।
सर्वतः सारसङ्ग्राहिणे नमः । सम्भाषारसिकाग्रण्यै नमः । सारज्ञात्रे नमः ।
अविसंवादिने नमः । ज्ञातज्ञेयाय नमः । विशालधिये नमः ।
परचित्तविदे नमः । एकान्तचिन्तकाय नमः । ६०
ॐ अमर्षवर्जिताय नमः । संस्कृतद्राविडान्ध्रादिबहुभाषाविशारदाय नमः ।
स्वयं शिष्टाय नमः । शिष्टजनवृताय नमः । धर्म्ये
पथि स्थिताय नमः । शुद्धाय नमः । त्रिषवणस्नायिने नमः ।
काषायाम्बरवेष्टिताय नमः । आद्यशङ्करयोगीन्द्रसमयानुगतौ
रताय नमः । बाहुदण्डलसद्दण्डाय नमः । कराग्रगकमण्डलवे नमः ।
फालभागलसद्भूतिपुण्ड्राय नमः । अतिविमलाननाय नमः ।
स्वदण्डपूजनरताय नमः । दण्डदृष्टेश्वराय नमः । सुधिये नमः ।
भूतिप्रलिप्तावयवाय नमः । पुण्यतीर्थकृताप्लवाय नमः ।
अग्निर्वायुर्जलं सर्वं भस्मेति मनने रताय नमः । सदा त्रियम्बक
मनुजापिने नमः । ८०
ॐ शिवतनवे नमः । शिवाय नमः । धृतरुद्राक्षमकुटाय नमः ।
जनदृष्टशिवाकृतये नमः । रुद्राक्षमालाभरणाय नमः ।
कम्राय नमः । मन्दगतये नमः । व्रतिने नमः । धर्ममार्गाग्रगामिने नमः ।
अनुगमार्गप्रदर्शकाय नमः । वाणीविहारिजिह्वाग्राय नमः ।
लोकसङ्ग्रहणे रताय नमः । सुन्दरी चन्द्रमौलीशपदाब्जमधुपान्तराय नमः ।
श्रीमहादेव यतिराडीप्सिताचारसंयताय नमः ।
श्रीचन्द्रशेखरयतिदृष्टतुर्याश्रमस्थितये नमः ।
श्रीमेरुमध्यबिन्दुस्थ सुन्दरीध्यानतत्पराय नमः ।
कैलासानीतयोगाख्यशिवलिङ्ग कृतार्हणाय नमः ।
पूजामण्डपवाहादिसमलङ्कृति तत्पराय नमः । गणेशादित्यगोविन्द
शिवाशङ्कर पूजकाय नमः । अद्वैतभावनापेतभेदधिये नमः । १००
ॐ सगुणेक्षणाय नमः । सर्वं ब्रह्मेति कृतधिये नमः ।
सर्वत्रब्रह्मभावनाय नमः । पञ्चायतनसुज्ञेयदेवपूजन तत्पराय नमः ।
श्री रुद्रपाठनिरताय नमः । अतिरुद्रादि प्रवर्तकाय नमः ।
शिवार्पितमनः कायाय नमः । सर्वत्र श्री शिवेक्षणाय नमः ।
क्षेत्रयात्रापराय नमः । विश्वाकारब्रह्मविमर्शकाय क्षेत्रेशपूजकाय नमः ।
चिन्ता क्रियान्वयकृतौ क्षमाय नमः । सद्वृत्तजनताभाग्याय नमः ।
साधुतर्पणभाषणाय नमः । चिद्रसार्द्राय नमः ।
सत्तमानामतिरोधापितक्रमाय नमः । ऊहाद्यगम्य व्यापाराय नमः ।
अनलसाय नमः । सफलोद्यमाय नमः । सुव्रताय नमः । १२०
ॐ सुखदाचाराय नमः । सुकृतिने नमः । सुकृतार्हणाय नमः ।
कष्टावहव्रतिने नमः । कष्टाचिन्तकाय नमः । सुकरोद्यमाय नमः ।
स्वार्थे निर्व्यापारलवाय नमः । जनताहिते व्यापृताय नमः ।
दुर्ज्ञेयवस्तु निवहलघूकरण भाषणाय नमः । निर्लक्ष्याय नमः ।
लब्धलक्ष्यार्थाय नमः । वाङ्मनोऽतीतचिन्तकाय नमः ।
विविधाप्तजनप्रार्थ्य दर्शनाय नमः । अगूढचर्यकाय नमः ।
कालदेशावधिकृतनियन्त्रणबहिर्भवाय नमः ।
निगमागमनिर्भाततत्त्वान्वेषिणे नमः । विचारवते नमः ।
दृष्टमात्रेणास्पष्टाय नमः । शान्ताय नमः । सुग्रहविग्रहाय नमः । १४०
ॐ भूतभूतेन्द्रियमनोवशीकरणतत्पराय नमः ।
दुर्लभ्यवस्तुसुलभीकरणे मार्गदर्शकाय नमः । उद्युक्ताय नमः ।
पुरुषार्थार्थिने नमः । सान्द्रानन्दावबोधकाय नमः ।
तन्वा वाचा धियाऽक्षुद्राय नमः । क्षुद्रचेतोविदूरगाय नमः ।
विश्वपीडापहानाय यताय नमः । स्थिरतरात्मधिये नमः ।
रजस्तमोऽनाकुलितसत्त्ववृत्तये नमः । प्रशान्तधिये नमः ।
परानन्दामृतास्वादिने नमः । कुपरिस्थितौ निष्कम्पाय नमः ।
नित्यपूर्णपरब्रह्मलीनधिये नमः । अकृतान्तराय नमः ।
अव्यापृताय नमः । अनेककृत्यव्यापृताय नमः । रागदूरगाय नमः ।
उद्यत्सूर्याभवक्त्रश्रिये नमः । भालराजित्रिरेखकाय नमः । १६०
ॐ प्रव्राजे नमः । प्रवाड्गणोद्दीपाय नमः । काषायाम्बरशायनाय नमः ।
कौपीनराजत्कटिकाय नमः । वस्त्रालङ्कृत्यनिर्भराय नमः ।
वेदवचसा महिताय नमः । वेदवाचनैर्मोहिताय नमः । स्वाचरणैः
कान्ताय नमः । कान्तिनिधानाय नमः । मधुरेहिताय नमः । पूर्वभाषिणे नमः ।
मधुरवाचे नमः । निकटस्थाय नमः । हितैषणाय नमः ।
हृदा विभवे नमः । शक्त्या प्रभवे नमः । लोकसङ्ग्रहे कुतुकिने नमः ।
प्रभविष्णवे नमः । प्रभवित्रे नमः । निश्चेष्टाय नमः । १८०
ॐ चेष्टिताखिलाय नमः । नेत्रद्वयमतिप्रीतिदायकाचरणाय नमः ।
कृतिने नमः । अम्बाध्यानामृतस्यन्द सन्दोहाप्लुतमानसाय नमः ।
धराधरसुतादिव्यकथामृतकृतादराय नमः । सौन्दर्यलहरीपाने
पायनेऽश्रुपरिप्लुताय नमः । पुरःसन्निहितानम्रजनाभीष्ट
दवाक्सुधाय नमः । परमानन्दसान्द्रात्मभाषणाल्लोकनन्दकाय नमः ।
परभक्तिप्लुताय नमः । देवी चन्द्रमौलिप्रपूजकाय नमः । कारुण्यात्मने नमः ।
आश्रितहिताचरणाय नमः । अमेय हृद्गताय नमः । वागीशानाय नमः ।
मधुरवाचे नमः । स्वात्मदाय नमः । अविशेषदृशे नमः ।
दयागुरवे नमः । लोकहितप्रवणीकृतसज्जनाय नमः । अनभ्यर्थिने नमः । २००
ॐ अर्थिनिवहविश्राणितधनादिकाय नमः ।
लोकाहितावहजननेतृसौमत्यदायकाय नमः । निग्रहानुग्रहचणाय नमः ।
असङ्गाय नमः । भगवदाश्रिताय नमः । भक्तेष्टदाय नमः ।
पारिजातसमाय नमः । स्वात्मन ईशित्रे नमः । अर्थिव्रजार्तिहरण
नियोजितधनिव्रजाय नमः । स्फीतभाग्यप्रदानोत्कचरणाय नमः ।
स्वात्मनिष्ठिताय नमः । कीर्त्याय नमः । गुणगणाधाराय नमः ।
सौन्दर्यलहरीरताय नमः । स्वाङ्गभास्वत्तपः श्रीकाय नमः ।
विश्वतेजसे नमः । विभाविताय नमः । महिताचार्यचरणाय नमः ।
अखिलविदे नमः । वेद्यदर्शनाय नमः । २२०
ॐ ईशित्रे नमः । ईशितसन्मर्त्याय नमः । शारदामठसुस्थिताय नमः ।
विद्यावते नमः । विमलोद्योगाय नमः । विज्ञाय नमः ।
निःस्पृहचेष्टिताय नमः । असक्ताय नमः । सुखसंवेत्त्रे नमः ।
अदीनाय नमः । शोकविवर्जिताय नमः । विवासिने नमः । विजने गानरताय नमः ।
वीणाविनोदवते नमः । शक्रवाटीद्रुमततिलघूकारिशिवास्मृतये नमः ।
शिवयोर्ध्यानयोगेन शिवीकृतजगत्त्रयाय नमः ।
आत्मारामाय नमः । आत्मदृष्टिपावितस्वजनाय नमः । महते नमः ।
शङ्कृत्यधिकृतैश्वर्याय नमः । २४०
ॐ शङ्करार्पितचिन्तनाय नमः । निःस्पृहैर्विगीताय नमः ।
सेव्याय नमः । सङ्गवार्ताविनाकृताय । प्रेमार्द्रहासाय नमः ।
मधुरवचसे नमः । क्षिप्रप्रसादनाय नमः । दृश्याय नमः ।
सुनासाय नमः । सुग्रीवाय नमः । विभूत्यङ्कितफालकाय नमः ।
कण्ठोज्ज्वलत्सुरुद्राक्षमालयोन्नतकन्धराय नमः ।
रुद्राक्षभूषितश्रोत्राय नमः । रुद्राक्षावलिशेखराय नमः ।
करलम्बितरुद्राक्षजपमालाय नमः । सुदर्शनाय नमः ।
तुलसीबिल्वमालाधृक्शिरसे नमः । प्रणतवत्सलाय नमः ।
नारायणेतिव्याहारदत्ताशीर्वचनाय नमः । अनघाय नमः । २६०
ॐ नारायणेतिव्याहारस्मृतगोविन्ददत्तधिये नमः ।
भगवद्रूपकलनाव्यापृतक्षणाय नमः । ईडित्रे नमः ।
आत्मसम्पद्रताय नमः । सम्पद्यश्रद्धाय नमः । स्वाश्रिताश्रयाय नमः ।
अच्युतस्मृतिलीनात्मने नमः । अच्युताय नमः ।
अच्युतनिजाश्रिताय नमः । चिरन्तनोक्तिमहितवेदरक्षापरायणाय नमः ।
आश्चर्यदर्शिने नमः । विश्वगाश्चर्यदर्शने
कुतुकिने नमः । महीयसाऽपि महिताय नमः । महनीयाय नमः ।
महामनसे नमः । दर्पणालोकितजगद्बोधितात्मस्वरूपदृशे नमः ।
लघ्वायाससुनिर्वर्त्यसत्कर्मसु नियोजकाय नमः । क्लिष्टतर्कारताय नमः ।
नीतिमार्गज्ञाय नमः । नीतिबोधकाय नमः । २८०
ॐ ऐहिक श्रेयसो वक्त्रे नमः । आमुष्मिक हितावहाय नमः । मृदवे नमः ।
मृदुतरस्वान्ताय नमः । बह्वर्थललितस्मिताय नमः ।
ललितान्यस्तसर्वस्वाय नमः । सदयाय नमः । दयिताश्रिताय नमः ।
महामहिमराष्ट्रेश सचिवाद्यभिवन्दिताय नमः ।
काशीनेपालराष्ट्रेशकृतपादाभिवन्दनाय नमः ।
धर्म्यमार्गगसन्नेतृन्यस्तधर्माभिरक्षणाय नमः ।
सौन्दर्यलहरीमुख्यस्तुतितत्त्वविदग्रण्यै नमः ।
शिवाकाराय नमः । शिवानन्दलहरीमग्नमानसाय नमः ।
भगवत्पादरचितस्तोत्रपारायणोत्सुकाय नमः ।
आद्याचार्याखिलग्रन्थसारवेत्त्रे नमः । प्रगल्भवाचे नमः ।
क्रोधदूराय नमः । क्रोधयन्त्रे नमः । यताय नमः । ३००
ॐ दान्तनिजान्तराय नमः । स्वच्छन्दवृत्तये नमः । अच्छन्दाय नमः ।
धर्मच्छन्दानुवर्तनाय नमः । तच्छब्दवाच्यचिन्ताकाय नमः ।
तदर्थात्मनियोजकाय नमः । तद्वशाय नमः ।
तत्पदज्ञेयसगुणाज्ञावशंवदाय नमः । सगुणब्रह्मदत्तेक्षाय नमः ।
सगुणाभ्यर्हणे रताय नमः । सगुणेऽर्पितसर्वस्वाय नमः ।
सगुणान्निर्गुणेक्षकाय नमः । भक्तप्रियाय नमः । भक्तिवेद्याय नमः ।
भक्तिवश्याय नमः । भवार्चकाय नमः । भक्तसौभाग्यघटकाय नमः ।
भक्तेष्टाचरणप्रियाय नमः । मन्त्रजापिने नमः । मन्त्र
सिद्धाय नमः । ३२०
ॐ मन्त्रार्थमनने रताय नमः । भावनागम्यललितामहिमावेक्षणे
रताय नमः । भवारण्यकुठारात्मानन्दलब्धिसुनिर्वृताय नमः ।
महायोगेश्वराय नमः । तन्त्रमन्त्रयोगविदे नमः । अर्हिताय नमः ।
परात्मभावनालीनाय नमः । मन्त्रतन्त्राद्युपेक्षकाय नमः । निर्ममाय नमः ।
निरहङ्काराय नमः । निष्कामाय नमः । निष्परिग्रहाय नमः ।
अक्लेशतो धीकालुष्यहारिणे नमः । विमलधीप्रदाय नमः ।
प्रमोदभरितस्वान्ताय नमः । निर्वृतात्मने नमः । ईशचिन्तकाय नमः ।
धन्याय नमः । धन्यस्मृतये नमः । धन्यतापादकवचः
स्मृतये नमः । ३४०
ॐ तपसाऽधिगतस्वेष्टाय नमः । अगदाय नमः । गदनिवारणाय नमः ।
देवीपदाब्जस्मरणरसिकाय नमः । नामजापकाय नमः ।
आधिव्याधिहराय नमः । दीनजनविश्रान्तिदायकाय नमः ।
चिद्रूपसद्दर्शनाप्तानन्दाय नमः । सम्मोदसम्भृताय नमः ।
गूढात्मगतये नमः । अव्यग्राय नमः । प्रौढयोगगतौ चणाय नमः ।
देवीनामस्मृतिप्राप्तनैरुजाय नमः । तापवर्जिताय नमः । धर्म्याचारे
दृढमतये नमः । ईशेज्याधूतकल्मषाय नमः । ईशालोकोत्कनयनाय नमः ।
ईशगाथारतश्रवसे नमः । पराङ्मुखस्याभिमुखीकरणे
चाटुवाक्ततये नमः । आर्तप्रलापिजनतोत्साहकृते नमः । ३६०
ॐ दैन्यनाशकाय नमः । यमादिनिरताय नमः । शान्तिदान्तिभूम्ने नमः ।
समाधिमते नमः । शुभदर्भासनासीनाय नमः । मृगाजिनकृतासनाय नमः ।
तारमन्त्रजपे लीनाय नमः । प्राणवायुनियामकाय नमः ।
ईशे विश्वात्मभावाढ्याय नमः । विश्व ईशात्मभावनाय नमः ।
तारत्र्यवयवध्यात्रे नमः । तारनादोन्मुखश्रवसे नमः ।
धारणाच्यवनक्लिन्नाय नमः । पुनः सिद्धात्मधारणाय नमः ।
धारणानिर्वृताय नमः । ध्यानलब्धात्मानन्दाय नमः । आत्मवते नमः ।
अनावृतपदस्थायिने नमः । ब्रह्मभावादविच्युताय नमः ।
अक्लिष्टकारिणे नमः । ३८०
ॐ सुकरध्यानमार्गप्रदर्शकाय नमः । स्निग्धाय नमः ।
समाय नमः । मधुरगिरे नमः । मधुरान्मधुरेक्षणाय नमः ।
अव्याजकरुणापूर्णहृदयाय नमः । करुणेक्षणाय नमः ।
निस्तुलाय नमः । तुलनाहीन ब्रह्मवस्तुनिविष्टधिये नमः ।
दुष्टदूराय नमः । दुष्टजनपावनाय नमः । दुष्टतापहाय नमः ।
आर्यधर्मकामकोटिमुखपत्रप्रवर्तकाय नमः ।
बिम्बग्रहकलाभिज्ञाय नमः । गायकाय नमः । गीतसारविदे नमः ।
ज्ञानसम्बन्धवागीशमुखगीतान्तरार्थदृशे नमः ।
मणिवाचकगोदेशसुप्रभात स्तुतेश्वराय नमः ।
श्रीमद्रामायणकथाश्रवणे कुतुकिने नमः । शमिने नमः । ४००
ॐ रामनामप्रभावज्ञाय नमः । रामचारित्रविस्मिताय नमः ।
श्रीरामनामलेखोत्कजनतोत्साहवर्धनाय नमः । कोटिसङ्ख्याक
श्री रामनामलेखप्रवर्तकाय नमः । शुकवागमृतास्वादिने नमः ।
श्रीकृष्णध्यानलीनधिये नमः । कृतार्थचित्ताय नमः ।
धन्यात्मने नमः । धन्यवाक्कायमण्डलाय नमः । समाकूतये नमः ।
सहृदयाय नमः । समनसे नमः । सङ्गवर्जिताय नमः ।
समाय नमः । स्वपरभेदाज्ञाय नमः । क्षमया पृथिवीसमाय नमः ।
करुणास्यन्दिदृक्पाताय नमः । गीतदेवाररञ्जिताय नमः ।
देवारश्रवणप्रीतिधात्रे नमः । देवारतत्त्वविदे नमः । ४२०
ॐ देवार गायकगणरक्षकाय नमः । मधुगायनाय नमः ।
विद्वन्महितदेवारगीताय नमः । परशिवाकृतये नमः ।
सुधामधुरभाषिणे नमः । अल्पाक्षराय नमः । भूर्यर्थवेदकाय नमः ।
अक्षितेजोधूतपापाय नमः । गोब्राह्मणहिते रताय नमः ।
गोशालापालनव्यग्राय नमः । वृद्धानाथ सुपोषकाय नमः ।
यतिमण्डलसंवीताय नमः । बालचित्तविनोदनाय नमः ।
भक्तमानसराजीवमित्राय नमः । मैत्रीदयाव्रतिने नमः ।
आङ्ग्ल्यादिबहुभाषाविदे नमः । नव्यविज्ञानसूक्ष्मविदे नमः ।
स्वभाषयाऽन्यभाषाविद्गणसम्भाषणोत्सुकाय नमः ।
नव्यविज्ञान-विन्मुख्यैः तत्त्वविद्याविचारकृते नमः ।
सम्भाषाज्ञातविज्ञानतारतम्यगवेषकाय नमः । ४४०
ॐ पादमूलनतानेकविपश्चिद्गणसंवृताय नमः ।
सद्गोष्ठीमहिताय नमः । साधुहिताचाराय नमः । सताङ्गतये नमः ।
भगवच्छङ्करगुरोरपराकृतये नमः । उत्तमाय नमः ।
काषायवाससे नमः । विध्वस्तकषायाय नमः । देशिकोत्तमाय नमः ।
शिरोवेष्टितकाषायवासोऽच्छन्नमुखाम्बुजाय नमः ।
विशालवक्षसे नमः । निष्टप्तहेमाभतनवे नमः । ऊर्जिताय नमः ।
वेदाध्ययनशालाकृते नमः । वेदाधीतिकृतादराय नमः ।
वेदरक्षासमितिकृते नमः । वेदाध्यापकमण्डनाय नमः ।
त्रयीपदविभागज्ञवेदाध्यापकरक्षकाय नमः ।
अनधीतिवशाल्लुप्तवेदशाखागवेषकाय नमः ।
विमानितद्विजगणसम्माननकृतादराय नमः । ४६०
ॐ पदक्रमजटापाठे विद्यार्थ्युत्साहवर्धनाय नमः ।
जयाख्येन्द्रसरस्वत्या कृतपादाभिवन्दनाय नमः ।
श्रीशङ्करविजयेन्द्र सरस्वत्यभिवन्दिताय नमः ।
श्रीजयेन्द्रगुरुप्रेरकेच्छाशक्तये नमः । प्रभावनाय नमः ।
क्रियाशक्ति श्रीजयेन्द्रपूरितेच्छाय नमः । विभावनाय नमः ।
गुरुप्रियाब्रह्मसूत्रवृत्तिकृच्छिष्यतोषिताय नमः ।
राजराजाख्यचोलस्य स्वर्णमौलिकृतार्हणाय नमः ।
गुरोर्हृद्गतसङ्कल्पक्रियान्वयकृदाश्रवाय नमः ।
कामाक्षीवाहकस्वर्णरथकल्पननिर्भराय नमः ।
कामाक्ष्यम्बालयस्वर्णच्छादकाय नमः । हेमदीप्तिमते नमः ।
काश्यां श्री कामकोटीशालयकर्त्रे नमः । विदांवराय नमः ।
कुम्भाभिषेचनादीप्तदेवालयाय नमः । उदारधिये नमः ।
कालट्यां शङ्करगुरोः कीर्तिस्तम्भकृतार्हणाय नमः ।
चिदम्बरेशकरुणाप्लाविताय नमः । शैववाग्रताय नमः । ४८०
ॐ रत्नभूषितनृत्येशहस्तशीर्षपदाम्बुजाय नमः ।
श्रीचक्रात्मकताटङ्कनवीकरणमोदिताय नमः ।
श्रीकामाक्ष्याः सहस्राख्यामालालङ्करणक्षमाय नमः ।
पदयात्रालङ्घिताध्वने नमः । सदा क्षेत्रतीर्थाटनाय नमः ।
क्षेमदाय नमः । जनतायोगक्षेमविदे नमः । भद्रकारकाय नमः ।
वर्णधर्मरहस्यज्ञाय नमः । ब्रह्मचर्यव्रते स्थिताय नमः ।
भस्मीकृतैषणाभत्रिभूतिरेखाललाटकाय नमः । ऊरीकृतजगद्रक्षाय नमः ।
दृक्कोणकरुणेक्षणाय नमः । सुधास्रुतिसमाभाषाय नमः ।
कण्ठगस्फटिकावलये नमः । अम्बिकाक्रीडसौधाभाभयहस्ताय नमः ।
पुरानवाय नमः । षड्भावदूराय नमः । तपसा दीप्ततेजसे नमः ।
बुधार्हिताय नमः । ५००
ॐ अन्तर्मुखाय नमः । सदा मौनिने नमः । जिततृष्णाय नमः ।
जितक्षुधाय नमः । गैर्वाणवाणीसम्पोष लग्नाय नमः । क्षामोदराय नमः ।
कृशाय नमः । लोकहिते बहिर्मुखाय नमः । उपवासरताय नमः ।
अक्लमाय नमः । धर्मपोषणसङ्कल्पाय नमः । धर्मज्ञाय नमः ।
धर्म्यपालनाय नमः । असङ्गविवृतज्ञानयोगाय नमः । वेत्त्रे नमः ।
जितेन्द्रियाय नमः । शिष्योपदेशनिरताय नमः । कार्याकार्यप्रबोधकाय नमः ।
ज्ञानमुद्राञ्चितकराय नमः । कुक्कुटासनसुस्थिताय नमः । ५२०
ॐ कान्ताय नमः । पद्मासनासीनाय नमः । क्वचिदुत्कटकस्थिताय नमः ।
पारिव्राज्याश्रमयशःकारकाय नमः । मन्त्रतन्त्रविदे नमः ।
त्रयीमार्गोपदेष्ट्रे नमः । अर्च्याय नमः । सर्वतन्त्रस्वतन्त्रधिये नमः ।
वेदान्तस्मृतितत्त्वज्ञाय नमः । द्वैताद्वैतविचक्षणाय नमः ।
श्रुतिस्मृतिपुराणादि सारविदे नमः । विज्ञसम्मताय नमः ।
सारस्वतानुग्रहदाय नमः । गुणत्रयविभागविदे नमः ।
कलिघ्नाय नमः । कल्युचितसत्सङ्गधात्रे नमः । विरक्तधिये नमः ।
शैववैष्णवशाक्तादिलक्ष्यभेदप्रदर्शकाय नमः ।
भगवन्नामरतिकृते नमः । नामजापकमध्यगाय नमः । ५४०
ॐ अमानुषचरित्राढ्याय नमः । अतिमानुषवीर्यवते नमः ।
तत्तद्भाषागभजनस्तुतिगीतप्रकाशकाय नमः ।
चित्रकर्मरताय नमः । चित्रदर्शनोत्सुकमानसाय नमः ।
शिल्पचित्रकलाभिज्ञसंरक्षणविधौ रताय नमः ।
शिल्पचित्रकलाबोधिविद्यालयविधायकाय नमः ।
शिल्पिप्रचोदकाय नमः । शिल्पैः कृतालयपरिष्कृतये नमः ।
स्वनामविख्यातविश्वविद्यालयसमीक्षकाय नमः ।
विश्वराष्ट्रीयसद्ग्रन्थालयलब्धात्मतोषणाय नमः ।
विद्यालयव्रातकृतितुष्टाय नमः । विद्याविवर्धनाय नमः ।
भेरीपटहवाद्यादिमहितस्वागतोत्सवाय नमः । सकृत्स्मरण सन्तुष्टाय नमः ।
सर्वज्ञाय नमः । ज्ञानदायकाय नमः । दरस्मितमुखाम्भोजाय नमः ।
कान्त्या विजितभास्कराय नमः । स्वानुष्ठित्याख्यात कर्मयोगाय नमः । ५६०
ॐ नेत्रे नमः । स्वकर्मविदे नमः । स्वभक्तियोगघटित
चन्द्रमौलिपदद्वयाय नमः । सप्तकोटिमहामन्त्रवेत्त्रे नमः ।
जप्तमहामनवे नमः । मैत्र्यादिवासनावाप्तसमधिये नमः ।
लोकशर्मदाय नमः । वैखरीजितवागीशाय नमः । आशावर्गजिदग्रण्यै नमः ।
प्राच्याग्रहाररचनारसिकाय नमः । स्थितरक्षकाय नमः ।
ग्रामीणजनसद्वृत्तिविधात्रे नमः । विहितार्थदृशे नमः ।
शैवाय नमः । शाक्ताय नमः । गाणपताय नमः । वैष्णवाय नमः ।
अभेददर्शकाय नमः । ब्रह्मचर्यात्प्रव्रजिताय नमः ।
एषणात्रयवर्जिताय नमः । ५८०
ॐ भगवत्पादस्मृत्युत्थरोमाञ्चाय नमः । अरतिवर्जिताय नमः ।
भक्त्यावनम्रविजयजयेन्द्रेड्याय नमः । यमीश्वराय नमः ।
प्रपञ्चव्यवहाराणां साक्षिणे नमः । सङ्गविवर्जिताय नमः ।
द्वन्द्वातीताय नमः । सुहृदयाय नमः । राजयोगस्थिरान्तराय नमः ।
अवस्थात्रितयातीतभानवते नमः । सूरितल्लजाय नमः ।
वीक्षाविवशिताशेषजनस्वान्ताय नमः । स्वराजे नमः । गुहाय नमः ।
शिवाय नमः । गुरवे नमः । शिवगुरवे नमः । शिवगुर्वात्मजाश्रिताय नमः ।
श्रीकामकोटिपीठाग्र्यनिकेताय नमः । गुरुतल्लजाय नमः । ६००
ॐ स्ववृत्तप्रीणिताशेषविबुधाय नमः । विबुधोत्तमाय नमः ।
महावाक्यसमाम्नाततत्त्वज्ञाय नमः । तत्त्वबोधकाय नमः ।
भक्तोपहृतसद्ग्रन्थकृतेक्षाय नमः । तत्स्थसारविदे नमः ।
ज्ञानदानोत्कमधुरवाग्विलासाय नमः । महामहसे नमः ।
मर्यादोल्लङ्घनरतजनदूराय नमः । अविदूरगाय नमः । बालकोत्साहदाय नमः ।
बालसुलभाय नमः । बालदेशिकाय नमः । व्यक्ताय नमः ।
अव्यक्ताय नमः । अतिविशदाय नमः । चिन्मयाय नमः । चित्कलाधराय नमः ।
आकाङ्क्ष्यदर्शनाय नमः । नव्यनव्यरूपधृशे नमः । ६२०
ॐ ईश्वराय नमः । मूकवाचालकृते नमः ।
पङ्गुसुकराद्रीशलङ्घनाय नमः । सच्छिष्यरक्षिताय नमः ।
शिष्यरक्षाकृते नमः । शिष्यवत्सलाय नमः । पदवाक्यप्रमाणज्ञाय नमः ।
प्रस्थानत्रयपण्डिताय नमः । भक्तानां परमस्पष्टाय नमः ।
परमाख्यगुरुप्रियाय नमः । परर्द्ध्यस्पृहाय नमः ।
आर्तेष्टदात्रे नमः । धर्मपरायणाय नमः । पर्जन्यवद्धितकराय नमः ।
परिग्रहविवर्जिताय नमः । पवनाय नमः । पावनाय नमः ।
पूतस्वाचारे पर्यवस्थिताय नमः । स्मरणादाधिशतहृते नमः ।
भवरुग्भेषजाय नमः । ६४०
ॐ भिषजे नमः । पुण्यकीर्तये नमः । पुण्यलभ्यदर्शनाय नमः ।
स्मृतिपावनाय नमः । पुष्कराक्षाय नमः । पुष्पहासाय नमः ।
पुरुजिते नमः । पुरुसत्तमाय नमः । भूतभव्यभवद्द्रष्ट्रे नमः ।
भव्याय नमः । रुद्राक्षभूषणाय नमः । प्रग्रहाय नमः । पेशलाय नमः ।
प्रांशवे नमः । शिष्यदोषप्रतर्दनाय नमः । ब्रह्मणे नमः ।
ब्रह्मविदामग्र्याय नमः । प्रसन्नाय नमः । ब्रह्मभावदाय नमः ।
भ्राजिष्णवे नमः । ६६०
ॐ प्राणदाय नमः । प्राणनिलयाय नमः । परस्मै मङ्गलाय नमः ।
मनोजवाय नमः । मारुतजित्श्वासायामाय नमः । महाक्रमाय नमः ।
महोनिधये नमः । महाभागाय नमः । महाबुद्धये नमः ।
महार्हणाय नमः । मृदुस्वनाय नमः । महावाग्मिने नमः ।
मुक्त्यर्थिनां परायै गत्यै नमः । सुमेधया दृष्टलोकवार्ताकाय नमः ।
अदृश्यदर्शनाय नमः । भगवत्पदविश्रान्ताय नमः । सतां
योगविदां नेत्रे नमः । रविमण्डलमध्यस्थ श्रीमात्रालोकतत्पराय नमः ।
चन्द्रमण्डलदृष्टात्मदैवताय नमः । भावनाबलिने नमः । ६८०
ॐ वनमालिस्तुतिपराय नमः । वरारोहाय नमः । उदारवाचे नमः ।
कर्त्रे नमः । विकर्त्रे नमः । गहनचेष्टाय नमः । गुह्यस्वविक्रमाय नमः ।
विश्वदृष्टिविशेषज्ञाय नमः । विधेयविनयावहाय नमः ।
विरजोमार्गसञ्चारिणे नमः । विरामाय नमः । विरजोऽयनाय नमः ।
आत्मारामाय नमः । जितमनसे नमः । विहायसगतिप्रियाय नमः ।
वीराय नमः । वीतभयाय नमः । विष्णवे नमः । वेगवते नमः ।
वीतदुर्भगाय नमः । ७००
ॐ व्यग्राय नमः । व्यवस्थिताय नमः ।
अक्लिष्टव्यवसायाय नमः । अव्यथक्रमाय नमः ।
व्याससूक्तिरताय नमः । व्यासदृष्टभारतभावविदे नमः ।
रामसेतुधनुष्कोटिरामेश्वरचिरस्थितये नमः ।
अग्नितीर्थे द्वादशेशलिङ्गदर्शननिर्वृताय नमः ।
अब्धिवेलातिक्रमणरोधिमारुतिपूजकाय नमः ।
वृषारूढ महेशानदर्शनासक्ताय नमः । उत्तराय नमः ।
वात्यादिनष्टमार्गस्थदीनानाथान्नदानकृते नमः ।
विविक्तसेविने नमः । विजितकरणाय नमः । पूतहृच्छयाय नमः ।
जन्ममृत्युजराभीतिपदादायिने नमः । जितान्तराय नमः । जितमन्यवे नमः ।
जितक्रोधाय नमः । जितामर्षाय नमः । ७२०
ॐ अव्यथेन्द्रियाय नमः । ज्योतिरादित्यदत्तेक्षाय नमः ।
आत्मज्योतिषि निष्ठिताय नमः । प्रबलेन्द्रियसङ्घर्षजयिने नमः ।
इन्द्रियविनोदनाय नमः । स्वकृत्यभरसंक्षेप्त्रे नमः । सदायोगिने नमः ।
सताङ्गतये नमः । सत्कृताय नमः । द्विजसत्कर्त्रे नमः ।
सत्पथाचारदेशिकाय नमः । सत्वस्थाय नमः । सत्ववते नमः ।
साधुसन्धात्रे नमः । सुसमीहिताय नमः । समितिञ्जयवाग्भूतये नमः ।
सर्वशास्त्रविदां वराय नमः । सर्वदर्शिने नमः । सर्वसहाय नमः ।
सर्वयोगविनिःसृताय नमः । ७४०
सर्वासुनिलयश्रीमत्कामाक्षीपदनिष्ठिताय नमः । सहाय नमः ।
सहिष्णवे नमः । सर्वज्ञसाक्ष्यात्मने नमः । सिद्धसाधनाय नमः ।
पराहन्ताभरन्यस्त स्वाहम्भावाय नमः । उपेक्षकाय नमः ।
धन्यनाम्ने नमः । धन्यकृतये नमः । धन्यतापादनक्षमाय नमः ।
धराधरक्षमाशीलाय नमः । दर्पघ्ने नमः । सौम्यभावनाय नमः ।
धर्मगुपे नमः । धर्मकृते नमः । धर्मिणे नमः । धर्माध्यक्षाय नमः ।
दुरारिघ्ने नमः । दाक्षिण्यनिधये नमः । आशान्तख्यात कीर्तये नमः । ७६०
ॐ अदारुणाय नमः । धृतिमते नमः । जितषड्वर्गाय नमः । दीप्तिमते नमः ।
दुर्गमान्तराय नमः । दुर्मर्षणाय नमः । अप्रतिरथाय नमः ।
तुरीयात्मनि निष्ठिताय नमः । दुःस्वप्नघ्ने नमः । दुष्कृतिघ्ने नमः ।
वरदेशप्रसादनाय नमः । तेजोनिधये नमः । द्युतिधराय नमः ।
निर्धनाय नमः । द्रविणप्रदाय नमः । धृतात्मने नमः । आनन्दनाय नमः ।
नन्दिने नमः । नयनीतस्वजीवनाय नमः । निग्रहाय नमः । ७८०
ॐ निगृहीतात्मने नमः । निग्रहाध्वप्रदर्शकाय नमः । नियताय नमः ।
अनियमाय नमः । जेत्रे नमः । ध्याननीतक्षणान्तराय नमः ।
नैककर्मकृते नमः । अव्यग्राय नमः । नैकरूपाय नमः । अनिरूपिताय नमः ।
भगवते नमः । भगवत्पादस्मृतिधन्याय नमः । भवापहाय नमः ।
अनुत्तमपदद्रष्ट्रे नमः । भयकृते नमः । भयनाशनाय नमः ।
अक्रूराय नमः । अतीन्द्रियद्रष्ट्रे नमः । अग्राह्याय नमः ।
अशोकाय नमः । ८००
ॐ अतमसे नमः । दृढाय नमः । अचिन्त्यवेगाय नमः ।
अधिष्ठानस्थिताय नमः । अधोक्षजाय नमः । आश्रमाय नमः ।
कृते लोकहितेऽतृप्ताय नमः । अनन्तरूपाय नमः । उदीरणाय नमः ।
अनिरोध्याय नमः । अप्रमेयात्मने नमः । वादेऽतिरथाय नमः । उग्रधिये नमः ।
अनुकूलाय नमः । अरविन्दाक्षाय नमः । अमेयश्रिये नमः ।
धरणीशयाय नमः । अमानिने नमः । मानदाय नमः । मान्याय नमः । ८२०
ॐ मिताशिने नमः । मितभाषणाय नमः । करणीयादनावृत्ताय नमः ।
अक्षोभ्याय नमः । आनन्दभावनाय नमः । उदारचिन्ताय नमः ।
निःस्वार्थाय नमः । ऊर्जावते नमः । स्वत ऊर्जिताय नमः ।
कपीन्द्रभक्ताय नमः । गरुडवाहनारायणार्चकाय नमः ।
कविहृद्यकथावक्त्रे नमः । अकामाय नमः । स्वयं गुरुतमाय नमः ।
गोविन्दाष्टकगायिने नमः । सुकृताशिषे नमः । गातृमध्यगाय नमः ।
भजगोविन्दगानेन तुच्छरागव्यपोहनाय नमः । गुरुपादेषु कृतज्ञाय नमः ।
स्वतः स्वकृतौ कृतधिये नमः । ८४०
ॐ बालादपि श्रुतनयाय नमः । चतुरश्राय नमः । शुचिश्रवसे नमः ।
स्वामिने नमः । शक्तिमतां श्रेष्ठाय नमः । चतुर्वेदविदर्हणाय नमः ।
स्वान्तर्गतारिनिवहनियन्त्रे नमः । अबाह्यशत्रुकाय नमः ।
गोक्षीरचन्दनक्षोदघृताद्यैरीशसेचकाय नमः ।
शब्दातिगब्रह्मरताय नमः । शब्दब्रह्मणि निष्ठिताय नमः ।
अक्षुब्धचेतसे नमः । अक्रुद्धाय नमः । स्वशास्त्रे नमः ।
शिष्यशासकाय नमः । इष्टाय नमः । अविशिष्टाय नमः । शिष्टेष्टाय नमः ।
शुभाङ्गाय नमः । शुभदेक्षणाय नमः । ८६०
ॐ शिवार्पितमनसे नमः । श्रीशसेविने नमः । श्रेयोदसूक्तिमते नमः ।
दान्ताय नमः । दमयित्रे नमः । अदम्याय नमः ।
तीर्णश्रुत्यादिसागराय नमः । सिद्धार्थाय नमः । सिद्धसङ्कल्पाय नमः ।
सुतपसे नमः । शुभदर्शनाय नमः । आश्रितावननिष्णात
सुप्रसादाय नमः । सुलोचनाय नमः । सुमुखाय नमः । सुरुचये नमः ।
सेवाऽऽयातार्थिसुलभाय नमः । सुदृशे नमः ।
सोमयागादिविप्रेन्द्रनिर्वर्त्य क्रतुरक्षकाय नमः । स्तव्याय नमः ।
स्तवप्रियाय नमः । ८८०
ॐ स्तोत्राय नमः । स्तुतये नमः । स्तोत्रे नमः ।
स्तुतातिगाय नमः । स्थविराय नमः । दण्डधृते नमः ।
दण्डापनीताश्रितरुक्चयाय नमः । स्थिराय नमः । स्पष्टाक्षराय नमः ।
बिल्वतुलसीस्रग्विभूषिताय नमः । स्वस्तिकृते नमः ।
स्ववशाय नमः । स्वङ्गाय नमः । स्वभावमृदवे नमः ।
अक्षिताय नमः । हवनप्रीतहुतभुङ्मध्यगेश्वरदर्शनाय नमः ।
अनुग्रहक्षमाय नमः । क्षामद्रष्ट्रे नमः । क्षेमकृदीक्षणाय नमः ।
क्षेत्रक्षेत्रज्ञदृष्ट्याप्तसमदृष्टये नमः । ९००
ॐ हितङ्कराय नमः । महनीयगुणग्रामाय नमः ।
जयेन्द्रन्यस्तपीठधुरे नमः । स्वहंसगमनव्याप्तभारताय नमः ।
विबुधाकृतये नमः । कदन्नतृप्ताय नमः । क्षामोदराय नमः ।
मुग्धतराननाय नमः । महाध्वगमनाश्रान्ताय नमः ।
महापाशुपताकृतये नमः । सामगानप्रियाय नमः ।
सामगानतोषितशङ्कराय नमः । महामन्त्रजपप्राप्तविभूतये नमः ।
नृणां भूतिदाय नमः । सुधाधरीकृतिचणसूक्तये नमः ।
स्वीकृतसंयमाय नमः । वृत्तौ मधुकराय नमः । चित्ते हिमाय नमः ।
धिया वागीश्वराय नमः । सुवासिन्यर्चनरताय नमः । ९२०
ॐ नवकन्यासमर्चकाय नमः । सुवासिनीमण्डलगदेवी दर्शननिर्वृताय नमः ।
अजपाजपसुप्रीताय नमः । कामाक्षीप्रकटाकृतये नमः ।
देव्यै नवनवस्निग्ध मधुरान्ननिवेदकाय नमः । अग्रजाग्राय नमः ।
अचिन्त्यगुणाय नमः । अगर्विताय नमः । अमरवाग्वदाय नमः ।
वैदिकैस्तान्त्रिकैर्मन्त्रैः अर्हिताम्बाय नमः । अतान्त्रिकाय नमः ।
अनाकलितसादृश्याय नमः । श्रीविद्यामन्त्रतन्त्रविदे नमः ।
सर्वाधिशायिकरुणाय नमः । स्मितरोचिषा ललिताय नमः ।
अद्वैतं सत्यमित्याख्यन्मध्यार्जुनशिवार्चकाय नमः ।
त्र्याश्रमस्थैरर्हिताङ्घ्रये नमः । प्रत्यक्चितिविमर्शकाय नमः ।
दयमानाय नमः । दीर्घदृष्टये नमः । ९४०
ॐ गुरुसङ्केतपालकाय नमः । निजसंलापमाधुर्यहृतसज्जनमानसाय नमः ।
उपचारैः षोडशभिर्मानसैर्महितेश्वराय नमः ।
आबालगोपविदिताय नमः । कर्माकर्मविभागविदे नमः ।
स्वाश्रितानां लुप्तविघ्नाय नमः । ऋजुचित्तसमीपगाय नमः ।
दैवीसम्पद्धृताकाराय नमः । दैवीसम्पन्निधानभुवे नमः ।
अम्बापादावलम्बिस्वजीवनाय नमः । सुखजीवनाय नमः । मौनिने नमः ।
अचेष्टाय नमः । अवचनप्रवक्त्रे नमः । श्रोतृतर्पकाय नमः ।
जराशोषितसर्वाङ्गाय नमः । जरया अजरितान्तराय नमः ।
वाचाऽपनीतवैमत्याय नमः । शास्त्ररक्षण तत्पराय नमः । गुरुवारे
शास्रविद्भिःकृतशास्त्रविचारणाय नमः । ९६०
ॐ स्वजन्मभानुराधासु वेदरक्षाविचारकृते नमः ।
अप्रौढकन्योद्वाहार्थनिधिदाय नमः । लोकनायकाय नमः ।
अनाथप्रेतसंस्कारोपकृन्निधिविधायकाय नमः । वेदभाष्याधीतिपालाय नमः ।
क्षुधितान्नवितारकाय नमः । मुष्टितण्डुलचित्त्यात्त
निःस्वालयसुपोषणाय नमः । रुग्णालयगतार्तानां ईशानुग्रहवेदकाय नमः ।
कलवैस्थस्वगुरुराड्वृन्दावन चिरस्थितये नमः ।
सताराक्षेत्रगोदीच्य चिदम्बरशिवाश्रयाय नमः । देहलीनिर्मिताद्र्यग्र्य
स्वामिशैलेश मन्दिराय नमः । शरणागतदीनार्तपरित्राणपरायणाय नमः ।
आम्नायसारगुलिकाचूषकाय नमः । स्वच्छहृच्छयाय नमः ।
विदितात्मरसानन्दास्वादत्यक्तैषणाय नमः । स्वभुवे नमः ।
सिंहासनेशी-मनुराड्जपनिस्तन्द्रितान्तराय नमः । आत्मानन्दरसास्वादार्ध
सम्मीलितपक्ष्मकाय नमः । पूजागेहानन्तरभूकृतवासाय नमः ।
अनिकेतनाय नमः । ९८०
ॐ महागुरुमहास्वामिपरमाचार्यसंज्ञकाय नमः । नवो
महानितिख्यातशिष्याय नमः । शिष्योपनायकाय नमः ।
देशपालैरर्चिताङ्घ्रये नमः । कोट्यतीतजनैर्नुताय
श्रीजयेन्द्रसरस्वत्यै स्वयमद्वैतबोधकाय नमः । शिष्याय
योगलिङ्गार्चामार्गनिर्देशकारकाय नमः । सुन्दरीवरिवस्यार्ह
श्रीविद्यादीक्षिताश्रवाय नमः । बालस्वामीति संज्ञया
प्रख्यापितप्रशिष्याय नमः । स्वसन्निधौ प्रशिष्याय बोधिताद्वैताय नमः ।
आशुकृते नमः । शिष्यप्रशिष्यनिर्वृत्तशताब्दीपरमोत्सवाय नमः ।
वेदैश्चतुर्भिर्विप्रौघघोषितैर्मुदितान्तराय नमः ।
पादपीठे न्यस्तपादाय नमः । हेमसिंहासनास्थिताय नमः ।
गुरुद्वितयशिष्याग्र्यकृतचामरवीजनाय नमः ।
शिष्यैर्जयेन्द्रैः कनकमुद्राकृतपदार्चनाय नमः ।
नानाशास्त्रसुनिष्णातविद्वज्जनपरीवृताय नमः । वृन्दावने
सन्निहिताय नमः । काञ्च्यन्तरितविग्रहाय नमः । १०००
ॐ स्वर्च्याय नमः । स्तवेड्याय नमः । स्तुत्यात्मने नमः ।
पुरःस्फुरितभातनवे नमः । नाद्यास्तीति भ्रान्तिभीतस्वान्तेऽस्मीति
प्रदर्शकाय नमः । काञ्च्यां श्रीकामकोट्याख्यपीठगाय शङ्कराय
गुरवे नमः । पूज्यश्रीचरणाय चन्द्रशेखरेन्द्रसरस्वत्यै नमः ।
शारदामठसुस्थिताय महास्वामिने नमः । १००८
नमस्ते परमाचार्य महास्वामिन् महागुरो ।
वृन्दावने सन्निहित रक्ष वृन्दमिमं स्वकम् ॥
नामस्तवनमात्रेणपुरः स्फुरितविग्रहः ।
दर्शयत्यात्मचरितं मोदयन्नः परोगुरुः ॥
इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः ।
आप्नोति सम्पदं सर्वामिष्टामर्थ्यां शुभेक्षणः ॥
श्रीचन्द्रशेखरेन्द्रसरस्वती सहस्रनामावलिः समाप्ता ।
Proofread by Aruna Narayanan