श्रीमच्चन्द्रशेखरभारतीदशकम्
वन्दे ब्रह्मविदां श्रेष्ठं वीतरागिणमद्वयम् ।
अन्तर्मुखरसोन्मग्नं चन्द्रशेखरदेशिकम् ॥ १॥
शमादिगुणसम्पन्नं ज्ञानाभ्यासपरायणम् ।
सर्ववेदान्तसारज्ञं प्रपद्ये चन्द्रशेखरम् ॥ २॥
शिवाभिनवशिष्यं तं विद्यातीर्थसुपूजितम् ।
व्याख्यानासनभूषितं प्रपद्ये चन्द्रशेखरम् ॥ ३॥
वैराग्यनिधनं धीरं जितबाह्यसुखस्पृहम् ।
आत्मारामं सदा वन्दे चन्द्रशेखरभारतीम् ॥ ४॥
निर्विकल्पसमाधिस्थं द्वैतदृष्टिविवर्जितम् ।
शान्तं शिवं गुरुं वन्दे चन्द्रशेखरभारतीम् ॥ ५॥
कृतभाष्यं महात्मानं चूडामणिं विवेकिनाम् ।
कल्याणगुणसम्पूर्णं भावये चन्द्रशेखरम् ॥ ६॥
अविद्याकृतदृश्यघ्नं चित्तशुद्धिप्रदायकम् ।
आत्मज्ञानोपदेष्टारं भावये चन्द्रशेखरम् ॥ ७॥
परहंसं स्थितप्रज्ञं चिन्मुद्राविलसत्करम् ।
अद्वितीयपरात्मानं चन्द्रशेखरमाश्रये ॥ ८॥
कृतसर्वतपश्चर्यं प्रत्यग्याथात्म्यनिश्चितम् ।
आत्मब्रह्मैक्यनिष्ठं श्रीचन्द्रशेखरमाश्रये ॥ ९॥
निर्विशेषं निराकारं सत्यासत्यविलक्षणम् ।
परमानन्दचिद्रूपं प्रपद्ये चन्द्रशेखरम् ॥ १०॥
इति श्रीमच्चन्द्रशेखरभारतीदशकं सम्पूर्णम् ।
-- अपर्याप्तामृतः
(संशोधकविद्यार्थी, वैमान्तरिक्षविभागः)
Encoded and proofread by Suba Ramesh