देवैः कृता ब्रह्मस्तुतिः
देवा ऊचुः -
लोकेश तारको दैत्यो वरेण तव दर्पितः ।
निरस्यास्मान् हठादस्मद्विषयान् स्वयमग्रहीत् ॥ ६८॥
रात्रिन्दिवं बाधतेऽस्मान् यत्र तत्र स्थिता वयम् ।
पलायिताश्च पश्यामः सर्वकाष्ठासु तारकम् ॥ ६९॥
अग्निर्यमोऽथ वरुणो निर्-ऋतिर्वायुरेव च ।
तथा मनुष्यधर्मा च सर्वैः अरिकरैर्युतः ॥ ७०॥
एते तेनार्दिता ब्रह्मन् देवास्तस्यैव शासनात् ।
अनिच्छाकार्यनिरताः सर्वे तस्यानुजीविनः ॥ ७१॥
या देववनिताः स्वर्गे ये चाप्यप्सरसां गणाः ।
तान् सर्वानग्रहीद्दैत्यः सारं लोकेषु यच्च यत् ॥ ७२॥
न यज्ञाः सम्प्रवर्तन्ते न तपस्यन्ति तापसाः ।
दानधर्मादिकं किञ्चिद् न लोकेषु प्रवर्तते ॥ ७३॥
तस्य सेनापतिः पापः क्रौञ्चो नामास्ति दानवः ।
स पातालतलं गत्वा बाधतेऽहर्निशं प्रजाः ॥ ७४॥
तस्मात् तु तारकेणेडं सकलं भुवनत्रयम् ।
हृतं सर्वं जगत् त्राहि पापात्तस्मात् पितामह ॥ ७५॥
वयं च यत्र स्थास्यामस्तत्स्थानं विनिदेशय ।
स्वस्थानाच्च्यावितास्तेन लोकनाथ जगद्गुरो ॥ ७६॥
त्वं नो गतिश्च शास्त्रा च त्वं नस्त्राता पिता प्रसूः ।
त्वमेव भुवनानां च स्थापकः पालकः कृती ॥ ७७॥
तस्माद् यावत्तारकाख्ये वह्नौ दग्धाः प्रजापते ।
न भवामस्तथा कर्तुं भवता युज्यतेऽधुना ॥ ७८॥
इति कालिकापुराणे द्विचत्वारिंशाध्यायान्तर्गता
देवैः कृता ब्रह्मस्तुतिः समाप्ता ।
Proofread by PSA Easwaran