श्रीभगवन्नारायणाचार्याष्टकम्
आनन्दभाष्यवेत्तारं विशिष्टाद्वैतवादिनम् ।
द्वाराचार्यमहं वन्दे श्रीभगवन्नारायणम् ॥ १॥
दीक्षितं धर्मरक्षायां भक्तिसाधनसंयुतम् ।
द्वाराचार्यमहं वन्दे श्रीभगवन्नारायणम् ॥ २॥
असन्मार्गान्निवार्याथ सन्मार्गस्य च दर्शकम् ।
द्वाराचार्यमहं वन्दे श्रीभगवन्नारायणम् ॥ ३॥
भवरोगाकुलानां च राममन्त्रौषधिप्रदम् ।
द्वाराचार्यमहं वन्दे श्रीभगवन्नारायणम् ॥ ४॥
मुद्रामालोर्ध्वपुण्ड्रादिधारकै सिद्धसेवितम् ।
द्वाराचार्यमहं वन्दे श्रीभगवन्नारायणम् ॥ ५॥
रामानन्दमतासक्तं योगीन्द्रं रामचिन्तकम् ।
द्वाराचार्यमहं वन्दे श्रीभगवन्नारायणम् ॥ ६॥
रहस्यत्रयबोधेन शिष्याज्ञानस्य हारकम् ।
द्वाराचार्यमहं वन्दे श्रीभगवन्नारायणम् ॥ ७॥
सत्याहिंसादयादीनां सद्धर्माणां महोदधिम् ।
द्वाराचार्यमहं वन्दे श्रीभगवन्नारायणम् ॥ ८॥
इति श्रीभगवन्नारायणाचार्याष्टकं सम्पूर्णम् ।
Encoded and proofread by Mrityunjay Pandey