श्रीभूवराहस्तुतिः
(श्रीभूवराहक्षेत्रे)
जायते वरमहः पदपद्मप्रेक्षणेन तव नम्रजनानाम् ।
भूवराह करुणामृतराशे त्वां वराह इति तत्कथयन्ति ॥ १॥
राजराजपरिपूजितपाद प्राणनाथ सरिदीश्वरपुत्र्याः ।
श्रीवराहपुरसंस्थितलोकान्भूवराह परिपाहि कृपाब्धे ॥ २॥
इति श्रीशृङ्गेरी जगद्गुरु श्रीसदाशिवाभिनवनृसिंहभारती-
श्रीपादैः विरचिता श्रीभूवराहस्तुतिः सम्पूर्णा ।
Proofread by PSA Easwaran