श्रीभृङ्गिदेवाचार्याष्टकम्
सीतारामपदासक्तं ज्ञानभक्तिमहोदधिम् ।
वन्दे भृङ्गिदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ १॥
श्रीमद्वैष्णवधर्मस्य रक्षकं चाथ शिक्षकम् ।
वन्दे भृङ्गिदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ २॥
आनान्दाभाष्यसिद्धान्तवेदिनं जितवादिनम् ।
वन्दे भृङ्गिदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ ३॥
रामब्रह्मोपदेष्टार नवधाभक्तिबोधकम् ।
वन्दे भृङ्गिदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ ४॥
जनानां मोक्षदातारं रामतारकदीक्षया ।
वन्दे भृङ्गिदेवार्य द्वाराचार्यं जगद्गुरुम् ॥ ५॥
सिद्धैः प्राज्ञैश्च भूपालैः सेवितमृद्धिसिद्धिदम् ।
वन्दे भृङ्गिदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ ६॥
सम्प्रदायरहस्यानां बाधकं धर्मवित्तमम् ।
वन्दे भृङ्गिदेवार्य द्वाराचार्यं जगद्गुरुम् ॥ ७॥
ऊर्ध्वपुण्ड्रादिसंस्कारकत्र्त्तारं शिष्यशासकम् ।
वन्दे भृङ्गिदेवार्य द्वाराचार्यं जगद्गुरुम् ॥ ८॥
इति श्रीभृङ्गिदेवाचार्याष्टकं सम्पूर्णम् ।
Encoded and proofread by Mrityunjay Pandey