अग्निस्तुतिः देवैः कृता
(सौरपुराणे ६१-अध्यायान्तर्गता)
देवा ऊचुः -
जलभीरो जलोत्पन्न जलाजलजलेचर ।
जलजामलपत्राक्ष यज्ञदेव हुताशन ॥ १॥
कृष्णकेतो कृष्णवर्त्मन्स्वर्गमार्गप्रदर्शक ।
यज्ञाहुतिहुताहार यज्ञाहार हराकृते ॥ २॥
पूर्णगर्भ गवां गर्भ जय देव महाशन ।
तमोहर महाहार स्वाहाभर्तर्नमोऽस्तु ते ॥ ३॥
हव्यवाहन सप्तार्चे चित्रभानो महायुते ।
अनलाग्ने यज्ञमुख जय पावक सर्वग ॥ ४॥
विभावसो महाभाग वेदभाषार्थभाषण ।
कृशानो ऋतुसम्भारप्रिय विश्वप्रभावन ॥ ५॥
सागराम्बुघृतं देव त्वमश्वमुखसंश्रितः ।
पिबंश्चैवोद्गिरंश्चैव न तृप्तिमधिगच्छसि ॥ ६॥
त्वं वाक्येष्वनुवाक्येषु निषत्सूपनिषत्सु च ।
ब्राह्मणा ब्रह्मयोनिं त्वां स्तुवन्ति त्वत्परायणाः ॥ ७॥
तुभ्यं कृत्वा नमो विप्राः स्वकर्मविहितां गतिम् ।
ब्रह्मेन्द्रविष्णुरुद्राणां लोकान्सम्प्राप्नुवन्ति च ॥ ८॥
त्वमन्तः सर्वभूतानां भुक्तं भोक्ता जगत्पते ।
पचसे पचतां श्रेष्ठ त्रीँल्लोकान्सङ्क्षयिष्यसि ॥ ९॥
साक्षी लोकत्रयस्यास्य त्वया तुल्यो न विद्यते ।
शरणं भव देवानां विश्वत्रयमहेश्वर ॥ १०॥
इत्येवं स्तूयमानोऽसावुत्थाय ज्वलनस्तदा ।
देवान्प्रदक्षिणीकृत्य ययौ शम्भुगृहं द्विजाः ॥ ११॥
तत्रापश्यत्प्रतीहारं महादेवसमं बले ।
पूजितं सेन्द्रकैर्देवैर्महादेवदिदृक्षुभिः ॥ १२॥
इति सौरपुराणे एकषष्ठितमोऽध्यायान्तर्गता देवैः कृता
अग्निस्तुतिः समाप्ता ।
Encoded and proofread by PSA Easwaran