अष्टदिक्पालस्तुतिः
तत्रादौ विधातारं प्रति प्रणामः---
आरूढं स्कन्धदेशं मृदुसितविपुलं राजहंसस्य यूनो
भारत्यान्वास्यमानं सनकमुखमहायोगिवृन्दैरमन्दैः ।
श्रीमत्तत्त्वावबोधे विनिहितमतिभिः सेव्यमानं विरिञ्चिं
सेवे प्रस्थानकालोचितनवविजयश्रेयसे भूयसे नः ॥ १॥
वासवं प्रति प्रणामः
सार्धं शच्याधिरूढं धवलघनतनुं नागमैरावताख्यं
दम्भोलिं दैत्यदम्भप्रशमनमुरुदोस्तम्भदेशे दधानम् ।
रम्भाद्याधृतवालव्यजनजपवनाङ्कूरलोलांशुकाग्रं
सेवे नाकाधिनाथं सपदि बहुविधश्रेयसे भूयसे नः ॥ २॥
अग्निं प्रति प्रणामः --
आसीनं लोहितांसे मणिफलकनिभे स्वाहया छाययेव
ज्वालैः स्वैः सप्तसङ्ख्यैः प्रशमिततिमिरं काममष्टासु दिक्षु ।
शक्तिं व्यक्तौजसं स्वां रिपुमददमने धारयन्तं कराग्रे
सेवे वैश्वानरं तं सपदि बहुविधश्रेयसे भूयसे नः ॥ ३॥
यमं प्रति प्रणामः-
साकं प्राकम्पमाने गिरिशिखर इव श्यामला भिख्यदेव्या-
ऽदम्रे विभ्राजमानं महिषकुलपतौ सेव्यमानं च दूतैः ।
दण्डं ब्रह्माण्डभाण्डोद्दलनपटुतरं बाहुदण्डे दधानं
सेवे धर्माभिधं तं सुरमिह विविधश्रेयसे भूयसे नः ॥ ४॥
निरृतिं प्रति प्रणामः -
तुङ्गत्वङ्गत्तुरङ्गं गतिरयविजितस्वान्तवाताण्डजेशं
दीर्घादेव्याधिरूढं करभुवि निशितप्रान्तकुन्तं वहन्तम् ।
राजानं नैरृतानां परिवृतमभितो यातुधानप्रधानैः
सेवे प्रस्थानकालोचितनवविजयश्रेयसे भूयसे नः ॥ ५॥
वरुणं प्रति प्रणामः -
देव्याः श्रीकालिकाया भुजशिखरयुगव्यापृतोदग्रबाहुं
यानं मातङ्गयानं मकरमधिगतं वैरिनाशाय पाशम् ।
आबिभ्राणं कराग्रे जलचर निवहैः सेव्यमानं जलेशं
सेवे प्रस्थानकालोचितनवविविधश्रेयसे भूयसे नः ॥ ६॥
वायुदेवं प्रति प्रणामः -
विद्यामध्येतुकामं किल रभसगतैः सन्निकृष्टं कुरङ्गं
सम्प्राप्तं यानमङ्काश्रयणकुतुकिनीमञ्जनां रञ्जयन्तम् ।
पाणौ कुर्वाणमुच्चैर्ध्वजमपि च जगत्प्राणभूतं समीरं
सेवे प्रस्थानकालोचितनवविजयश्रेयसे भूयसे नः ॥ ७॥
कुबेरं प्रति प्रणामः-
सानन्दं चित्रलेखां विविधमणिमयैर्भूषणैर्भूषिताङ्गीं
निध्यायन्तं नितान्तं करतलकलितोद्दामकौक्षेयकं च ।
आरूढं यानमुच्चैर्नरमपि धनदं किन्नरोपास्यमानं
सेवे प्रस्थानकालोचितनवविजयश्रेयसे भूयसे नः ॥ ८॥
ईशानं प्रति प्रणामः -
अन्यं सञ्चारशीलं रजतगिरिमिव श्वेतमानं समन्ताद्
अध्यारूढं महोक्षं तुहिनगिरिसुताश्लेषदत्तावधानम् ।
सेनानीविघ्नराजप्रमथगणशतैः सेवितं शूलपाणिं
सेवे प्रस्थानकालोचितनवमहितश्रेयसे भूयसे नः ॥ ९॥
स्तुतिपठनफलं -
इति कौशिकरङ्गनाथकॢप्तां सुरनाथस्तुतिमन्वहं पठन् सन् ।
लभते परमां श्रियं धरायामिह तेषां कृपया विधूतदोषः ॥ १०॥
इति (कौशिक) रङ्गनाथसूरिविरचिता श्री अष्टदिक्पालस्तुतिः समाप्ता ।
स्तोत्रसमुच्चयः २ (८९)
Proofread by Rajesh Thyagarajan