आचार्यप्रशस्ति
(विविध ग्रन्थों से सङ्कलित)
नमाम्यभोगिपरिवारसम्पदं निरस्तभूतिमनुमार्धविग्रहम् ।
अनुग्रमुन्मृदितकाललाञ्छनं विनायकमपूर्वशङ्करम् ॥ १॥
आशैलादुदयात्तथास्तगिरितो भास्वद्यशोरश्मिभिः
व्याप्तं विश्वमनन्धकारमभवद्यस्य स्म शिष्यैरिदम् ।
आराज्ज्ञानगभस्तिभिः प्रतिहतश्चन्द्रायते भास्करः
तस्मै शङ्करभानवे तनुमनोवाग्भिर्नमः स्यात्सदा ॥ २॥
येषां धीसूर्यदीप्त्या प्रतिहतिमगमन्नाशमेकान्ततो मे
ध्वान्तं स्वान्तस्य हेतोर्जननमरणसन्तानदोलाधिरूढेः ।
येषां पादौ प्रपन्नाः श्रुतिशमविनयैर्भूषिताः शिष्यसङ्घाः
सद्यो मुक्ताः स्थितास्तान् यतिवरमहितान् यावदायुर्नमामि ॥ ३॥
उद्धृत्य वेदपयसः कमलामिवान्धेः
आलिङ्गिताखिलजगत्प्रभवैकमूर्तिम् ।
विद्यामशेषजगतां सुखदामदाद्यः
शङ्करं विमलभाष्यकृतं नमामि ॥ ४॥
यद्भाष्याम्बुजजातजातमधुरप्रेयोमधुप्रार्थना-
सार्थव्यग्रधियः समग्रमरुतः स्वर्गेऽपि निर्वेदिनः ।
यस्मिन् मुक्तिपथः पथीनमुनिभिः सम्प्रार्थितः सम्बभौ
तस्मै भाष्यकृते नमोऽस्तु भगवत्पादाभिदां बिभ्रते ॥ ५॥
वक्तारमासाद्य यमेव नित्या सरस्वती स्वार्थसमन्वितासीद् ।
निरस्तदुस्तर्ककलङ्कपङ्का नमामि तं शङ्करमचिन्ताधिम् ॥ ६॥
भगवत्पादपादाब्जपांसवः परन्तु सन्ततम् ।
अपारासारसंसारसागरोत्तारसेतवः ॥ ७॥
वेदान्ताम्भोगभीरा नयमकरकुला ब्रह्मविद्याव्जषण्डा
पाषण्डोत्तुङ्गवृक्षप्रमथननिपुणा मानवीचीतरङ्गा ।
यस्यास्योत्था सरस्वत्यखिलभवभयध्वंसिनी शङ्करस्य
गङ्गा शम्भोः कपर्दादिव निखिलगुरोर्नौमि तत्पादपद्मम् ॥ ८॥
मीमांसया कपटतो भुजगाम्बयेव
स्वाधीनतामुपनिषद्विनतेव नीता ।
येनोद्धृताऽमृतफलेन गरुत्मतेव
तस्मै नमो भगवतेऽद्भुतशङ्कराय ॥ ९॥
स्तुवन्मोहतमस्तोमभानुभावमुपेयुषः
स्तुमस्तान् भगवत्पादान् भवरोगभिषग्वरान् ॥ १०॥
महामोहपङ्के विरिञ्चाचरान्तं
प्रजाहस्तिनं मग्नमालोक्य भाष्यैः ।
जलैः क्षालयित्वाऽऽत्मविद्यादिवं
यो नयत्येकलं शङ्करं तं नमामि ॥ ११॥
सूत्रप्रग्रहवेदवाजिनि महन्मीमांसकस्यन्दने
तिष्ठन् भाष्यपिनाकमुज्ज्वलगुणं कृत्त्वात्मधीसायकम् ।
आकृष्य प्रदहन्नशेषविपदां मूलं पुराणां त्रयं
भूयान्नोऽभिनवः पुरारिरशुभस्योच्छित्तये शङ्करः ॥ १२॥
हरलीलावताराय शङ्कराय वरौजसे ।
कैवल्यकलनाकल्पतरवे गुरवे नमः ॥ १३॥
वेदान्तार्थं गभीरं ह्यतिसुगमतया बोधयामीति विष्णुः
व्यासात्माऽसूत्रयत्तद् दुरधिगममभूद् वादिदुर्बुद्धिभेदात् ।
भिन्दन दुर्बुद्धिभेदं य इह करुणयाऽभाषयद् भाष्यमेतत्
तं वन्दे सर्ववन्धं त्रिजगति भगवत् पादसंशं महेशम् ॥ १४॥
यद्भाष्योक्तेर्लवपरिजुषश्छात्रवर्गा महान्तो
निर्भिन्दन्ति प्रबलमतयो वादिशैलं समस्तम् ।
यैर्वेदाब्धेरमृतमिव सद्भाष्यमात्मप्रकाशं
तत्पादाब्जं स्फुरतु हृदये ह्युद्धृतं सर्वदा मे ॥ १५॥
संसारसर्पपरिदष्टविनष्टजन्तु-
सञ्जीवनाय परया कृपयोपपन्नः ।
ब्रह्मावबोधपरमौषधमुद्वहन् यः
तं शङ्करं परतरं भिषजां भजामि ॥ १६॥
श्रीसम्बन्धमुदीक्ष्य वाचकपदेऽयान् शाङ्गिणं वैष्णवाः
चन्द्रोत्तंसपदास्पदत्वकलनाच्छम्भुं च शैवा विदुः ।
आनन्दाद्वयशोभमानपरमप्रेमास्पदं योगिनः
तान् पादाम्बुजरेणुधूततमसो वन्दे सदा श्रीगुरुन् ॥ १७॥
वेदान्तव्रातनीरं शतपथकथितन्यायरत्नप्रपूरं
पारावारं सुतारं निगममुखषडङ्गात्मसद्ग्राहघोरम् ।
कारं कारं सुगाहं श्रुतमतमथितैर्ब्रह्मविद्यामृतं यः
प्रादादादाय तस्मादशरणशरणं शङ्करं तं नमामः ॥ १८॥
ये वेदान्तसुधोदधिं सुमनसां निःश्रेयसाय स्वयं
निर्मथ्योदहरद् निरूपणगुणावृत्तेन चेतोमथा ।
अद्वैतामृतमासुरानुशयिनामास्वादनीयेतरत्
तानास्माकगुरोरुपैमि भगवत्पादादिमान् देशिकान् ॥ १९॥
श्रीमच्छङ्करसद्गुरोर्भगवतोऽगाधामसाधारणी
वाणी नः प्रतनीयसीं मुहुरिमां गाटुं समुत्कण्ठते ।
तन्मूर्तिः प्रभुरेव भक्तजनतावात्सल्यवैपुल्यभू-
रस्मै साधु ददातु शस्तदयया हस्तावलम्बं हरः ॥ २०॥
वेदान्तार्थतदाभासनीरक्षीरविवेकिनम् ।
नमामि भगवत्पादं परहंसधुरन्धरम् ॥ २१॥
अलब्ध्वातिशयं यस्माद्वयावृत्तास्तमवादयः ।
गरीयसे नमस्तस्मा अविद्याग्रन्थिभेदिने ॥ २२॥
अद्वैतार्णवपूर्णचन्द्रमभिदा पद्याटवीभास्करं
विद्वत्कोटिसमर्चिताङ्घ्रियुगलं प्रद्वेषिकक्षानलम् ।
हृद्याभेद्यसमस्तवेदजनितप्रोद्यद्विवेकाङ्कुरं
स्विद्यद्वागमृतं परात्परगुरुं श्रीशङ्करं तं भजे ॥ २३॥
इति आचार्यप्रशस्ति समाप्ता ।
Proofread by Mohan Chettoor