श्री आचार्यप्रपत्तिः
श्रीमत्प्रसन्नमुखमण्डलमुज्ज्वलन्तं,
विश्वप्रकाशकृतये जगदाश्रयं तम् ।
श्री श्रीनिवासचरितामृतपूर्णपात्रं,
श्रीबालदेशिकमहं शरणं प्रपद्ये ॥ १॥
निर्हेतुकेन करुणाचरणेन नित्यं
लोकस्य सर्वहृदयानि समाविशन्तम् ।
विद्वद्विचक्षणविलक्षणभक्तिरम्यं
श्रीबालदेशिकमहं शरणं प्रपद्ये ॥ २॥
नित्यं प्रसन्नमनसा मनसां मुनीनां
सम्मोहनाय धृतचारुचरित्रचर्यम् ।
निर्लेपनिमर्दनिरामयमद्वयं तं
श्रीबालदेशिकमहं शरणं प्रपद्ये ॥ ३॥
योगं परं भगवतः प्रतिपत्तिजातं
नारायणस्य जगतीषु विबोधयन्तम् ।
विद्या विवृद्धतपसा वपुषा विवृद्धं
श्रीबालदेशिकमहं शरणं प्रपद्ये ॥ ४॥
सुप्रातरेव सततं परिहाय शय्यां
प्रेयां समादरभरेण हरिं स्तुवन्तम् ।
स्वाध्यायपाठनिरतं विरतं विवादैः
श्रीबालदेशिकमहं शरणं प्रपद्ये ॥ ५॥
कृत्वा क्रियाः सपठनाः पटुना क्रमेण
सान्ध्यं समाप्य सकलं च तदाश्रयेण ।
सत्कृत्य चातिथिकुलं सुखमास्थितं तं
श्रीबालदेशिकमहं शरणं प्रपद्ये ॥ ६॥
नानारससमृद्धपरिचारकपाणिपात्रैः
सम्प्रार्थिताङ्घ्रिरजसं परमादरेण
श्री श्रीपतेरपि सदा मनसोऽनुरूपं
श्रीबालदेशिकमहं शरणं प्रपद्ये ॥ ७॥
धर्मप्रधानचरितैर्व्यपनीय कालं
माध्याह्निकं परिसमाप्य यथा क्रमेण ।
किञ्चिद्विरम्य पठकानपि पाठयन्तं
श्रीमन्मुकुन्दगुरुमन्वहमाश्रयामि ॥ ८॥
अध्यास्य लोकमुपदिश्य हितोपदेशान्
सम्भाष्य भूसुरगणान्समुपास्य सन्ध्याम् ।
नीराजने भगवतः कृतचित्तमार्यं
श्रीमन्मुकुन्दगुरुमन्वहमाश्रयामि ॥ ९॥
श्रीभारतेन किल भागवतेन वापि
श्रीसाम्प्रदायिकनिबन्धशतैस्तथान्यैः ।
रामायणादिचरितै रजनीं नयन्तं
श्रीमन्मुकुन्दगुरुमन्वहमाश्रयामि ॥ १०॥
होराचतुष्टयविवक्षितमध्यरात्रे
योगं दधान इव यः प्रतियाति नीचम् ।
तं सर्वभव्यविभवैर्भुवि भासमानं
श्रीमन्मुकुन्दगुरुमन्वहमाश्रयामि ॥ ११॥
सौशील्यमङ्गलगुणैः समलङ्कृतं तं
सद्भाववर्तनविधिं प्रदिशन्तमुच्चैः ।
आचार्यवृत्तविकसत्सुयशो मयूखं
श्रीमन्मुकुन्दगुरुमन्वहमाश्रयामि ॥ १२॥
श्रीडीडवानपुरतः प्रकटीभवन्तं
श्रीरामधाम बहुधा च समाश्रयन्तम् ।
श्रीमद्घनाभगुरुमञ्जुलपुण्यपुञ्जं
श्रीमन्मुकुन्दगुरुमन्वहमाश्रयामि ॥ १३॥
इत्यात्मबोधरसिकस्य गुरोर्नवीनां
दासेन रामकविना रचितां प्रपत्तिम् ।
प्रीत्या प्रभातसमये पठतां जनानां
कल्याणकल्पलतिका वितता भवन्ति ॥ १४॥
इति श्री आचार्यप्रपत्तिः ॥
Proofread by PSA Easwaran psaeaswaran at gmail.com