आचार्यनवरत्नमालिकास्तवः
यस्य स्मरणमात्रेण पापौघः शून्यतां ब्रजेत् ।
ज्ञानपद्मस्य सूर्यो यः शङ्करो नः प्रसीदतु ॥ १॥
संसारसर्पदष्टानां महाजाङ्गलिको गुरुः ।
अवतीर्णो भिषङ्नाथः शङ्करो नः प्रसीदतु ॥ २॥
चिन्मयानन्दमूर्तिर्यः संसारार्णवतारकः ।
महाकारुणिको योगी शङ्करो नः प्रसीदतु ॥ ३॥
यद्वाग्गङ्गाप्रवाहेण पूताः स्युः पामरा जनाः ।
भस्मीकृतास्तु कामाग्न्या शङ्करो नः प्रसीदतु ॥ ४॥
नष्टमार्गान्भवाटव्यां दुःखपूर्णाश्च विह्वलान् ।
मार्गबन्धुः सदा पाति शङ्करो नः प्रसीदतु ॥ ५॥
दुःखद्वारपिधानं यः शिष्याणां विदितात्मनाम् ।
प्रेम्णा करोति सततं तं वन्दे लोकशङ्करम् ॥ ६॥
दृष्टयैव पावयन्तीं करुणातटिनीं सदैव परिपूर्णाम् ।
वरतुङ्गोत्तुङ्गझरीं शरणं करवाणि देशिकेन्द्रस्य ॥ ७॥
ज्ञानदं करुणाकरं बुधसेवितं मुनिपुङ्गवं
शारदावदनाम्बुजं स्मितशोभितं स्तुतिभानुना ।
चारुणा सुविकासयन्तमघौषधं भवरोगिणां
चन्द्रशेखरमाश्रये किं करिष्यति मेऽज्ञता ॥ ८॥
भक्तिः पूर्णा करतलगतः कर्मशास्त्रप्रवाहो
योगस्तीर्णः सकलविभवो मन्त्रराजप्रयोगः ।
ज्ञानं सर्वे सकलसुखदं सर्वदा लब्धमेव
प्राप्तो यस्मात्परमसुकृतादेशिकेन्द्रप्रसादः ॥ ९॥
रामस्वामिसुधीहस्तगुम्फितां रत्नमालिकाम् ।
अङ्गीकरोतु कृपया चन्द्रशेखरभारती ॥
इति के. एस्. रामस्वामिशास्त्रिणा विरचितः आचार्यनवरत्नमालिकास्तवः सम्पूर्णः ।
(दिवान् बहदूर-बि. ए., बि. एल्.-इत्यादि बिरुदालङ्कृतेन
के. एस्. रामस्वामिशास्त्रिणा विरचितः)
(Author: Brahmasri Diwan Bahadur K. S. Ramaswami
Sastrigal, B. A., B. L., Retired District Judge, Kumbakonam.)
A garland of nine verses depicting the Great
qualities of His Holiness Sii Chandrasekhara
Bharati and appealing to HiM to bless His devotees.
Proofread by Ravi Venkatraman