.. छान्दोग्योपनिषद् ..
chhaandogyopanishhad.h\footnoteThe original encoding, obtained from Oxford Text Archive,
was done by students of Professor Peter Schreiner.
The transliteration was then methodically converted to
ITRANS for devanaagarii printout by P. P. Narayanaswami.
Please read the portion at the end of the input (.itx) file
for some details and credits.
Send corrections to Narayanaswami at swami@math.mun.ca
|| छान्दोग्योपनिषद् ||
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्च्क्षुः
श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि |
सर्वं ब्रह्मौपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म
निराकरोदनिकारणमस्त्वनिकारणं मेऽस्तु |
तदात्मनि निरते य उपनिषत्सु धर्मास्ते
मयि सन्तु ते मयि सन्तु ||
|| ॐ शान्तिः शान्तिः शान्तिः ||
|| प्रथमोऽध्यायः ||
|| प्रथमः खण्डः ||
ओमित्येतदक्षरमुद्गीथमुपासीत |
ओमिति ह्युद्गायति तस्योपव्याख्यानम् || १. १. १||
एषां भूतानां पृथिवी रसः पृथिव्या अपो रसः |
अपामोषधयो रस ओषधीनां पुरुषो रसः
पुरुषस्य वाग्रसो वाच ऋग्रस ऋचः साम रसः
साम्न उद्गीथो रसः || १. १. २||
स एष रसानाँरसतमः परमः परार्ध्योऽष्टमो
यदुद्गीथः || १. १. ३||
कतमा कतमर्क्कतमत्कतमत्साम कतमः कतम उद्गीथ
इति विमृष्टं भवति || १. १. ४||
वागेवर्क्प्राणः सामोमित्येतदक्षरमुद्गीथः |
तद्वा एतन्मिथुनं यद्वाक्च प्राणश्चर्क्च साम च || १. १. ५||
तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे सँसृज्यते
यदा वै मिथुनौ समागच्छत आपयतो वै
तावन्योन्यस्य कामम् || १. १. ६||
आपयिता ह वै कामानां भवति य एतदेवं
विद्वानक्षरमुद्गीथमुपास्ते || १. १. ७||
तद्वा एतदनुज्ञाक्षरं यद्धि किंचानुजानात्योमित्येव
तदाहैषो एव समृद्धिर्यदनुज्ञा समर्धयिता ह वै
कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते || १. १. ८||
तेनेयं त्रयीविद्या वर्तते ओमित्याश्रावयत्योमिति
शँसत्योमित्युद्गायत्येतस्यैवाक्षरस्यापचित्यै महिम्ना
रसेन || १. १. ९||
तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद |
नाना तु विद्या चाविद्या च यदेव विद्यया करोति
श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीति
खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति || १. १. १०||
|| इति प्रथमः खण्डः ||
|| द्वितीयः खण्डः ||
देवासुरा ह वै यत्र संयेतिरे उभये प्राजापत्यास्तद्ध
देवा उद्गीथमाजह्रुरनेनैनानभिभविष्याम इति || १. २. १||
ते ह नासिक्यं प्राणमुद्गीथमुपासांचक्रिरे
तँ हासुराः पाप्मना विविधुस्तस्मात्तेनोभयं जिघ्रति
सुरभि च दुर्गन्धि च पाप्मना ह्येष विद्धः || १. २. २||
अथ ह वाचमुद्गीथमुपासांचक्रिरे ताँ हासुराः पाप्मना
विविधुस्तस्मात्तयोभयं वदति सत्यं चानृतं च
पाप्मना ह्येषा विद्धा || १. २. ३||
अथ ह चक्षुरुद्गीथमुपासांचक्रिरे तद्धासुराः
पाप्मना विविधुस्तस्मात्तेनोभयं पश्यति दर्शनीयं
चादर्शनीयं च पाप्मना ह्येतद्विद्धम् || १. २. ४||
अथ ह श्रोत्रमुद्गीथमुपासांचक्रिरे तद्धासुराः
पाप्मना विविधुस्तस्मात्तेनोभयँ शृणोति श्रवणीयं
चाश्रवणीयं च पाप्मना ह्येतद्विद्धम् || १. २. ५||
अथ ह मन उद्गीथमुपासांचक्रिरे तद्धासुराः
पाप्मना विविधुस्तस्मात्तेनोभयँसंकल्पते संकल्पनीयंच
चासंकल्पनीयं च पाप्मना ह्येतद्विद्धम् || १. २. ६||
अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासांचक्रिरे
तँहासुरा ऋत्वा विदध्वंसुर्यथाश्मानमाखणमृत्वा
विध्वँसेतैवम् || १. २. ७||
यथाश्मानमाखणमृत्वा विध्वँसत एवँ हैव
स विध्वँसते य एवंविदि पापं कामयते
यश्चैनमभिदासति स एषोऽश्माखणः || १. २. ८||
नैवैतेन सुरभि न दुर्गन्धि विजानात्यपहतपाप्मा ह्येष
तेन यदश्नाति यत्पिबति तेनेतरान्प्राणानवति एतमु
एवान्ततोऽवित्त्वोत्क्रमति व्याददात्येवान्तत इति || १. २. ९||
तँ हाङ्गिरा उद्गीथमुपासांचक्र एतमु एवाङ्गिरसं
मन्यन्तेऽङ्गानां यद्रसः || १. २. १०||
तेन तँ ह बृहस्पतिरुद्गीथमुपासांचक्र एतमु एव बृहस्पतिं
मन्यन्ते वाग्घि बृहती तस्या एष पतिः || १. २. ११ ||
तेन तँ हायास्य उद्गीथमुपासांचक्र एतमु एवायास्यं
मन्यन्त आस्याद्यदयते || १. २. १२||
तेन तँह बको दाल्भ्यो विदांचकार |
स ह नैमिशीयानामुद्गाता बभूव स ह स्मैभ्यः
कामानागायति || १. २. १३||
आगाता ह वै कामानां भवति य एतदेवं
विद्वानक्षरमुद्गीथमुपास्त इत्यध्यात्मम् || १. २. १४||
|| इति द्वितीयः खण्डः ||
|| तृतीयः खण्डः ||
अथाधिदैवतं य एवासौ तपति
तमुद्गीथमुपासीतोद्यन्वा एष प्रजाभ्य उद्गायति |
उद्यँस्तमो भयमपहन्त्यपहन्ता ह वै भयस्य
तमसो भवति य एवं वेद || १. ३. १||
समान उ एवायं चासौ चोष्णोऽयमुष्णोऽसौ
स्वर इतीममाचक्षते स्वर इति प्रत्यास्वर इत्यमुं
तस्माद्वा एतमिमममुं चोद्गीथमुपासीत || १. ३. २||
अथ खलु व्यानमेवोद्गीथमुपासीत यद्वै प्राणिति
स प्राणो यदपानिति सोऽपानः |
अथ यः प्राणापानयोः संधिः स व्यानो यो व्यानः
सा वाक् |
तस्मादप्राणन्ननपानन्वाचमभिव्याहरति || १. ३. ३||
या वाक्सर्क्तस्मादप्राणन्ननपानन्नृचमभिव्याहरति
यर्क्तत्साम तस्मादप्राणन्ननपानन्साम गायति
यत्साम स उद्गीथस्तस्मादप्राणन्ननपानन्नुद्गायति || १. ३. ४||
अतो यान्यन्यानि वीर्यवन्ति कर्माणि यथाग्नेर्मन्थनमाजेः
सरणं दृढस्य धनुष आयमनमप्राणन्ननपानँस्तानि
करोत्येतस्य हेतोर्व्यानमेवोद्गीथमुपासीत || १. ३. ५||
अथ खलूद्गीथाक्षराण्युपासीतोद्गीथ इति
प्राण एवोत्प्राणेन ह्युत्तिष्ठति वाग्गीर्वाचो ह
गिर इत्याचक्षतेऽन्नं थमन्ने हीदँसर्वँस्थितम् || १. ३. ६||
द्यौरेवोदन्तरिक्षं गीः पृथिवी थमादित्य
एवोद्वायुर्गीरग्निस्थँ सामवेद एवोद्यजुर्वेदो
गीरृग्वेदस्थं दुग्धेऽस्मै वाग्दोहं यो वाचो
दोहोऽन्नवानन्नादो भवति य एतान्येवं
विद्वानुद्गीथाक्षराण्युपास्त उद्गीथ इति || १. ३. ७||
अथ खल्वाशीःसमृद्धिरुपसरणानीत्युपासीत
येन साम्ना स्तोष्यन्स्यात्तत्सामोपधावेत् || १. ३. ८||
यस्यामृचि तामृचं यदार्षेयं तमृषिं यां
देवतामभिष्टोष्यन्स्यात्तां देवतामुपधावेत् || १. ३. ९||
येन च्छन्दसा स्तोष्यन्स्यात्तच्छन्द उपधावेद्येन
स्तोमेन स्तोष्यमाणः स्यात्तँस्तोममुपधावेत् || १. ३. १०||
यां दिशमभिष्टोष्यन्स्यात्तां दिशमुपधावेत् || १. ३. ११||
आत्मानमन्तत उपसृत्य स्तुवीत कामं
ध्यायन्नप्रमत्तोऽभ्याशो ह यदस्मै स कामः समृध्येत
यत्कामः स्तुवीतेति यत्कामः स्तुवीतेति || १. ३. १२||
|| इति तृतीयः खण्डः ||
|| चतुर्थः खण्डः ||
ओमित्येतदक्षरमुद्गीथमुपासीतोमिति ह्युद्गायति
तस्योपव्याख्यानम् || १. ४. १||
देवा वै मृत्योर्बिभ्यतस्त्रयीं विद्यां प्राविशँस्ते
छन्दोभिरच्छादयन्यदेभिरच्छादयँस्तच्छन्दसां
छन्दस्त्वम् || १. ४. २||
तानु तत्र मृत्युर्यथा मत्स्यमुदके परिपश्येदेवं
पर्यपश्यदृचि साम्नि यजुषि |
ते नु विदित्वोर्ध्वा ऋचः साम्नो यजुषः स्वरमेव
प्राविशन् || १. ४. ३||
यदा वा ऋचमाप्नोत्योमित्येवातिस्वरत्येवँसामैवं
यजुरेष उ स्वरो यदेतदक्षरमेतदमृतमभयं तत्प्रविश्य
देवा अमृता अभया अभवन् || १. ४. ४||
स य एतदेवं विद्वानक्षरं प्रणौत्येतदेवाक्षरँ
स्वरममृतमभयं प्रविशति तत्प्रविश्य यदमृता
देवास्तदमृतो भवति || १. ४. ५||
|| इति चतुर्थः खण्डः ||
|| पञ्चमः खण्डः ||
अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ
इत्यसौ वा आदित्य उद्गीथ एष प्रणव ओमिति
ह्येष स्वरन्नेति || १. ५. १||
एतमु एवाहमभ्यगासिषं तस्मान्मम त्वमेकोऽसीति
ह कौषीतकिः पुत्रमुवाच रश्मीँस्त्वं पर्यावर्तयाद्बहवो
वै ते भविष्यन्तीत्यधिदैवतम् || १. ५. २||
अथाध्यात्मं य एवायं मुख्यः
प्राणस्तमुद्गीथमुपासीतोमिति ह्येष स्वरन्नेति || १. ५. ३||
एतमु एवाहमभ्यगासिषं तस्मान्मम त्वमेकोऽसीति ह
कौषीतकिः पुत्रमुवाच प्राणाँस्त्वं
भूमानमभिगायताद्बहवो वै मे भविष्यन्तीति || १. ५. ४||
अथ खलु य उद्गीथः स प्रणवो यः प्रणवः
स उद्गीथ इति होतृषदनाद्धैवापि
दुरुद्गीथमनुसमाहरतीत्यनुसमाहरतीति ||| १. ५. ५||
|| इति पञ्चमः खण्डः ||
|| षष्ठः खण्डः ||
इयमेवर्गग्निः साम तदेतदेतस्यामृच्यध्यूढ़ँ साम
तस्मादृच्यध्यूढँसाम गीयत इयमेव
साग्निरमस्तत्साम || १. ६. १||
अन्तरिक्षमेवर्ग्वायुः साम तदेतदेतस्यामृच्यध्यूढँ साम
तस्मादृच्यध्यूढँ साम गीयतेऽन्तरिक्षमेव सा
वायुरमस्तत्साम || १. ६. २||
द्यौरेवर्गादित्यः साम तदेतदेतस्यामृच्यध्यूढँ साम
तस्मादृच्यध्यूढँ साम गीयते द्यौरेव
सादित्योऽमस्तत्साम || १. ६. ३||
नक्षत्रान्येवर्क्चन्द्रमाः साम तदेतदेतस्यामृच्यध्यूढँ साम
तस्मादृच्यध्यूढँ साम गीयते नक्षत्राण्येव सा चन्द्रमा
अमस्तत्साम || १. ६. ४||
अथ यदेतदादित्यस्य शुक्लं भाः सैवर्गथ यन्नीलं परः
कृष्णं तत्साम तदेतदेतस्यामृच्यध्यूढँ साम
तस्मादृच्यध्यूढँ साम गीयते || १. ६. ५||
अथ यदेवैतदादित्यस्य शुक्लं भाः सैव
साथ यन्नीलं परः कृष्णं तदमस्तत्सामाथ
य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते
हिरण्यश्मश्रुर्हिरण्यकेश आप्रणस्वात्सर्व एव
सुवर्णः || १. ६. ६||
तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी
तस्योदिति नाम स एष सर्वेभ्यः पाप्मभ्य उदित
उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद || १. ६. ७||
तस्यर्क्च साम च गेष्णौ
तस्मादुद्गीथस्तस्मात्त्वेवोद्गातैतस्य हि गाता
स एष ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे
देवकामानां चेत्यधिदैवतम् || १. ६. ८||
|| इति षष्ठः खण्डः ||
|| सप्तमः खण्डः ||
अथाध्यात्मं वागेवर्क्प्राणः साम तदेतदेतस्यामृच्यध्यूढँ
साम तस्मादृच्यध्यूढँसाम गीयते|
वागेव सा प्राणोऽमस्तत्साम || १. ७. १||
चक्षुरेवर्गात्मा साम तदेतदेतस्यामृच्यध्यूढँसाम
तस्मादृच्यध्यूढँसाम गीयते |
चक्षुरेव सात्मामस्तत्साम || १. ७. २||
श्रोत्रमेवर्ङ्मनः साम तदेतदेतस्यामृच्यध्यूढँसाम
तस्मादृच्यध्यूढँसाम गीयते |
श्रोत्रमेव सा मनोऽमस्तत्साम || १. ७. ३||
अथ यदेतदक्ष्णः शुक्लं भाः सैवर्गथ यन्नीलं परः
कृष्णं तत्साम तदेतदेतस्यामृच्यध्यूढँसाम
तस्मादृच्यध्यूढँसाम गीयते |
अथ यदेवैतदक्ष्णः शुक्लं भाः सैव साथ यन्नीलं परः
कृष्णं तदमस्तत्साम || १. ७. ४||
अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते सैवर्क्तत्साम
तदुक्थं तद्यजुस्तद्ब्रह्म तस्यैतस्य तदेव रूपं यदमुष्य रूपं
यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम || १. ७. ५||
स एष ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां
चेति तद्य इमे वीणायां गायन्त्येतं ते गायन्ति
तस्मात्ते धनसनयः || १. ७. ६||
अथ य एतदेवं विद्वान्साम गायत्युभौ स गायति
सोऽमुनैव स एष चामुष्मात्पराञ्चो
लोकास्ताँश्चाप्नोति देवकामाँश्च || १. ७. ७||
अथानेनैव ये चैतस्मादर्वाञ्चो लोकास्ताँश्चाप्नोति
मनुष्यकामाँश्च तस्मादु हैवंविदुद्गाता ब्रूयात् || १. ७. ८||
कं ते काममागायानीत्येष ह्येव कामागानस्येष्टे य
एवं विद्वान्साम गायति साम गायति || १. ७. ९||
|| इति सप्तमः खण्डः ||
|| अष्टमः खण्डः ||
त्रयो होद्गीथे कुशला बभूवुः शिलकः शालावत्यश्चैकितायनो
दाल्भ्यः प्रवाहणो जैवलिरिति ते होचुरुद्गीथे
वै कुशलाः स्मो हन्तोद्गीथे कथां वदाम इति || १. ८. १||
तथेति ह समुपविविशुः स ह प्रावहणो जैवलिरुवाच
भगवन्तावग्रे वदतां ब्राह्मणयोर्वदतोर्वाचँ श्रोष्यामीति
|| १. ८. २||
स ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाच
हन्त त्वा पृच्छानीति पृच्छेति होवाच || १. ८. ३||
का साम्नो गतिरिति स्वर इति होवाच स्वरस्य का
गतिरिति प्राण इति होवाच प्राणस्य का
गतिरित्यन्नमिति होवाचान्नस्य का गतिरित्याप
इति होवाच || १. ८. ४||
अपां का गतिरित्यसौ लोक इति होवाचामुष्य लोकस्य
का गतिरिति न स्वर्गं लोकमिति नयेदिति होवाच स्वर्गं
वयं लोकँ सामाभिसंस्थापयामः स्वर्गसँस्तावँहि
सामेति || १. ८. ५||
तँ ह शिलकः शालावत्यश्चैकितायनं
दाल्भ्यमुवाचाप्रतिष्ठितं वै किल ते दाल्भ्य साम
यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते
विपतेदिति || १. ८. ६||
हन्ताहमेतद्भगवतो वेदानीति विद्धीति होवाचामुष्य
लोकस्य का गतिरित्ययं लोक इति होवाचास्य लोकस्य
का गतिरिति न प्रतिष्ठां लोकमिति नयेदिति होवाच
प्रतिष्ठां वयं लोकँ सामाभिसँस्थापयामः
प्रतिष्ठासँस्तावँ हि सामेति || १. ८. ७||
तँ ह प्रवाहणो जैवलिरुवाचान्तवद्वै किल ते
शालावत्य साम यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति
मूर्धा ते विपतेदिति हन्ताहमेतद्भगवतो वेदानीति
विद्धीति होवाच || १. ८. ८||
|| इति अष्टमः खण्डः ||
|| नवमः खण्डः ||
अस्य लोकस्य का गतिरित्याकाश इति होवाच
सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त
आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानकाशः
परायणम् || १. ९. १||
स एष परोवरीयानुद्गीथः स एषोऽनन्तः परोवरीयो
हास्य भवति परोवरीयसो ह लोकाञ्जयति
य एतदेवं विद्वान्परोवरीयाँसमुद्गीथमुपास्ते || १. ९. २||
तँ हैतमतिधन्वा शौनक उदरशाण्डिल्यायोक्त्वोवाच
यावत्त एनं प्रजायामुद्गीथं वेदिष्यन्ते परोवरीयो
हैभ्यस्तावदस्मिँल्लोके जीवनं भविष्यति || १. ९. ३||
तथामुष्मिँल्लोके लोक इति स य एतमेवं विद्वानुपास्ते
परोवरीय एव हास्यास्मिँल्लोके जीवनं भवति
तथामुष्मिँल्लोके लोक इति लोके लोक इति || १. ९. ४||
|| इति नवमः खण्डः ||
|| दशमः खण्डः ||
मटचीहतेषु कुरुष्वाटिक्या सह जाययोषस्तिर्ह
चाक्रायण इभ्यग्रामे प्रद्राणक उवास || १. १०. १||
स हेभ्यं कुल्माषान्खादन्तं बिभिक्षे तँ होवाच |
नेतोऽन्ये विद्यन्ते यच्च ये म इम उपनिहिता इति
|| १. १०. २||
एतेषां मे देहीति होवाच तानस्मै प्रददौ
हन्तानुपानमित्युच्छिष्टं वै मे पीतँस्यादिति होवाच
|| १. १०. ३||
न स्विदेतेऽप्युच्छिष्टा इति न वा
अजीविष्यमिमानखादन्निति होवाच कामो म
उदपानमिति || १. १०. ४||
स ह खादित्वातिशेषाञ्जायाया आजहार साग्र एव
सुभिक्षा बभूव तान्प्रतिगृह्य निदधौ || १. १०. ५||
स ह प्रातः संजिहान उवाच यद्बतान्नस्य लभेमहि
लभेमहि धनमात्राँराजासौ यक्ष्यते स मा
सर्वैरार्त्विज्यैर्वृणीतेति || १. १०. ६||
तं जायोवाच हन्त पत इम एव कुल्माषा इति
तान्खादित्वामुं यज्ञं विततमेयाय || १. १०. ७||
तत्रोद्गातॄनास्तावे स्तोष्यमाणानुपोपविवेश
स ह प्रस्तोतारमुवाच || १. १०. ८||
प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि
मूर्धा ते विपतिष्यतीति || १. १०. ९||
एवमेवोद्गातारमुवाचोद्गातर्या देवतोद्गीथमन्वायत्ता
तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीति || १. १०. १०||
एवमेव प्रतिहर्तारमुवाच प्रतिहर्तर्या देवता
प्रतिहारमन्वायत्ता तां चेदविद्वान्प्रतिहरिष्यसि मूर्धा ते
विपतिष्यतीति ते ह समारतास्तूष्णीमासांचक्रिरे
|| १. १०. ११||
|| इति दशमः खण्डः ||
|| एकादशः खण्डः ||
अथ हैनं यजमान उवाच भगवन्तं वा अहं
विविदिषाणीत्युषस्तिरस्मि चाक्रायण इति होवाच || १. ११. १||
स होवाच भगवन्तं वा अहमेभिः सर्वैरार्त्विज्यैः
पर्यैषिषं भगवतो वा अहमवित्त्यान्यानवृषि || १. ११. २||
भगवाँस्त्वेव मे सर्वैरार्त्विज्यैरिति तथेत्यथ
तर्ह्येत एव समतिसृष्टाः स्तुवतां यावत्त्वेभ्यो धनं
दद्यास्तावन्मम दद्या इति तथेति ह यजमान उवाच
|| १. ११. ३||
अथ हैनं प्रस्तोतोपससाद प्रस्तोतर्या देवता
प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि मूर्धा ते
विपतिष्यतीति मा भगवानवोचत्कतमा सा देवतेति
|| १. ११. ४||
प्राण इति होवाच सर्वाणि ह वा इमानि भूतानि
प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते सैषा देवता
प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रास्तोष्यो
मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति || १. ११. ५||
अथ हैनमुद्गातोपससादोद्गातर्या देवतोद्गीथमन्वायत्ता
तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीति
मा भगवानवोचत्कतमा सा देवतेति || १. ११. ६||
आदित्य इति होवाच सर्वाणि ह वा इमानि
भूतान्यादित्यमुच्चैः सन्तं गायन्ति सैषा
देवतोद्गीथमन्वायत्ता तां चेदविद्वानुदगास्यो
मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति || १. ११. ७||
अथ हैनं प्रतिहर्तोपससाद प्रतिहर्तर्या देवता
प्रतिहारमन्वायत्ता तां चेदविद्वान्प्रतिहरिष्यसि
मूर्धा ते विपतिष्यतीति मा भगवानवोचत्कतमा
सा देवतेति || १. ११. ८||
अन्नमिति होवाच सर्वाणि ह वा इमानि भूतन्यन्नमेव
प्रतिहरमाणानि जीवन्ति सैषा देवता प्रतिहारमन्वायत्ता
तां चेदविद्वान्प्रत्यहरिष्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य
मयेति तथोक्तस्य मयेति || १. ११. ९||
|| इति एकादशः खण्डः ||
|| द्वादशः खण्डः ||
अथातः शौव उद्गीथस्तद्ध बको दाल्भ्यो ग्लावो वा
मैत्रेयः स्वाध्यायमुद्वव्राज || १. १२. १||
तस्मै श्वा श्वेतः प्रादुर्बभूव तमन्ये श्वान
उपसमेत्योचुरन्नं नो भगवानागायत्वशनायामवा
इति || १. १२. २||
तान्होवाचेहैव मा प्रातरुपसमीयातेति तद्ध बको दाल्भ्यो
ग्लावो वा मैत्रेयः प्रतिपालयांचकार || १. १२. ३||
ते ह यथैवेदं बहिष्पवमानेन स्तोष्यमाणाः सँरब्धाः
सर्पन्तीत्येवमाससृपुस्ते ह समुपविश्य
हिं चक्रुः || १. १२. ४||
ओ३मदा३मों३पिबा३मों३ देवो वरुणः
प्रजपतिः सविता२न्नमिहा२हरदन्नपते३ऽन्नमिहा
२हरा२हरो३मिति || १. १२. ५||
|| इति द्वादशः खण्डः ||
|| त्रयोदशः खण्डः ||
अयं वाव लोको हाउकारः वायुर्हाइकारश्चन्द्रमा
अथकारः | आत्मेहकारोऽग्निरीकारः || १. १३. १||
आदित्य ऊकारो निहव एकारो विश्वे देवा
औहोयिकारः प्रजपतिर्हिंकारः प्राणः स्वरोऽन्नं या
वाग्विराट् || १. १३. २||
अनिरुक्तस्त्रयोदशः स्तोभः संचरो हुंकारः || १. १३. ३||
दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति
य एतामेवँसाम्नामुपनिषदं वेदोपनिषदं वेदेति || १. १३. ४||
|| इति त्रयोदशः खण्डः ||
|| इति प्रथमोऽध्यायः ||
|| द्वितीयोऽध्यायः ||
|| प्रथमः खण्डः ||
समस्तस्य खलु साम्न उपासनँ साधु यत्खलु साधु
तत्सामेत्याचक्षते यदसाधु तदसामेति || २. १. १||
तदुताप्याहुः साम्नैनमुपागादिति साधुनैनमुपागादित्येव
तदाहुरसाम्नैनमुपागादित्यसाधुनैनमुपगादित्येव
तदाहुः || २. १. २||
अथोताप्याहुः साम नो बतेति यत्साधु भवति साधु बतेत्येव
तदाहुरसाम नो बतेति यदसाधु भवत्यसाधु बतेत्येव
तदाहुः || २. १. ३||
स य एतदेवं विद्वानसाधु सामेत्युपास्तेऽभ्याशो ह यदेनँ
साधवो धर्मा आ च गच्छेयुरुप च नमेयुः || २. १. ४||
|| इति प्रथमः खण्डः ||
|| द्वितीयः खण्डः ||
लोकेषु पञ्चविधँ सामोपासीत पृथिवी हिंकारः |
अग्निः प्रस्तावोऽन्तरिक्षमुद्गीथ आदित्यः प्रतिहारो
द्यौर्निधनमित्यूर्ध्वेषु || २. २. १||
अथावृत्तेषु द्यौर्हिंकार आदित्यः
प्रस्तावोऽन्तरिक्षमुद्गीथोऽग्निः प्रतिहारः पृथिवी
निधनम् || २. २. २||
कल्पन्ते हास्मै लोका ऊर्ध्वाश्चावृत्ताश्च य एतदेवं
विद्वाँल्लोकेषु पञ्चविधं सामोपास्ते || २. २. ३||
|| इति द्वितीयः खण्डः ||
|| तृतीयः खण्डः ||
वृष्टौ पञ्चविधँ सामोपासीत पुरोवातो हिंकारो
मेघो जायते स प्रस्तावो वर्षति स उद्गीथो विद्योतते
स्तनयति स प्रतिहार उद्गृह्णाति तन्निधनम् || २. ३. १||
वर्षति हास्मै वर्षयति ह य एतदेवं विद्वान्वृष्टौ
पञ्चविधँसामोपास्ते || २. ३. २||
|| इति तृतीयः खण्डः ||
|| चतुर्थः खण्डः ||
सर्वास्वप्सु पञ्चविधँसामोपासीत मेघो यत्संप्लवते
स हिंकारो यद्वर्षति स प्रस्तावो याः प्राच्यः स्यन्दन्ते
स उद्गीथो याः प्रतीच्यः स प्रतिहारः
समुद्रो निधनम् || २. ४. १||
न हाप्सु प्रैत्यप्सुमान्भवति य एतदेवं विद्वान्सर्वास्वप्सु
पञ्चविधँसामोपास्ते || २. ४. २||
|| इति चतुर्थः खण्डः ||
|| पञ्चमः खण्डः ||
ऋतुषु पञ्चविधँ सामोपासीत वसन्तो हिंकारः
ग्रीष्मः प्रस्तावो वर्षा उद्गीथः शरत्प्रतिहारो
हेमन्तो निधनम् || २. ५. १||
कल्पन्ते हास्मा ऋतव ऋतुमान्भवति य एतदेवं
विद्वानृतुषु पञ्चविधँ सामोपास्ते || २. ५. २||
|| इति पञ्चमः खण्डः ||
|| षष्ठः खण्डः ||
पशुषु पञ्चविधँ सामोपासीताजा हिंकारोऽवयः
प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः
पुरुषो निधनम् || २. ६. १||
भवन्ति हास्य पशवः पशुमान्भवति य एतदेवं
विद्वान्पशुषु पञ्चविधँ सामोपास्ते || २. ६. २||
|| इति षष्ठः खण्डः ||
|| सप्तमः खण्डः ||
प्राणेषु पञ्चविधं परोवरीयः सामोपासीत प्राणो
हिंकारो वाक्प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारो
मनो निधनं परोवरीयाँसि वा एतानि || २. ७. १||
परोवरीयो हास्य भवति परोवरीयसो ह लोकाञ्जयति
य एतदेवं विद्वान्प्राणेषु पञ्चविधं परोवरीयः
सामोपास्त इति तु पञ्चविधस्य || २. ७. २||
|| इति सप्तमः खण्डः ||
|| अष्टमः खण्डः ||
अथ सप्तविधस्य वाचि सप्तविध्ँ सामोपासीत
यत्किंच वाचो हुमिति स हिंकारो यत्प्रेति स प्रस्तावो
यदेति स आदिः || २. ८. १||
यदुदिति स उद्गीथो यत्प्रतीति स प्रतिहारो
यदुपेति स उपद्रवो यन्नीति तन्निधनम् || २. ८. २||
दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति
य एतदेवं विद्वान्वाचि सप्तविधँ सामोपास्ते || २. ८. ३||
|| इति अष्टमः खण्डः ||
|| नवमः खण्डः ||
अथ खल्वमुमादित्यँसप्तविधँ सामोपासीत सर्वदा
समस्तेन साम मां प्रति मां प्रतीति सर्वेण
समस्तेन साम || २. ९. १||
तस्मिन्निमानि सर्वाणि भूतान्यन्वायत्तानीति
विद्यात्तस्य यत्पुरोदयात्स हिंकारस्तदस्य
पशवोऽन्वायत्तास्तस्मात्ते हिं कुर्वन्ति
हिंकारभाजिनो ह्येतस्य साम्नः || २. ९. २||
अथ यत्प्रथमोदिते स प्रस्तावस्तदस्य मनुष्या
अन्वायत्तास्तस्मात्ते प्रस्तुतिकामाः प्रशँसाकामाः
प्रस्तावभाजिनो ह्येतस्य साम्नः || २. ९. ३||
अथ यत्संगववेलायाँ स आदिस्तदस्य वयाँस्यन्वायत्तानि
तस्मात्तान्यन्तरिक्षेऽनारम्बणान्यादायात्मानं
परिपतन्त्यादिभाजीनि ह्येतस्य साम्नः || २. ९. ४||
अथ यत्संप्रतिमध्यंदिने स उद्गीथस्तदस्य
देवा अन्वायत्तास्तस्मात्ते सत्तमाः
प्राजापत्यानामुद्गीथभाजिनो ह्येतस्य साम्नः || २. ९. ५||
अथ यदूर्ध्वं मध्यंदिनात्प्रागपराह्णात्स
प्रतिहारस्तदस्य गर्भा अन्वायत्तास्तस्मात्ते
प्रतिहृतानावपद्यन्ते प्रतिहारभाजिनो
ह्येतस्य साम्नः || २. ९. ६||
अथ यदूर्ध्वमपराह्णात्प्रागस्तमयात्स
उपद्रवस्तदस्यारण्या अन्वायत्तास्तस्मात्ते पुरुषं
दृष्ट्वा कक्षँश्वभ्रमित्युपद्रवन्त्युपद्रवभाजिनो
ह्येतस्य साम्नः || २. ९. ७||
अथ यत्प्रथमास्तमिते तन्निधनं तदस्य
पितरोऽन्वायत्तास्तस्मात्तान्निदधति निधनभाजिनो
ह्येतस्य साम्न एवं खल्वमुमादित्यँ सप्तविधँ
सामोपास्ते || २. ९. ८||
|| इति नवमः खण्डः ||
|| दशमः खण्डः ||
अथ खल्वात्मसंमितमतिमृत्यु सप्तविधँ
सामोपासीत हिंकार इति त्र्यक्षरं प्रस्ताव
इति त्र्यक्षरं तत्समम् || २. १०. १||
आदिरिति द्व्यक्षरं प्रतिहार इति चतुरक्षरं
तत इहैकं तत्समम् || २. १०. २||
उद्गीथ इति त्र्यक्षरमुपद्रव इति चतुरक्षरं
त्रिभिस्त्रिभिः समं भवत्यक्षरमतिशिष्यते
त्र्यक्षरं तत्समम् || २. १०. ३||
निधनमिति त्र्यक्षरं तत्सममेव भवति
तानि ह वा एतानि द्वाविँशतिरक्षराणि || २. १०. ४||
एकविँशत्यादित्यमाप्नोत्येकविँशो वा
इतोऽसावादित्यो द्वाविँशेन परमादित्याज्जयति
तन्नाकं तद्विशोकम् || २. १०. ५||
आप्नोती हादित्यस्य जयं परो हास्यादित्यजयाज्जयो
भवति य एतदेवं विद्वानात्मसंमितमतिमृत्यु
सप्तविधँ सामोपास्ते सामोपास्ते || २. १०. ६||
|| इति दशमः खण्डः ||
|| एकादशः खण्डः ||
मनो हिंकारो वाक्प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारः
प्राणो निधनमेतद्गायत्रं प्राणेषु प्रोतम् || २. ११. १||
स एवमेतद्गायत्रं प्राणेषु प्रोतं वेद प्राणी भवति
सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति
महान्कीर्त्या महामनाः स्यात्तद्व्रतम् || २. ११. २||
|| इति एकदशः खण्डः ||
|| द्वादशः खण्डः ||
अभिमन्थति स हिंकारो धूमो जायते स प्रस्तावो
ज्वलति स उद्गीथोऽङ्गारा भवन्ति स प्रतिहार
उपशाम्यति तन्निधनँ सँशाम्यति
तन्निधनमेतद्रथंतरमग्नौ प्रोतम् || २. १२. १||
स य एवमेतद्रथंतरमग्नौ प्रोतं वेद ब्रह्मवर्चस्यन्नादो
भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया
पशुभिर्भवति महान्कीर्त्या न प्रत्यङ्ङग्निमाचामेन्न
निष्ठीवेत्तद्व्रतम् || २. १२. २||
|| इति द्वादशः खण्डः ||
|| त्रयोदशः खण्डः ||
उपमन्त्रयते स हिंकारो ज्ञपयते स प्रस्तावः
स्त्रिया सह शेते स उद्गीथः प्रति स्त्रीं सह शेते
स प्रतिहारः कालं गच्छति तन्निधनं पारं गच्छति
तन्निधनमेतद्वामदेव्यं मिथुने प्रोतम् || २. १३. १||
स य एवमेतद्वामदेव्यं मिथुने प्रोतं वेद
मिथुनी भवति मिथुनान्मिथुनात्प्रजायते
सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति
महान्कीर्त्या न कांचन परिहरेत्तद्व्रतम् || २. १३. २||
|| इति त्रयोदशः खण्डः ||
|| चतुर्दशः खण्डः ||
उद्यन्हिंकार उदितः प्रस्तावो मध्यंदिन उद्गीथोऽपराह्णः
प्रतिहारोऽस्तं यन्निधनमेतद्बृहदादित्ये प्रोतम् || २. १४. १||
स य एवमेतद्बृहदादित्ये प्रोतं वेद तेजस्व्यन्नादो
भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया
पशुभिर्भवति महान्कीर्त्या तपन्तं न निन्देत्तद्व्रतम्
|| २. १४. २||
|| इति चतुर्दशः खण्डः ||
|| पञ्चदशः खण्डः ||
अभ्राणि संप्लवन्ते स हिंकारो मेघो जायते
स प्रस्तावो वर्षति स उद्गीथो विद्योतते स्तनयति
स प्रतिहार उद्गृह्णाति तन्निधनमेतद्वैरूपं पर्जन्ये प्रोतम्
|| २. १५. १||
स य एवमेतद्वैरूपं पर्जन्ये प्रोतं वेद
विरूपाँश्च सुरूपँश्च पशूनवरुन्धे
सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति
महान्कीर्त्या वर्षन्तं न निन्देत्तद्व्रतम् || २. १५. २||
|| इति पञ्चदशः खण्डः ||
|| षोडशः खण्डः ||
वसन्तो हिंकारो ग्रीष्मः प्रस्तावो वर्षा उद्गीथः
शरत्प्रतिहारो हेमन्तो निधनमेतद्वैराजमृतुषु प्रोतम्
|| २. १६. १||
स य एवमेतद्वैराजमृतुषु प्रोतं वेद विराजति
प्रजया पशुभिर्ब्रह्मवर्चसेन सर्वमायुरेति
ज्योग्जीवति महान्प्रजया पशुभिर्भवति
महान्कीर्त्यर्तून्न निन्देत्तद्व्रतम् || २. १६. २||
|| इति षोडशः खण्डः ||
|| सप्तदशः खण्डः ||
पृथिवी हिंकारोऽन्तरिक्षं प्रस्तावो द्यौरुद्गीथो
दिशः प्रतिहारः समुद्रो निधनमेताः शक्वर्यो
लोकेषु प्रोताः || २. १७. १||
स य एवमेताः शक्वर्यो लोकेषु प्रोता वेद लोकी भवति
सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति
महान्कीर्त्या लोकान्न निन्देत्तद्व्रतम् || २. १७. २||
|| इति सप्तदशः खण्डः ||
|| अष्टादशः खण्डः ||
अजा हिंकारोऽवयः प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः
पुरुषो निधनमेता रेवत्यः पशुषु प्रोताः || २. १८. १||
स य एवमेता रेवत्यः पशुषु प्रोता वेद
पशुमान्भवति सर्वमायुरेति ज्योग्जीवति
महान्प्रजया पशुभिर्भवति महान्कीर्त्या
पशून्न निन्देत्तद्व्रतम् || २. १८. २||
|| इति अष्टादशः खण्डः ||
|| एकोनविंशः खण्डः ||
लोम हिंकारस्त्वक्प्रस्तावो माँसमुद्गीथोस्थि
प्रतिहारो मज्जा निधनमेतद्यज्ञायज्ञीयमङ्गेषु
प्रोतम् || २. १९. १||
स य एवमेतद्यज्ञायज्ञीयमङ्गेषु प्रोतं वेदाङ्गी भवति
नाङ्गेन विहूर्छति सर्वमायुरेति ज्योग्जीवति
महान्प्रजया पशुभिर्भवति महान्कीर्त्या संवत्सरं
मज्ज्ञो नाश्नीयात्तद्व्रतं मज्ज्ञो
नाश्नीयादिति वा || २. १९. २||
|| इति एकोनविंशः खण्डः ||
|| विंशः खण्डः ||
अग्निर्हिंकारो वायुः प्रस्ताव आदित्य उद्गीथो
नक्षत्राणि प्रतिहारश्चन्द्रमा निधनमेतद्राजनं
देवतासु प्रोतम् || २. २०. १||
स य एवमेतद्राजनं देवतासु प्रोतं वेदैतासामेव
देवतानाँसलोकताँसर्ष्टिताँसायुज्यं गच्छति
सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति
महान्कीर्त्या ब्राह्मणान्न निन्देत्तद्व्रतम् || २. २०. २||
|| इति विंशः खण्डः ||
|| एकविंशः खण्डः ||
त्रयी विद्या हिंकारस्त्रय इमे लोकाः स
प्रस्तावोऽग्निर्वायुरादित्यः स उद्गीथो नक्षत्राणि
वयाँसि मरीचयः स प्रतिहारः सर्पा गन्धर्वाः
पितरस्तन्निधनमेतत्साम सर्वस्मिन्प्रोतम् || २. २१. १||
स य एवमेतत्साम सर्वस्मिन्प्रोतं वेद सर्वँ ह
भवति || २. २१. २||
तदेष श्लोको यानि पञ्चधा त्रीणी त्रीणि
तेभ्यो न ज्यायः परमन्यदस्ति || २. २१. ३||
यस्तद्वेद स वेद सर्वँ सर्वा दिशो बलिमस्मै हरन्ति
सर्वमस्मीत्युपासित तद्व्रतं तद्व्रतम् || २. २१. ४||
|| इति एकविंशः खण्डः ||
|| द्वाविंशः खण्डः ||
विनर्दि साम्नो वृणे पशव्यमित्यग्नेरुद्गीथोऽनिरुक्तः
प्रजापतेर्निरुक्तः सोमस्य मृदु श्लक्ष्णं वायोः
श्लक्ष्णं बलवदिन्द्रस्य क्रौञ्चं बृहस्पतेरपध्वान्तं
वरुणस्य तान्सर्वानेवोपसेवेत वारुणं त्वेव वर्जयेत् || २. २२. १||
अमृतत्वं देवेभ्य आगायानीत्यागायेत्स्वधां
पितृभ्य आशां मनुष्येभ्यस्तृणोदकं पशुभ्यः
स्वर्गं लोकं यजमानायान्नमात्मन आगायानीत्येतानि
मनसा ध्यायन्नप्रमत्तः स्तुवीत || २. २२. २||
सर्वे स्वरा इन्द्रस्यात्मानः सर्व ऊष्माणः
प्रजापतेरात्मानः सर्वे स्पर्शा मृत्योरात्मानस्तं
यदि स्वरेषूपालभेतेन्द्रँशरणं प्रपन्नोऽभूवं
स त्वा प्रति वक्ष्यतीत्येनं ब्रूयात् || २. २२. ३||
अथ यद्येनमूष्मसूपालभेत प्रजापतिँशरणं
प्रपन्नोऽभूवं स त्वा प्रति पेक्ष्यतीत्येनं
ब्रूयादथ यद्येनँ स्पर्शेषूपालभेत मृत्युँ शरणं
प्रपन्नोऽभूवं स त्वा प्रति धक्ष्यतीत्येनं ब्रूयात्
|| २. २२. ४||
सर्वे स्वरा घोषवन्तो बलवन्तो वक्तव्या इन्द्रे बलं
ददानीति सर्व ऊष्माणोऽग्रस्ता अनिरस्ता विवृता
वक्तव्याः प्रजापतेरात्मानं परिददानीति सर्वे स्पर्शा
लेशेनानभिनिहिता वक्तव्या मृत्योरात्मानं
परिहराणीति || २. २२. ५||
|| इति द्वाविंशः खण्डः ||
|| त्रयोविंशः खण्डः ||
त्रयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति प्रथमस्तप
एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी
तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन्सर्व
एते पुण्यलोका भवन्ति ब्रह्मसँस्थोऽमृतत्वमेति || २. २३. १||
प्रजापतिर्लोकानभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रयी विद्या
संप्रास्रवत्तामभ्यतपत्तस्या अभितप्ताया एतान्यक्षराणि
संप्रास्र्वन्त भूर्भुवः स्वरिति || २. २३. २||
तान्यभ्यतपत्तेभ्योऽभितप्तेभ्य ॐकारः
संप्रास्रवत्तद्यथा शङ्कुना सर्वाणि पर्णानि
संतृण्णान्येवमोंकारेण सर्वा वाक्संतृण्णोंकार एवेदँ
सर्वमोंकार एवेदँ सर्वम् || २. २३. ३||
|| इति त्रयोविंशः खण्डः ||
|| चतुर्विंशः खण्डः ||
ब्रह्मवादिनो वदन्ति यद्वसूनां प्रातः सवनँ रुद्राणां
माध्यंदिनँ सवनमादित्यानां च विश्वेषां च
देवानां तृतीयसवनम् || २. २४. १||
क्व तर्हि यजमानस्य लोक इति स यस्तं न विद्यात्कथं
कुर्यादथ विद्वान्कुर्यात् || २. २४. २||
पुरा प्रातरनुवाकस्योपाकरणाज्जघनेन
गार्हपत्यस्योदाङ्मुख उपविश्य स वासवँ
सामाभिगायति || २. २४. ३||
लो३कद्वारमपावा३र्णू ३३ पश्येम त्वा वयँ
रा ३३३३३ हु ३ म् आ ३३ ज्या ३ यो ३ आ ३२१११
इति || २. २४. ४||
अथ जुहोति नमोऽग्नये पृथिवीक्षिते लोकक्षिते
लोकं मे यजमानाय विन्दैष वै यजमानस्य लोक
एतास्मि || २. २४. ५||
अत्र यजमानः परस्तादायुषः स्वाहापजहि
परिघमित्युक्त्वोत्तिष्ठति तस्मै वसवः प्रातःसवनँ
संप्रयच्छन्ति || २. २४. ६||
पुरा माध्यंदिनस्य
सवनस्योपाकरणाज्जघनेनाग्नीध्रीयस्योदङ्मुख
उपविश्य स रौद्र\m +सामाभिगायति || २. २४. ७||
लो३कद्वारमपावा३र्णू३३ पश्येम त्वा वयं
वैरा३३३३३ हु३म् आ३३ज्या ३यो३आ३२१११इति
|| २. २४. ८||
अथ जुहोति नमो वायवेऽन्तरिक्षक्षिते लोकक्षिते
लोकं मे यजमानाय विन्दैष वै यजमानस्य लोक
एतास्मि || २. २४. ९||
अत्र यजमानः परस्तादायुषः स्वाहापजहि
परिघमित्युक्त्वोत्तिष्ठति तस्मै रुद्रा
माध्यंदिनँसवनँसंप्रयच्छन्ति || २. २४. १०||
पुरा तृतीयसवनस्योपाकरणाज्जघनेनाहवनीयस्योदङ्मुख
उपविश्य स आदित्यँस वैश्वदेवँ सामाभिगायति
|| २. २४. ११||
लो३कद्वारमपावा३र्णू३३पश्येम त्वा वयँ स्वारा
३३३३३ हु३म् आ३३ ज्या३ यो३आ ३२१११ इति
|| २. २४. १२||
आदित्यमथ वैश्वदेवं लो३कद्वारमपावा३र्णू३३ पश्येम
त्वा वयँसाम्रा३३३३३ हु३म् आ३३ ज्या३यो३आ ३२१११
इति || २. २४. १३||
अथ जुहोति नम आदित्येभ्यश्च विश्वेभ्यश्च देवेभ्यो
दिविक्षिद्भ्यो लोकक्षिद्भ्यो लोकं मे यजमानाय
विन्दत || २. २४. १४||
एष वै यजमानस्य लोक एतास्म्यत्र यजमानः
परस्तादायुषः स्वाहापहत परिघमित्युक्त्वोत्तिष्ठति
|| २. २४. १५||
तस्मा आदित्याश्च विश्वे च देवास्तृतीयसवनँ
संप्रयच्छन्त्येष ह वै यज्ञस्य मात्रां वेद य एवं वेद
य एवं वेद || २. २४. १६||
|| इति चतुर्विंशः खण्डः ||
|| इति द्वितीयोऽध्यायः ||
|| तृतीयोऽध्यायः ||
|| प्रथमः खण्डः ||
असौ वा आदित्यो देवमधु तस्य द्यौरेव
तिरश्चीनवँशोऽन्तरिक्षमपूपो मरीचयः पुत्राः || ३. १. १||
तस्य ये प्राञ्चो रश्मयस्ता एवास्य प्राच्यो मधुनाड्यः |
ऋच एव मधुकृत ऋग्वेद एव पुष्पं ता अमृता
आपस्ता वा एता ऋचः || ३. १. २||
एतमृग्वेदमभ्यतपँस्तस्याभितप्तस्य यशस्तेज
इन्द्रियं वीर्यमन्नाद्यँरसोऽजायत || ३. १. ३||
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा
एतद्यदेतदादित्यस्य रोहितँरूपम् || ३. १. ४||
|| इति प्रथमः खण्डः ||
|| द्वितीयः खण्डः ||
अथ येऽस्य दक्षिणा रश्मयस्ता एवास्य दक्षिणा
मधुनाड्यो यजूँष्येव मधुकृतो यजुर्वेद एव पुष्पं
ता अमृत आपः || ३. २. १||
तानि वा एतानि यजूँष्येतं
यजुर्वेदमभ्यतपँस्तस्याभितप्तस्य यशस्तेज इन्द्रियं
वीर्यमन्नाद्यँरसोजायत || ३. २. २||
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा
एतद्यदेतदादित्यस्य शुक्लँ रूपम् || ३. २. ३||
|| इति द्वितीयः खण्डः ||
|| तृतीयः खण्डः ||
अथ येऽस्य प्रत्यञ्चो रश्मयस्ता एवास्य प्रतीच्यो
मधुनाड्यः सामान्येव मधुकृतः सामवेद एव पुष्पं
ता अमृता आपः || ३. ३. १||
तानि वा एतानि सामान्येतँ
सामवेदमभ्यतपँस्तस्याभितप्तस्य यशस्तेज इन्द्रियं
वीर्यमन्नाद्यँरसोऽजायत || ३. ३. २||
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा
एतद्यदेतदादित्यस्य कृष्णँरूपम् || ३. ३. ३||
|| इति तृतीयः खण्डः ||
|| चतुर्थः खण्डः ||
अथ येऽस्योदञ्चो रश्मयस्ता एवास्योदीच्यो
मधुनाड्योऽथर्वाङ्गिरस एव मधुकृत
इतिहासपुराणं पुष्पं ता अमृता आपः || ३. ४. १||
ते वा एतेऽथर्वाङ्गिरस एतदितिहासपूराणमभ्यतपँ
स्तस्याभितप्तस्य यशस्तेज इन्द्रियां
वीर्यमन्नाद्यँरसोऽजायत || ३. ४. २||
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा
एतद्यदेतदादित्यस्य परं कृष्णँरूपम् || ३. ४. ३||
|| इति चतुर्थः खण्डः ||
|| पञ्चमः खण्डः ||
अथ येऽस्योर्ध्वा रश्मयस्ता एवास्योर्ध्वा
मधुनाड्यो गुह्या एवादेशा मधुकृतो ब्रह्मैव
पुष्पं ता अमृता आपः || ३. ५. १||
ते वा एते गुह्या आदेशा एतद्ब्रह्माभ्यतपँ
स्तस्याभितप्तस्य यशस्तेज इन्द्रियं
वीर्यमन्नाद्यँरसोऽजायत || ३. ५. २||
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा
एतद्यदेतदादित्यस्य मध्ये क्षोभत इव || ३. ५. ३||
ते वा एते रसानाँरसा वेदा हि रसास्तेषामेते
रसास्तानि वा एतान्यमृतानाममृतानि वेदा
ह्यमृतास्तेषामेतान्यमृतानि || ३. ५. ४||
|| इति पञ्चमः खण्डः ||
|| षष्ठः खण्डः ||
तद्यत्प्रथमममृतं तद्वसव उपजीवन्त्यग्निना मुखेन न वै
देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा
तृप्यन्ति || ३. ६. १||
त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति || ३. ६. २||
स य एतदेवममृतं वेद वसूनामेवैको भूत्वाग्निनैव
मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स य एतदेव
रूपमभिसंविशत्येतस्माद्रूपादुदेति || ३. ६. ३||
स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता
वसूनामेव तावदाधिपत्यँस्वाराज्यं पर्येता || ३. ६. ४||
|| इति षष्ठः खण्डः ||
|| सप्तमः खण्डः ||
अथ यद्द्वितीयममृतं तद्रुद्रा उपजीवन्तीन्द्रेण
मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं
दृष्ट्वा तृप्यन्ति || ३. ७. १||
त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति || ३. ७. २||
स य एतदेवममृतं वेद रुद्राणामेवैको भूत्वेन्द्रेणैव
मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव
रूपमभिसंविशत्येतस्माद्रूपादुदेति || ३. ७. ३||
स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता
द्विस्तावद्दक्षिणत उदेतोत्तरतोऽस्तमेता रुद्राणामेव
तावदाधिपत्यँस्वाराज्यं पर्येता || ३. ७. ४||
|| इति सप्तमः खण्डः ||
|| अष्टमः खण्डः ||
अथ यत्तृतीयममृतं तदादित्या उपजीवन्ति वरुणेन
मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं
दृष्ट्वा तृप्यन्ति || ३. ८. १||
त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति || ३. ८. २||
स य एतदेवममृतं वेदादित्यानामेवैको भूत्वा वरुणेनैव
मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव
रूपमभिसंविशत्येतस्माद्रूपादुदेति || ३. ८. ३||
स यावदादित्यो दक्षिणत उदेतोत्तरतोऽस्तमेता
द्विस्तावत्पश्चादुदेता पुरस्तादस्तमेतादित्यानामेव
तावदाधिपत्यँस्वाराज्यं पर्येता || ३. ८. ४||
|| इति अष्टमः खण्डः ||
|| नवमः खण्डः ||
अथ यच्चतुर्थममृतं तन्मरुत उपजीवन्ति सोमेन
मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं
दृष्ट्वा तृप्यन्ति || ३. ९. १||
त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति || ३. ९. २||
स य एतदेवममृतं वेद मरुतामेवैको भूत्वा सोमेनैव
मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव
रूपमभिसंविशत्येतस्माद्रूपादुदेति || ३. ९. ३||
स यावदादित्यः पश्चादुदेता पुरस्तादस्तमेता
द्विस्तावदुत्तरत उदेता दक्षिणतोऽस्तमेता मरुतामेव
तावदाधिपत्य्ँस्वाराज्यं पर्येता || ३. ९. ४||
|| इति नवमः खण्डः ||
|| दशमः खण्डः ||
अथ यत्पञ्चमममृतं तत्साध्या उपजीवन्ति ब्रह्मणा
मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं
दृष्ट्वा तृप्यन्ति || ३. १०. १||
त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति || ३. १०. २||
स य एतदेवममृतं वेद साध्यानामेवैको भूत्वा
ब्रह्मणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव
रूपमभिसंविशत्येतस्माद्रूपादुदेति || ३. १०. ३||
स यावदादित्य उत्तरत उदेता दक्षिणतोऽस्तमेता
द्विस्तावदूर्ध्वं उदेतार्वागस्तमेता साध्यानामेव
तावदाधिपत्यँस्वाराज्यं पर्येता || ३. १०. ४||
|| इति दशमः खण्डः ||
|| एकादशः खण्डः ||
अथ तत ऊर्ध्व उदेत्य नैवोदेता नास्तमेतैकल एव
मध्ये स्थाता तदेष श्लोकः || ३. ११. १||
न वै तत्र न निम्लोच नोदियाय कदाचन |
देवास्तेनाहँसत्येन मा विराधिषि ब्रह्मणेति || ३. ११. २||
न ह वा अस्मा उदेति न निम्लोचति सकृद्दिवा हैवास्मै
भवति य एतामेवं ब्रह्मोपनिषदं वेद || ३. ११. ३||
तद्धैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे
मनुः प्रजाभ्यस्तद्धैतदुद्दालकायारुणये ज्येष्ठाय पुत्राय
पिता ब्रह्म प्रोवाच || ३. ११. ४||
इदं वाव तज्ज्येष्ठाय पुत्राय पिता ब्रह्म
प्रब्रूयात्प्रणाय्याय वान्तेवासिने || ३. ११. ५||
नान्यस्मै कस्मैचन यद्यप्यस्मा इमामद्भिः परिगृहीतां
धनस्य पूर्णां दद्यादेतदेव ततो भूय इत्येतदेव
ततो भूय इति || ३. ११. ६||
|| इति एकादशः खण्डः ||
|| द्वादशः खण्डः ||
गायत्री वा ईदँ सर्वं भूतं यदिदं किं च वाग्वै गायत्री
वाग्वा इदँ सर्वं भूतं गायति च त्रायते च || ३. १२. १||
या वै सा गायत्रीयं वाव सा येयं पृथिव्यस्याँ हीदँ
सर्वं भूतं प्रतिष्ठितमेतामेव नातिशीयते || ३. १२. २||
या वै सा पृथिवीयं वाव सा यदिदमस्मिन्पुरुषे
शरीरमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव
नातिशीयन्ते || ३. १२. ३||
यद्वै तत्पुरुषे शरीरमिदं वाव तद्यदिदमस्मिन्नन्तः
पुरुषे हृदयमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव
नातिशीयन्ते || ३. १२. ४||
सैषा चतुष्पदा षड्विधा गायत्री तदेतदृचाभ्यनूक्तम्
|| ३. १२. ५||
तावानस्य महिमा ततो ज्यायाँश्च पूरुषः |
पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवीति || ३. १२. ६||
यद्वै तद्ब्रह्मेतीदं वाव तद्योयं बहिर्धा
पुरुषादाकाशो यो वै स बहिर्धा पुरुषादाकाशः || ३. १२. ७||
अयं वाव स योऽयमन्तः पुरुष अकाशो यो वै सोऽन्तः
पुरुष आकाशः || ३. १२. ८||
अयं वाव स योऽयमन्तर्हृदय आकाशस्तदेतत्पूर्णमप्रवर्ति
पूर्णमप्रवर्तिनीँश्रियं लभते य एवं वेद || ३. १२. ९||
|| इति द्वादशः खण्डः ||
|| त्रयोदशः खण्डः ||
तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः
स योऽस्य प्राङ्सुषिः स प्राणस्तच्चक्षुः
स आदित्यस्तदेतत्तेजोऽन्नाद्यमित्युपासीत
तेजस्व्यन्नादो भवति य एवं वेद || ३. १३. १||
अथ योऽस्य दक्षिणः सुषिः स व्यानस्तच्छ्रोत्रँ
स चन्द्रमास्तदेतच्छ्रीश्च यशश्चेत्युपासीत
श्रीमान्यशस्वी भवति य एवं वेद || ३. १३. २||
अथ योऽस्य प्रत्यङ्सुषिः सोऽपानः
सा वाक्सोऽग्निस्तदेतद्ब्रह्मवर्चसमन्नाद्यमित्युपासीत
ब्रह्मवर्चस्यन्नादो भवति य एवं वेद || ३. १३. ३||
अथ योऽस्योदङ्सुषिः स समानस्तन्मनः
स पर्जन्यस्तदेतत्कीर्तिश्च व्युष्टिश्चेत्युपासीत
कीर्तिमान्व्युष्टिमान्भवति य एवं वेद || ३. १३. ४||
अथ योऽस्योर्ध्वः सुषिः स उदानः स वायुः
स आकाशस्तदेतदोजश्च महश्चेत्युपासीतौजस्वी
महस्वान्भवति य एवं वेद || ३. १३. ५||
ते वा एते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य
द्वारपाः स य एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य
लोकस्य द्वारपान्वेदास्य कुले वीरो जायते प्रतिपद्यते
स्वर्गं लोकं य एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य
लोकस्य द्वारपान्वेद || ३. १३. ६||
अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु
सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव
तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः || ३. १३. ७||
तस्यैषा दृष्टिर्यत्रितदस्मिञ्छरीरे सँस्पर्शेनोष्णिमानं
विजानाति तस्यैषा श्रुतिर्यत्रैतत्कर्णावपिगृह्य निनदमिव
नदथुरिवाग्नेरिव ज्वलत उपशृणोति तदेतद्दृष्टं च
श्रुतं चेत्युपासीत चक्षुष्यः श्रुतो भवति य एवं वेद
य एवं वेद || ३. १३. ८||
|| इति त्रयोदशः खण्डः ||
|| चतुर्दशः खण्डः ||
सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत |
अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिँल्लोके
पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत
|| ३. १४. १||
मनोमयः प्राणशरीरो भारूपः सत्यसंकल्प
आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः
सर्वमिदमभ्यत्तोऽवाक्यनादरः || ३. १४. २||
एष म आत्मान्तर्हृदयेऽणीयान्व्रीहेर्वा यवाद्वा
सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वैष
म आत्मान्तर्हृदये ज्यायान्पृथिव्या
ज्यायानन्तरिक्षाज्ज्यायान्दिवो ज्यायानेभ्यो
लोकेभ्यः || ३. १४. ३||
सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः
सर्वमिदमभ्यात्तोऽवाक्यनादर एष म आत्मान्तर्हृदय
एतद्ब्रह्मैतमितः प्रेत्याभिसंभवितास्मीति यस्य स्यादद्धा
न विचिकित्सास्तीति ह स्माह शाण्डिल्यः शाण्डिल्यः
|| ३. १४. ४||
|| इति चतुर्दशः खण्डः ||
|| पञ्चदशः खण्डः ||
अन्तरिक्षोदरः कोशो भूमिबुध्नो न जीर्यति दिशो
ह्यस्य स्रक्तयो द्यौरस्योत्तरं बिलँ स एष कोशो
वसुधानस्तस्मिन्विश्वमिदँ श्रितम् || ३. १५. १||
तस्य प्राची दिग्जुहूर्नाम सहमाना नाम दक्षिणा
राज्ञी नाम प्रतीची सुभूता नामोदीची तासां
वायुर्वत्सः स य एतमेवं वायुं दिशां वत्सं वेद न
पुत्ररोदँ रोदिति सोऽहमेतमेवं वायुं दिशां वत्सं
वेद मा पुत्ररोदँरुदम् || ३. १५. २||
अरिष्टं कोशं प्रपद्येऽमुनामुनामुना
प्राणं प्रपद्येऽमुनामुनामुना भूः प्रपद्येऽमुनामुनामुना
भुवः प्रपद्येऽमुनामुनामुना स्वः प्रपद्येऽमुनामुनामुना
|| ३. १५. ३||
स यदवोचं प्राणं प्रपद्य इति प्राणो वा इदँ सर्वं
भूतं यदिदं किंच तमेव तत्प्रापत्सि || ३. १५. ४||
अथ यदवोचं भूः प्रपद्य इति पृथिवीं प्रपद्येऽन्तरिक्षं
प्रपद्ये दिवं प्रपद्य इत्येव तदवोचम् || ३. १५. ५||
अथ यदवोचं भुवः प्रपद्य इत्यग्निं प्रपद्ये वायुं
प्रपद्य आदित्यं प्रपद्य इत्येव तदवोचम् || ३. १५. ६||
अथ यदवोचँस्वः प्रपद्य इत्यृग्वेदं प्रपद्ये यजुर्वेदं प्रपद्ये
सामवेदं प्रपद्य इत्येव तदवोचं तदवोचम् || ३. १५. ७||
|| इति पञ्चदशः खण्डः ||
|| षोडशः खण्डः ||
पुरुषो वाव यज्ञस्तस्य यानि चतुर्विँशति वर्षाणि
तत्प्रातःसवनं चतुर्विँशत्यक्षरा गायत्री गायत्रं
प्रातःसवनं तदस्य वसवोऽन्वायत्ताः प्राणा वाव वसव
एते हीदँसर्वं वासयन्ति || ३. १६. १||
तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा
वसव इदं मे प्रातःसवनं माध्यंदिनँसवनमनुसंतनुतेति
माहं प्राणानां वसूनां मध्ये यज्ञो विलोप्सीयेत्युद्धैव
तत एत्यगदो ह भवति || ३. १६. २||
अथ यानि चतुश्चत्वारिँशद्वर्षाणि तन्माध्यंदिनँ
सवनं चतुश्चत्वारिँशदक्षरा त्रिष्टुप्त्रैष्टुभं
माध्यंदिनँसवनं तदस्य रुद्रा अन्वायत्ताः प्राणा
वाव रुद्रा एते हीदँसर्वँरोदयन्ति || ३. १६. ३||
तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा रुद्रा
इदं मे माध्यंदिनँसवनं तृतीयसवनमनुसंतनुतेति
माहं प्राणानाँरुद्राणां मध्ये यज्ञो विलोप्सीयेत्युद्धैव
तत एत्यगदो ह भवति || ३. १६. ४||
अथ यान्यष्टाचत्वारिँशद्वर्षाणि
तत्तृतीयसवनमष्टाचत्वारिँशदक्षरा
जगती जागतं तृतीयसवनं तदस्यादित्या अन्वायत्ताः
प्राणा वावादित्या एते हीदँसर्वमाददते || ३. १६. ५||
तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा
अदित्या इदं मे तृतीयसवनमायुरनुसंतनुतेति माहं
प्राणानामादित्यानां मध्ये यज्ञो विलोप्सीयेत्युद्धैव
तत एत्यगदो हैव भवति || ३. १६. ६||
एतद्ध स्म वै तद्विद्वानाह महिदास ऐतरेयः
स किं म एतदुपतपसि योऽहमनेन न प्रेष्यामीति
स ह षोडशं वर्षशतमजीवत्प्र ह षोडशं
वर्षशतं जीवति य एवं वेद || ३. १६. ७||
|| इति षोडशः खण्डः ||
|| सप्तदशः खण्डः ||
स यदशिशिषति यत्पिपासति यन्न रमते ता अस्य
दीक्षाः || ३. १७. १||
अथ यदश्नाति यत्पिबति यद्रमते तदुपसदैरेति || ३. १७. २||
अथ यद्धसति यज्जक्षति यन्मैथुनं चरति स्तुतशस्त्रैरेव
तदेति || ३. १७. ३||
अथ यत्तपो दानमार्जवमहिँसा सत्यवचनमिति
ता अस्य दक्षिणाः || ३. १७. ४||
तस्मादाहुः सोष्यत्यसोष्टेति पुनरुत्पादनमेवास्य
तन्मरणमेवावभृथः || ३. १७. ५||
तद्धैतद्घोर् आङ्गिरसः कृष्णाय
देवकीपुत्रायोक्त्वोवाचापिपास एव स बभूव
सोऽन्तवेलायामेतत्त्रयं प्रतिपद्येताक्षितमस्यच्युतमसि
प्राणसँशितमसीति तत्रैते द्वे ऋचौ भवतः || ३. १७. ६||
आदित्प्रत्नस्य रेतसः |
उद्वयं तमसस्परि ज्योतिः पश्यन्त उत्तरँस्वः
पश्यन्त उत्तरं देवं देवत्रा सूर्यमगन्म
ज्योतिरुत्तममिति ज्योतिरुत्तममिति || ३. १७. ७||
|| इति सप्तदशः खण्डः ||
|| अष्टादशः खण्डः ||
मनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो
ब्रह्मेत्युभयमादिष्टं भवत्यध्यात्मं चाधिदैवतं च
|| ३. १८. १||
तदेतच्चतुष्पाद्ब्रह्म वाक्पादः प्राणः पादश्चक्षुः
पादः श्रोत्रं पाद इत्यध्यात्ममथाधिदैवतमग्निः
पादो वायुः पादा अदित्यः पादो दिशः पाद
इत्युभयमेवादिष्टं भवत्यध्यात्मं चैवाधिदैवतं च
|| ३. १८. २||
वागेव ब्रह्मणश्चतुर्थः पादः सोऽग्निना ज्योतिषा
भाति च तपति च भाति च तपति च कीर्त्या यशसा
ब्रह्मवर्चसेन य एवं वेद || ३. १८. ३||
प्राण एव ब्रह्मणश्चतुर्थः पादः स वायुना ज्योतिषा
भाति च तपति च् भाति च तपति च कीर्त्या यशसा
ब्रह्मवर्चसेन य एवं वेद || ३. १८. ४||
चक्षुरेव ब्रह्मणश्चतुर्थः पादः स आदित्येन ज्योतिषा
भाति च तपति च भाति च तपति च कीर्त्या यशसा
ब्रह्मवर्चसेन य एवं वेद || ३. १८. ५||
श्रोत्रमेव ब्रह्मणश्चतुर्थः पादः स दिग्भिर्ज्योतिषा
भाति च तपति च भाति च तपति च कीर्त्या यशसा
ब्रह्मवर्चसेन य एवं वेद य एवं वेद || ३. १८. ६||
|| इति अष्टादशः खण्डः ||
|| एकोनविंशः खण्डः ||
आदित्यो ब्रह्मेत्यादेशस्तस्योपव्याख्यानमसदेवेदमग्र
आसीत् | तत्सदासीत्तत्समभवत्तदाण्डं निरवर्तत
तत्संवत्सरस्य मात्रामशयत तन्निरभिद्यत ते आण्डकपाले
रजतं च सुवर्णं चाभवताम् || ३. १९. १||
तद्यद्रजतँ सेयं पृथिवी यत्सुवर्णँ सा द्यौर्यज्जरायु
ते पर्वता यदुल्बँ समेघो नीहारो या धमनयस्ता
नद्यो यद्वास्तेयमुदकँ स समुद्रः || ३. १९. २||
अथ यत्तदजायत सोऽसावादित्यस्तं जायमानं घोषा
उलूलवोऽनूदतिष्ठन्त्सर्वाणि च भूतानि सर्वे च
कामास्तस्मात्तस्योदयं प्रति प्रत्यायनं प्रति घोषा
उलूलवोऽनूत्तिष्ठन्ति सर्वाणि च भूतानि सर्वे च कामाः
|| ३. १९. ३||
स य एतमेवं विद्वानादित्यं ब्रह्मेत्युपास्तेऽभ्याशो ह
यदेनँ साधवो घोषा आ च गच्छेयुरुप च
निम्रेडेरन्निम्रेडेरन् || ३. १९. ४||
|| इति एकोनविंशः खण्डः ||
|| इति तृतीयोऽध्यायः ||
|| चतुर्थोऽध्यायः ||
|| प्रथमः खण्डः ||
जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस
स ह सर्वत आवसथान्मापयांचक्रे सर्वत एव
मेऽन्नमत्स्यन्तीति || ४. १. १||
अथ हँसा निशायामतिपेतुस्तद्धैवँ हँ सोहँ समभ्युवाद
हो होऽयि भल्लाक्ष भल्लाक्ष जानश्रुतेः पौत्रायणस्य
समं दिवा ज्योतिराततं तन्मा प्रसाङ्क्षी स्तत्त्वा
मा प्रधाक्षीरिति || ४. १. २||
तमु ह परः प्रत्युवाच कम्वर एनमेतत्सन्तँ सयुग्वानमिव
रैक्वमात्थेति यो नु कथँ सयुग्वा रैक्व इति || ४. १. ३||
यथा कृतायविजितायाधरेयाः संयन्त्येवमेनँ सर्वं
तदभिसमैति यत्किंच प्रजाः साधु कुर्वन्ति यस्तद्वेद
यत्स वेद स मयैतदुक्त इति || ४. १. ४||
तदु ह जानश्रुतिः पौत्रायण उपशुश्राव
स ह संजिहान एव क्षत्तारमुवाचाङ्गारे ह सयुग्वानमिव
रैक्वमात्थेति यो नु कथँ सयुग्वा रैक्व इति || ४. १. ५||
यथा कृतायविजितायाधरेयाः संयन्त्येवमेनँ सर्वं
तदभिसमैति यत्किंच प्रजाः साधु कुर्वन्ति यस्तद्वेद
यत्स वेद स मयैतदुक्त इति || ४. १. ६||
स ह क्षत्तान्विष्य नाविदमिति प्रत्येयाय तँ होवाच
यत्रारे ब्राह्मणस्यान्वेषणा तदेनमर्च्छेति || ४. १. ७||
सोऽधस्ताच्छकटस्य पामानं कषमाणमुपोपविवेश
तँ हाभ्युवाद त्वं नु भगवः सयुग्वा रैक्व
इत्यहँ ह्यरा३ इति ह प्रतिजज्ञे स ह क्षत्ताविदमिति
प्रत्येयाय || ४. १. ८ ||
|| इति प्रथमः खण्डः ||
|| द्वितीयः खण्डः ||
तदु ह जानश्रुतिः पौत्रायणः षट्शतानि गवां
निष्कमश्वतरीरथं तदादाय प्रतिचक्रमे तँ हाभ्युवाद
|| ४. २. १||
रैक्वेमानि षट्शतानि गवामयं निष्कोऽयमश्वतरीरथोऽनु
म एतां भगवो देवताँ शाधि यां देवतामुपास्स इति
|| ४. २. २||
तमु ह परः प्रत्युवाचाह हारेत्वा शूद्र तवैव सह
गोभिरस्त्विति तदु ह पुनरेव जानश्रुतिः पौत्रायणः
सहस्रं गवां निष्कमश्वतरीरथं दुहितरं तदादाय
प्रतिचक्रमे || ४. २. ३||
तँ हाभ्युवाद रैक्वेदँ सहस्रं गवामयं
निष्कोऽयमश्वतरीरथ इयं जायायं ग्रामो
यस्मिन्नास्सेऽन्वेव मा भगवः शाधीति || ४. २. ४ ||
तस्या ह मुखमुपोद्गृह्णन्नुवाचाजहारेमाः शूद्रानेनैव
मुखेनालापयिष्यथा इति ते हैते रैक्वपर्णा नाम
महावृषेषु यत्रास्मा उवास स तस्मै होवाच || ४. २. ५ ||
|| इति द्वितीयः खण्डः ||
|| तृतीयः खण्डः ||
वायुर्वाव संवर्गो यदा वा अग्निरुद्वायति वायुमेवाप्येति
यदा सूर्योऽस्तमेति वायुमेवाप्येति यदा चन्द्रोऽस्तमेति
वायुमेवाप्येति || ४. ३. १||
यदाप उच्छुष्यन्ति वायुमेवापियन्ति
वायुर्ह्येवैतान्सर्वान्संवृङ्क्त इत्यधिदैवतम् || ४. ३. २||
अथाध्यात्मं प्राणो वाव संवर्गः स यदा स्वपिति प्राणमेव
वागप्येति प्राणं चक्षुः प्राणँ श्रोत्रं प्राणं मनः प्राणो
ह्येवैतान्सर्वान्संवृङ्क्त इति || ४. ३. ३||
तौ वा एतौ द्वौ सम्वर्गौ वायुरेव देवेषु प्राणः प्राणेषु
|| ४. ३. ४||
अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनिं
परिविष्यमाणौ ब्रह्मचारी बिभिक्षे तस्मा उ ह न ददतुः
|| ४. ३. ५||
स होवाच महात्मनश्चतुरो देव एकः कः स जगार
भुवनस्य गोपास्तं कापेय नाभिपश्यन्ति मर्त्या
अभिप्रतारिन्बहुधा वसन्तं यस्मै वा एतदन्नं तस्मा
एतन्न दत्तमिति || ४. ३. ६||
तदु ह शौनकः कापेयः प्रतिमन्वानः प्रत्येयायात्मा देवानां
जनिता प्रजानाँ हिरण्यदँष्ट्रो बभसोऽनसूरिर्महान्तमस्य
महिमानमाहुरनद्यमानो यदनन्नमत्तीति वै वयं
ब्रह्मचारिन्नेदमुपास्महे दत्तास्मै भिक्षामिति || ४. ३. ७||
तस्म उ ह ददुस्ते वा एते पञ्चान्ये पञ्चान्ये दश
सन्तस्तत्कृतं तस्मात्सर्वासु दिक्ष्वन्नमेव दश कृतँ सैषा
विराडन्नादी तयेदँ सर्वं दृष्टँ सर्वमस्येदं दृष्टं
भवत्यन्नादो भवति य एवं वेद य एवं वेद || ४. ३. ८||
|| इति तृतीयः खण्डः ||
|| चतुर्थः खण्डः ||
सत्यकामो ह जाबालो जबालां मातरमामन्त्रयांचक्रे
ब्रह्मचर्यं भवति विवत्स्यामि किंगोत्रो न्वहमस्मीति
|| ४. ४. १||
सा हैनमुवाच नाहमेतद्वेद तात यद्गोत्रस्त्वमसि
बह्वहं चरन्ती परिचारिणी यौवने त्वामलभे
साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि
सत्यकामो नाम त्वमसि स सत्यकाम एव जाबालो
ब्रवीथा इति || ४. ४. २||
स ह हारिद्रुमतं गौतममेत्योवाच ब्रह्मचर्यं भगवति
वत्स्याम्युपेयां भगवन्तमिति || ४. ४. ३||
तँ होवाच किंगोत्रो नु सोम्यासीति स होवाच
नाहमेतद्वेद भो यद्गोत्रोऽहमस्म्यपृच्छं मातरँ
सा मा प्रत्यब्रवीद्बह्वहं चरन्ती परिचरिणी यौवने
त्वामलभे साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु
नामाहमस्मि सत्यकामो नाम त्वमसीति सोऽहँ
सत्यकामो जाबालोऽस्मि भो इति || ४. ४. ४||
तँ होवाच नैतदब्राह्मणो विवक्तुमर्हति समिधँ
सोम्याहरोप त्वा नेष्ये न सत्यादगा इति तमुपनीय
कृशानामबलानां चतुःशता गा निराकृत्योवाचेमाः
सोम्यानुसंव्रजेति ता अभिप्रस्थापयन्नुवाच
नासहस्रेणावर्तेयेति स ह वर्षगणं प्रोवास ता यदा
सहस्रँ संपेदुः || ४. ४. ५||
|| इति चतुर्थः खण्डः ||
|| पञ्चमः खण्डः ||
अथ हैनमृषभोऽभ्युवाद सत्यकाम३ इति
भगव इति ह प्रतिशुश्राव प्राप्ताः सोम्य सहस्रँ स्मः
प्रापय न आचार्यकुलम् || ४. ५. १||
ब्रह्मणश्च ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति
तस्मै होवाच प्राची दिक्कला प्रतीची दिक्कला
दक्षिणा दिक्कलोदीची दिक्कलैष वै सोम्य चतुष्कलः
पादो ब्रह्मणः प्रकाशवान्नाम || ४. ५. २||
स य एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मणः
प्रकाशवानित्युपास्ते प्रकाशवानस्मिँल्लोके भवति
प्रकाशवतो ह लोकाञ्जयति य एतमेवं विद्वाँश्चतुष्कलं
पादं ब्रह्मणः प्रकाशवानित्युपास्ते || ४. ५. ३||
|| इति पञ्चमः खण्डः ||
|| षष्ठः खण्डः ||
अग्निष्टे पादं वक्तेति स ह श्वोभूते ग
आभिप्रस्थापयांचकार ता यत्राभि सायं
बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय
पश्चादग्नेः प्राङुपोपविवेश || ४. ६. १||
तमग्निरभ्युवाद सत्यकाम३ इति भगव इति
ह प्रतिशुश्राव || ४. ६. २||
ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति
तस्मै होवाच पृथिवी कलान्तरिक्षं कला द्यौः कला
समुद्रः कलैष वै सोम्य चतुष्कलः पादो
ब्रह्मणोऽनन्तवान्नाम || ४. ६. ३||
स य एतमेवं विद्वाँश्चतुष्कलं पादं
ब्रह्मणोऽनन्तवानित्युपास्तेऽनन्तवानस्मिँल्लोके
भवत्यनन्तवतो ह लोकाञ्जयति य एतमेवं विद्वाँश्चतुष्कलं
पादं ब्रह्मणोऽनन्तवानित्युपास्ते || ४. ६. ४||
|| इति षष्ठः खण्डः ||
|| सप्तमः खण्डः ||
हँसस्ते पादं वक्तेति स ह श्वोभूते गा
अभिप्रस्थापयांचकार ता यत्राभि सायं
बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय
पश्चादग्नेः प्राङुपोपविवेश || ४. ७. १||
तँहँस उपनिपत्याभ्युवाद सत्यकाम३ इति भगव
इति ह प्रतिशुश्राव || ४. ७. २||
ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति
तस्मै होवाचाग्निः कला सूर्यः कला चन्द्रः कला
विद्युत्कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणो
ज्योतिष्मान्नाम || ४. ७. ३||
स य एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मणो
ज्योतिष्मानित्युपास्ते ज्योतिष्मानस्मिँल्लोके भवति
ज्योतिष्मतो ह लोकाञ्जयति य एतमेवं विद्वाँश्चतुष्कलं
पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते || ४. ७. ४||
|| इति सप्तमः खण्डः ||
|| अष्टमः खण्डः ||
मद्गुष्टे पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयांचकार
ता यत्राभि सायं बभूवुस्तत्राग्निमुपसमाधाय गा
उपरुध्य समिधमाधाय पश्चादग्नेः प्राङुपोपविवेश || ४. ८. १||
तं मद्गुरुपनिपत्याभ्युवाद सत्यकाम३ इति भगव इति
ह प्रतिशुश्राव || ४. ८. २||
ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति
तस्मै होवाच प्राणः कला चक्षुः कला श्रोत्रं कला मनः
कलैष वै सोम्य चतुष्कलः पादो ब्रह्मण आयतनवान्नाम
|| ४. ८. ३||
स यै एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मण
आयतनवानित्युपास्त आयतनवानस्मिँल्लोके
भवत्यायतनवतो ह लोकाञ्जयति य एतमेवं
विद्वाँश्चतुष्कलं पादं ब्रह्मण आयतनवानित्युपास्ते
|| ४. ८. ४||
|| इति अष्टमः खण्डः ||
|| नवमः खण्डः ||
प्राप हाचर्यकुलं तमाचर्योऽभ्युवाद सत्यकाम३ इति
भगव इति ह प्रतिशुश्राव || ४. ९. १||
ब्रह्मविदिव वै सोम्य भासि को नु त्वानुशशासेत्यन्ये
मनुष्येभ्य इति ह प्रतिजज्ञे भगवाँस्त्वेव मे कामे ब्रूयात्
|| ४. ९. २||
श्रुतँह्येव मे भगवद्दृशेभ्य आचार्याद्धैव विद्या विदिता
साधिष्ठं प्रापतीति तस्मै हैतदेवोवाचात्र ह न किंचन
वीयायेति वीयायेति || ४. ९. ३||
|| इति नवमः खण्डः ||
|| दशमः खण्डः ||
उपकोसलो ह वै कामलायनः सत्यकामे जाबाले
ब्रह्मचार्यमुवास तस्य ह द्वादश वार्षाण्यग्नीन्परिचचार
स ह स्मान्यानन्तेवासिनः समावर्तयँस्तं ह स्मैव न
समावर्तयति || ४. १०. १||
तं जायोवाच तप्तो ब्रह्मचारी कुशलमग्नीन्परिचचारीन्मा
त्वाग्नयः परिप्रवोचन्प्रब्रूह्यस्मा इति तस्मै हाप्रोच्यैव
प्रवासांचक्रे || ४. १०. २||
स ह व्याधिनानशितुं दध्रे तमाचार्यजायोवाच
ब्रह्मचारिन्नशान किं नु नाश्नासीति स होवाच
बहव इमेऽस्मिन्पुरुषे कामा नानात्यया व्याधीभिः
प्रतिपूर्णोऽस्मि नाशिष्यामीति || ४. १०. ३||
अथ हाग्नयः समूदिरे तप्तो ब्रह्मचारी कुशलं नः
पर्यचारीद्धन्तास्मै प्रब्रवामेति तस्मै होचुः प्राणो ब्रह्म
कं ब्रह्म खं ब्रह्मेति || ४. १०. ४||
स होवाच विजानाम्यहं यत्प्राणो ब्रह्म कं च तु खं च न
विजानामीति ते होचुर्यद्वाव कं तदेव खं यदेव खं तदेव
कमिति प्राणं च हास्मै तदाकाशं चोचुः || ४. १०. ५||
|| इति दशमः खण्डः ||
|| एकादशः खण्डः ||
अथ हैनं गार्हपत्योऽनुशशास पृथिव्यग्निरन्नमादित्य
इति य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि स
एवाहमस्मीति || ४. ११. १||
स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति
सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप
वयं तं भुञ्जामोऽस्मिँश्च लोकेऽमुष्मिँश्च य एतमेवं
विद्वानुपास्ते || ४. ११. २||
|| इति एकादशः खण्डः ||
|| द्वादशः खण्डः ||
अथ हैनमन्वाहार्यपचनोऽनुशशासापो दिशो नक्षत्राणि
चन्द्रमा इति य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि
स एवाहमस्मीति || ४. १२. १||
स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति
सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप
वयं तं भुञ्जामोऽस्मिँश्च लोकेऽमुष्मिँश्च य एतमेवं
विद्वानुपास्ते || ४. १२. २||
|| इति द्वादशः खण्डः ||
|| त्रयोदशः खण्डः ||
अथ हैनमाहवनीयोऽनुशशास प्राण आकाशो द्यौर्विद्युदिति
य एष विद्युति पुरुषो दृश्यते सोऽहमस्मि स
एवाहमस्मीति || ४. १३. १||
स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति
सर्वमयुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप
वयं तं भुञ्जामोऽस्मिँश्च लोकेऽमुष्मिँश्च य एतमेवं
विद्वानुपास्ते || ४. १३. २||
|| इति त्रयोदशः खण्डः ||
|| चतुर्दशः खण्डः ||
ते होचुरुपकोसलैषा सोम्य तेऽस्मद्विद्यात्मविद्या
चाचार्यस्तु ते गतिं वक्तेत्याजगाम
हास्याचार्यस्तमाचार्योऽभ्युवादोपकोसल३ इति
|| ४. १४. १||
भगव इति ह प्रतिशुश्राव ब्रह्मविद इव सोम्य ते मुखं भाति
को नु त्वानुशशासेति को नु मानुशिष्याद्भो इतीहापेव
निह्नुत इमे नूनमीदृशा अन्यादृशा इतीहाग्नीनभ्यूदे
किं नु सोम्य किल तेऽवोचन्निति || ४. १४. २||
इदमिति ह प्रतिजज्ञे लोकान्वाव किल सोम्य तेऽवोचन्नहं
तु ते तद्वक्ष्यामि यथा पुष्करपलाश आपो न श्लिष्यन्त
एवमेवंविदि पापं कर्म न श्लिष्यत इति ब्रवीतु मे
भगवानिति तस्मै होवाच || ४. १४. ३||
|| इति चतुर्दशः खण्डः ||
|| पञ्जदशः खण्डः ||
य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति
होवाचैतदमृतमभयमेतद्ब्रह्मेति
तद्यद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव
गच्छति || ४. १५. १||
एतँ संयद्वाम इत्याचक्षत एतँ हि सर्वाणि
वामान्यभिसंयन्ति सर्वाण्येनं वामान्यभिसंयन्ति
य एवं वेद || ४. १५. २||
एष उ एव वामनीरेष हि सर्वाणि वामानि नयति
सर्वाणि वामानि नयति य एवं वेद || ४. १५. ३||
एष उ एव भामनीरेष हि सर्वेषु लोकेषु भाति
सर्वेषु लोकेषु भाति य एवं वेद || ४. १५. ४||
अथ यदु चैवास्मिञ्छव्यं कुर्वन्ति यदि च
नार्चिषमेवाभिसंभवन्त्यर्चिषोऽहरह्न
आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्ङेति
मासाँस्तान्मासेभ्यः संवत्सरँ
संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं
तत् पुरुषोऽमानवः स एनान्ब्रह्म गमयत्येष देवपथो
ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते
नावर्तन्ते || ४. १५. ५||
|| इति पञ्चदशः खण्डः ||
|| षोडशः खण्डः ||
एष ह वै यज्ञो योऽयं पवते एष ह यन्निदँ सर्वं पुनाति
यदेष यन्निदँ सर्वं पुनाति तस्मादेष एव यज्ञस्तस्य
मनश्च वाक्च वर्तनी || ४. १६. १||
तयोरन्यतरां मनसा सँस्करोति ब्रह्मा वाचा
होताध्वर्युरुद्गातान्यतराँस यत्रौपाकृते प्रातरनुवाके
पुरा परिधानीयाया ब्रह्मा व्यवदति || ४. १६. २||
अन्यतरामेव वर्तनीँ सँस्करोति हीयतेऽन्यतरा
स यथैकपाद्व्रजन्रथो वैकेन चक्रेण वर्तमानो
रिष्यत्येवमस्य यज्ञोरिष्यति यज्ञँ रिष्यन्तं
यजमानोऽनुरिष्यति स इष्ट्वा पापीयान्भवति || ४. १६. ३||
अथ यत्रोपाकृते प्रातरनुवाके न पुरा परिधानीयाया ब्रह्मा
व्यव